वैशम्पायनः-
इत्युक्तवति भीष्मे तु तूष्णीम्भूते युधिष्ठिरः
पप्रच्छावसथं गत्वा भ्रातॄन्विदुरपञ्चमान्
युधिष्ठिरः-
धर्मे चार्थे च कामे च लोकवृत्तिस्समाहिता
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै
सम्पृष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ
वैशम्पायनः-
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन्
विदुरः-
बहुश्रुतं तपस्त्यागश्श्रद्धा यज्ञक्रिया क्षमा
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम्
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः
धर्मेण देवा दिवि च धर्मे चार्थस्समाहितः
धर्मो राजन्कुरुश्श्रेष्ठो मध्यमो ह्यर्थ उच्यते
कामो यवीयानिति च प्रवदन्ति मनीषिणः
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना
तथा च सर्वभूतेषु वर्तितव्यं यतात्मना
वैशम्पायनः-
समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः
ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः
अर्जुनः-
अर्थस्यावयवावेतौ धर्मकामाविति स्मृतिः
अर्थसिद्ध्याऽभिनिर्वृत्तावुभावेतौ भविष्यतः
उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः
ब्रह्माणमिव भूतानि सततं पर्युपासते
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्
काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः
विद्वांसश्चैव दान्ताश्च मुक्तास्सर्वपरिग्रहैः
अर्थार्थिनस्सन्ति नित्यं परितप्यन्ति कर्मभिः
कर्मभूमिरियं राजन्निह वाष्ता प्रशस्यते
कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च
अर्थ इत्येव सर्वेषां कर्मणामप्युपक्रमः
निहृतेऽर्थे निवर्तेते धर्मकामाविति श्रुतिः
विषहेतार्थवान्धर्ममाराधयितुमुत्तमम्
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः
अर्थार्थिनस्सन्ति केचिदपरे स्वर्गकाङ्क्षिणः
कुलप्रत्यागमाश्चैके स्वं स्वं धर्ममनुष्ठिताः
आस्तिका नास्तिकाश्चैव नियतास्संयमे परे
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्
एतन्मतिमतांश्रेष्ठ मतं मम यथातथम्
अनयोस्तु निबोध त्वं वचनं शक्रकण्वयोः
वैशम्पायनः-
तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्
नकुलस्सहदेवश्च वाक्यमूचतुरुत्तमम्
नकुलसहदेवौ-
आसीनश्च शयानश्च विचरन्नपि वा स्थितः
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि
तस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः
मध्विवामृतसंसृष्टं तस्मादेतौ मताविह
अनर्थस्य न कामोऽस्ति तथाऽर्थोऽधर्मिणः कुतः
तस्मादुद्विजते लोको धर्मार्थाभ्यां बहिष्कृतात्
तस्माद्धर्मप्रधानेन सेव्योऽर्थस्संयतात्मना
विश्वस्तेषु हि भूतेषु कल्प्यन्ते सर्व एव च
धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंहितम्
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम्
वैशम्पायनः-
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोस्सुतौ
भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे
भीष्मः-
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते
कामेन युक्ता ऋषयस्तपस्येव समाहिताः
पलाशाश्शाकमूलाशा वायुभक्षास्सुसंयताः
वेदोपवेदेष्वपरे युक्तास्स्वाध्यायपारगाः
श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे
वणिजः कर्षका गोपाः कारवश्शिल्पिनस्तथा
देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु
समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः
कामो हि विविधाकारस्सर्वं कामेन सन्ततम्
नास्ति नासीन्न भविता भूतं काममृते परम्
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः
श्रेयस्तैलं न पिण्याको घृतं श्रेयोऽप्युदश्वितः
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः
पुष्पतो मध्विव परं कामात्सञ्जायते सुखम्
सुचारुवेषाभिरलङ्कृताभिर्मदोत्कटाभिः प्रियवादिनीभिः
रमस्व योषिद्भिरुपेत्य कामं कामो हि राजन्परमाभिरामः
माभूद्विचारस्तव राजपुत्र सान्त्वाहितस्सद्भिरफल्गुसारम्
समसस्तवाक्यं परमानृशंस्यम्धर्मार्थकामास्सममेव सेव्याः
यो ह्येकभक्तस्स नरो जघन्यो द्वयोस्तु सक्तं प्रवदन्ति मध्यमम्
स उत्तमो यो निरतस्त्रिवर्गे विभज्य कालं परिसेवमानः
वैशम्पायनः-
प्राज्ञस्सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः
ततो वचस्सङ्ग्रहविस्तरेण प्रोक्त्वा स भूमौ विरराम राजन्
ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक्
उवाच वाचाऽवितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः
युधिष्ठिरः-
निस्संशयं निश्चितसर्वशास्त्रास्सर्वे भवन्तो विदितप्रमाणाः
विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वो नैष्ठिकं तच्छ्रुतं मे
इहानुवंशं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः
भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि
भूयश्च तैस्तैरुपसेवितानि मोक्षं प्रशंसन्ति ततश्च विद्मः
यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे निरतो न कामे
विमुक्तदोषस्समफल्गुसारो विमुच्यते दुःखसुखात्ससिद्धः
स्नेहेन बद्धस्य न सन्ति तानि चैवं स्वयम्भूर्भगवानुवाच
बोधाय निर्वाणपरा भवन्ति तस्मान्न कुर्यात्प्रियमप्रियं वा
एतच्च मुख्यं न तु कामकारो यथा नियुक्तोऽस्मि तथा करोमि
भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति विद्म सर्वे
न कर्मणाऽऽप्नोत्यनवाप्यमर्थं यद्भावि सर्वं भवतीति विद्मः
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादिदं लोकहिताय गुह्यम्
वैशम्पायनः-
तदग्र्यबुद्धेर्वचनं मनोनुगं समस्तमाज्ञाय तथा हि हेतुमत्
तदा प्रणेमुर्जहृषुस्तथैव कुरुप्रवीराय च चक्रिरेऽञ्जलिम्
सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्गतवाक्यकण्टकाम्
निशम्य तां पार्थिवभाषितां गिरं पार्थस्य सर्वे प्रणता बभूवुः
तथैव राजा प्रशशंस वीर्यवान्पुनश्च पप्रच्छ सरिद्वरासुतम्
धर्मार्थकामेषु विनिश्चयज्ञं ततः परं धर्ममहीनचेतसम्