वैशम्पायनः-
कथान्तरमथासाद्य खड्गयुद्धविशारदः
नकुलश्शरतल्पस्थमिदमाह पितामहम्
नकुलः-
धनुः प्रहरणं श्रेष्ठमिति वादः पितामह
मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः
छिन्ने च कार्मुके राजन्प्रक्षीणेषु शरेषु च
खङ्गेन शक्यते योद्धुमात्मानं परिरक्षितुम्
शरासनधरां चैव गदाशक्तिधरांस्तदा
एकः खड्गधरो धीरस्समर्थः प्रतिबाधितुम्
अत्र मे संशयश्चैव कौतूहलमतीव च
किंस्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव
कथं चोत्पादितः खङ्गः कस्मै चार्थाय केन वा
पूर्वाचार्यं च खड्गस्य प्रब्रवीहि पितामह
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः
स्वरकौशलसंयुक्तं सूक्ष्मचित्रार्थवत्सुखम्
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्
शिक्षाधर्मोपपन्नं च द्रोणशिष्याय पृच्छते
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः
शरतल्पगतो भीष्मो नकुलाय महात्मने
भीष्मः-
तत्त्वं शृणुष्व माद्रेय यथैतत्परिपृच्छसि
प्रबोधितोऽस्मि भवता सानुमानिव पर्वतः
सलिलैकार्णवं तात पुरा सर्वमभूदिदम्
अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम्
तमस्संवृतमस्पर्शमतिगम्भीरदर्शनम्
निश्शब्दं चाप्रमेयं च तत्र जज्ञे पितामहः
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान्
आकाशममृजच्चोर्ध्वमधो भूमिं च नैर्ऋतिम्
ततस्सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान्
ततश्शरीरं लोकस्थं स्थापयित्वा पितामहः
जनयामास भगवान्पुत्रानुत्तमतेजसः
मरीचिं भृगुमत्रिं च पुलस्त्यं पुलहं क्रतुम्
वसिष्ठाङ्गिरसौ चोभौ भरद्वाजं तथैव च
प्रजापतिस्तथा दक्षः कन्याष्षष्टिमजीजनत्
ताश्च ब्रह्मर्षीन्सर्वान्प्रजार्थं प्रतिपेदिरे
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा
गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च
पतत्रिमृगमीनाश्च गावश्चैव महोरगाः
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः
उद्भिज्जास्स्वेदजाश्चैव साण्डजाश्च जरायुजाः
जज्ञे तात जगत्सर्वं ततस्स्थावरजङ्गमम्
ततस्सर्गमिमं कृत्वा सर्वलोकपितामहः
शाश्वतं वेदपठितं धर्मं च जुजुषे पुनः
तस्मिन्धर्मे स्थिता देवास्सहाचार्यपुरोहिताः
आदित्या वसवो रुद्रास्ससाध्या मरुदश्विनः ||
भृग्वत्र्यङ्गिरसस्सिद्धाः कश्यपश्च तपोधनाः
वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ
ऋषयो वालखिल्याश्च प्रभासास्सिकतास्तथा
घृताच्यास्सौम्य वायव्या वैखानसमरीचिपाः
करूषाश्चैव हंसाश्च ऋषयोऽथाग्नियोनयः
माषपप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम्
धर्मस्यापनयं चक्रुः क्रोधलोभसमन्विताः
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः
शम्बरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः
एते चान्ये च बहवस्सगणा दैत्यदानवाः
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः
सर्वे स्म तुल्याजातीया यथा देवास्तथा वयम्
इत्येवं हेतुमास्थाय स्पर्धमानाः महर्षिभिः
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः
न जग्मुस्संविदं तैश्च दर्पयुक्ता महासुराः
अथ वै भगवान्ब्रह्मा सर्वलोकनमस्कृतः
ततो हिमवतः पृष्ठे सुरम्ये पद्मतारके
शतयोजनविस्तारे मणिमुक्ताचयान्विते
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम्
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः
मरुद्भिः परिसङ्कीर्णं दीप्यमानैश्च पावकैः
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम्
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम्
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्
तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम्
चन्द्रमोविमलं व्योम यथाऽभ्युदिततारकम्
विदार्याग्निं तथाभूतमुत्थितं श्रूयते ततः
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं नरूदरम्
प्रांशुमुद्धर्षणं चापि तथैवाप्रमितौजसम्
अस्मिन्नुत्पद्यमाने च प्रचचाल वसुन्धरा
महोर्मिसलिलावर्तश्चुक्षुभे च महोदधिः
पेतुश्चोल्का महोत्पाताश्शाखाश्च मुमुचुर्द्रुमाः
अप्रसन्ना दिशस्सर्वाः पवनश्चाशिवो ववौ
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा
ततस्तु तुमुलं दृष्ट्वा तद्भूतं समुपस्थितम्
महर्षिसुरगन्धर्वानुवाचेदं पितामहः
ब्रह्मा-
मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान्
रक्षणार्थं च लोकस्य वधाय च सुरद्विषाम्
भीष्मः-
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः
विमलं तीक्ष्णधारं च कालान्तक इवोद्यतम्
ततस्तं नीलकण्ठाय रुद्रायर्षभकेतवे
ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम्
ततस्स भगवान्क्रुद्रो ब्रह्मर्षिगणपूजितः
प्रगृह्मासिममेयात्मा रूपमन्यच्चकार ह
चतुर्बाहुस्स्पृशन्मूर्ध्ना भूमिष्ठोऽपि दिशो दश
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालास्समुत्सृजन्
विकुर्वन्बहुधा कीर्णान्नीलपाण्डुरलोहितान्
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम्
नेत्रं चैकं ललाटस्थं भास्करप्रतिमं महत्
शुशुभाते सुविमले द्वे नेत्रे कृष्णपिङ्गले
ततो देवो महादेवश्शूलपाणिर्भगाक्षिहा
सम्प्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम्
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्
चचार विविधान्मार्गान्दानवान्तचिकीर्षया
विधुन्वन्नसिमाकाशे तदा युद्धचिकीर्षया
तस्य नादान्विनदतो महाहासं च मुञ्चतः
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया
निशाम्य दानवास्सर्वे हृष्टास्समभिदुद्रुवुः
अश्मभिश्चाभ्यवर्षन्त सम्प्रदीप्तैस्तथोल्मुकैः
घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयस्मयैः
तत्र तद्दानवानीकं सम्प्रणेतृकमप्युत
रुद्रखड्गबलाधूतं प्रचचाल मुमोह च
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम्
तमेकमसुरास्सर्वे सहस्रमिति मेनिरे
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रथमन्नपि
अचरद्वैरिसङ्घेषु ग्रीष्माग्निरिव कक्षगः
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः
उत्तमाङ्गप्रकृत्ताश्च पेतुरुर्व्यां महासुराः
अपरे दानवा भग्नाः खड्गधारावपीडिताः
अन्योन्यमभिनर्दन्तो दिशस्सम्प्रतिपेदिरे
भूमौ केचित्प्रविविशुः पर्वतानां गुहास्तथा
अपरे जग्मुराकाशमपरेऽम्भस्समाविशन्
तस्मिन्महति निर्वृत्ते समरे भृशदारुणे
बभूव भूमिः प्रतिभयात्तदा रुधिरकर्दमा
दानवानां शरीरैश्च महद्भिश्शोणितोक्षितैः
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः
रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा
रक्तार्द्रवसना श्यामा नारीव मदविह्वला
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत्
रौद्रं रुपमथाक्षिप्य चक्रे रूपं शिवं शिवः
ततो महर्षयस्सर्वे सर्वे देवगणास्तथा
जयेनाद्भुतकल्पेन देवदेवमथास्तुवन्
ततस्स भगवान्रुद्रो दानवक्षतजोक्षितम्
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे
विष्णुर्मरीचये प्रादान्मरीचिर्भार्गवाय तम्
महर्षिभ्यो ददौ खड्गमृषयो वासवाय च
महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक
मनवे सूर्यपुत्राय ददुः खङ्गं सुविस्तरम्
ऊचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः
असिना धर्मगर्भेण पालयस्व प्रजा इति
धर्मसेतुमतिक्रान्तास्स्थूलसूक्ष्मार्थकारणात्
विभज्य दण्डं रक्ष्यास्स्युर्धर्मतो न यदृच्छया
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा
व्यङ्गता च शरीरस्य वधो नाल्पस्य कारणात्
असेरेतानि रूपाणि दुर्वागादीनि निर्दिशेत्
असेरेवं प्रमाणानि परमाण्यभ्यतिक्रमात्
अभिषिच्याथ पुत्रं स्वं प्रजानामधिपं ततः
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम्
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः
आयुश्च तस्मात्तं लेभे नहुषश्च ततो विभुः
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान्
आधूर्तश्च गयस्तस्मात्ततो भूमिशयो नृपः
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम्
तस्माल्लोभे च धर्मज्ञो राजन्नैलबिलस्ततः
ततस्त्वैलबिलाल्लेभे धुन्धुमारो नरेश्वरः
धुन्धुमाराच्च काम्भोजो मुचुकुन्दस्ततोऽभजत्
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः
रैवताद्युवनाश्वश्च युवनाश्वात्तथा रघुः
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः महारथः
हरिणाश्वात्ततो लेभे शुनकश्शुनकादपि
उशीनरोऽपि धर्मात्मा तस्माद्भोजास्सयादवाः
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः
ततस्त्वं भ्रातृभिस्सार्धं परं चासिमवाप्तवान्
कृत्तिका ह्यस्य नक्षत्रमसेरग्निश्च दैवतम्
रोहिण्यो गोत्रमस्याथ रुद्राश्च गुरुसत्तमाः
असेरष्टौ च नामानि रहस्यानि निबोध मे
पाण्डवेय सदा यानि कीर्तयल्ँलभते जयम्
असिर्विशसनः खड्गस्तीक्ष्णचर्मा दुरासदः
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च
अग्र्यः प्रहरणानां च खङ्गो भुवि परिश्रुतः
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः
एतानि चैव नामानि पुराणे निश्चितानि वै
पृथुस्तूत्पादयामास धनुराद्यमरिन्दमः
तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता
तदेतदेवं माद्रेय प्रमाणं कर्तुमर्हसि
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः
इत्येष प्रथमः कल्पो मया ते कथितः पुनः
एवमेवासिसर्गोऽयं यथावद्भरतर्षभ
सर्वथा तमिह श्रुत्वा खड्गस्यागममुत्तमम्
लभते पुरुषः कीर्तिं प्रेत्य चानन्दमश्नुते