भीष्मः-
कृतार्थी यक्ष्यमाणश्च सर्ववेदान्तगश्च यः
आचार्यपितृकायार्थं स्वाध्यायार्थमथापि वा
एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः
अस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत
अन्यत्र दक्षिणादानं देयं भरतसत्तम
अन्येभ्योऽपि बहिर्वेदि नाकृतान्नं विधीयते
सर्वरत्नानि राजेन्द्र यथार्हं प्रतिपादयेत्
ब्राह्मणायैव यज्ञाश्च सहान्नास्सहदक्षिणाः
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं चापि विद्येत स सोमं पातुमर्हति
यज्ञश्चेत्प्रतिरुद्धस्स्यादंशेनैकेन यज्वनः
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि
यो वैश्यस्स्याद्बहुपशुर्हीनक्रतुरसोमपः
कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत्
आहरेद्द्रुह्यतः किञ्चित्कामं शूद्रस्य वेश्मनि
न हि वेश्मनि शूद्रस्य किञ्चिदस्ति परिग्रहः
योऽनाहिताग्निश्शतगुरयज्वा च सहस्रगुः
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्
अदातृभ्यो हरेन्नित्यं विख्याप्य नृपतिस्सदा
तथा ह्याचरतो धर्मो नृपतेस्स्यादथाखिलः
तथैव सप्तमे भक्ते भक्तानि षडनश्नतः
अश्वस्तनविभागेन हर्तव्यं हीनकर्मणः
खलात्क्षेत्रात्तथागाराद्यतो वाऽप्युपपद्यते
आख्यातव्यं तु तस्यैतत्पुरतः पृष्ठतोऽपि वा
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित्
क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्
अथैनं परिरक्षेत पिता पुत्रमिवौरसम्
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये
अविकल्पः पुरा धर्मो धर्मवादैस्तु केवलः
विश्वैश्च दैवैस्साध्यैश्च ब्राह्मणैश्च महर्षिभिः
आपत्सु मरणाद्भीतैर्लिङ्गः प्रतिनिधिः कृतः
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते
स नाप्नोति फलं तस्य प्रेत्य चेह च दुर्मतिः
न ब्राह्मणो वेदयीत किञ्चिद्राजनि धर्मवित्
अविद्यो वेदनाद्विद्यात्स्ववीर्यं वीर्यवत्तरम्
तस्माद्राज्ञस्सदा तेजो दुस्सहं ब्रह्मवादिनाम्
मन्ता शास्ता विधाता च ब्राह्मणो वेद उच्यते
तस्मिन्नाकुशलं ब्रूयान्न शुष्कां गिरिमीरयेत्
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः
धनेन वैश्यशुद्रौ तु जपहोमैर्द्विजातयः
नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः
परिवेष्टाऽग्निहोत्रस्य भवेन्नासंस्कृतस्तथा
नरके निपतन्त्येते जुह्वानास्सवनस्य तत्
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणाम्
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन
प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः
इन्द्रियाणि यशः कीर्तिमायुश्चैव नाकृन्तति
उदक्याऽऽसते ये च द्विजाः केचिदनग्नयः
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रकर्मिणः
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
उषित्वा द्वादश समाश्शूद्रं कर्मैव गच्छति
अनार्यां शयने बिभ्रम्नोद्यन्वृद्धिं च वै द्विजः
अब्राह्मणं मन्यमानस्तृणेष्वासीत पृष्ठतः
तथा संशुध्यते राजञ्शृणु चात्र वचो मम
यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणस्सेवमानः
स्थानासनाभ्यां विहरन्व्रती स त्रिभिर्वर्षैश्शमयेदात्मपापम्
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि
श्रद्दधानश्शुभां विद्यां हीनादपि समाचरेत्
सुवर्णमपि चामेध्यादाददीतेति धारणा
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्
अदूष्टानि स्त्रियो रत्नमाप इत्येव धर्मतः
गोब्राह्मणहितार्थं च वर्णानां सङ्करेषु च
वैश्यो गृह्णीत शस्त्राणि परित्राणाय चात्मनः
सुरापो ब्रह्महा चैव गुरुतल्पगतस्तथा
अचिरेण महाराज पतितो वै भवत्युत
सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम्
विहारो मद्यपानं चाप्यगम्यागमने तथा
पतितैस्सम्प्रयोगश्च ब्राह्मणो योनितस्तथा
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा
संवत्सरेण पतति पतितेन समाचरन्
याजनाध्यापनाद्दानान्न तु यानासनाशनात्
एतानि ततोऽन्यानि निर्देश्यानीति धारणा
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत्
अनुत्तीर्य न होतव्यं प्रेतकर्मण्युपाश्रिते
त्रिषुप्येतेषु पूर्वेषु न कुर्वीत विचारणाम्
अमात्यान्वा गुरून्वाऽपि जह्याद्धर्मेण धार्मिकः
प्रायश्चित्तान्यकुर्वाणा नैते कुर्वन्ति संविदम्
अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम्
ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम्
अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमश्नुते
त्रिभागं ब्रह्महत्यायाः कन्यां प्राप्नोति दुषिता
यस्तु दूषयिता तस्याश्शेषं प्राप्नोति किल्बिषम्
ब्राह्मणानवगर्ह्येह स्पृष्टे गुरुतरं भवेत्
वर्षाणां हि शतं पापं प्रतिष्ठां नाधिगच्छति
सहस्रं चैव वर्षाणां निपत्य नरके वसेत्
तस्मान्नैवावगुर्याद्धि नैव जातु निपातयेत्
शोणितं यावतः पांसून्सङ्गृह्णाति द्विजसत्तमात्
तावतीस्स समा राजन्नरके परिवर्तते
भ्रूणहाऽऽहवमध्ये तु वध्यते शस्त्रपाततः
आत्मानं जुहुयादग्नौ समिद्धे तेन शुध्यते
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते
तथा स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति
लोकांश्च लभते विप्रो नान्यथा लभते हि सः
गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः
शिलां ज्वलन्तीमासाद्य मृत्युना विशुद्ध्यति
अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम्
नैर्ऋतीं दिशमास्थाय निपतेत्स त्वजिह्मगः
ब्राह्मणार्थेऽपि वा प्राणान्सन्त्यजंस्तेन शुध्यति
अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा
मरुत्सोमेन वा सम्यगिह प्रेत्य च पूज्यते
तथैव द्वादशसमाः कापोतं धर्ममाचरेत्
एककालं चरेद्भैक्षं स्वकर्मोदाहरेञ्जने
एवं च तपसा युक्तो ब्रह्महा सवनी भवेत्
एवं गर्भमविज्ञातमात्रेयीं वा निपातयेत्
द्विगुणा ब्रह्महत्या वै आत्रेयीं हिंसने भवेत्
सुरापो नियताहारो ब्रह्मचारी क्षपाचरः
ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम्
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात्
वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः
शूद्रं हत्वाऽब्दमेवैकमृषभैकादशाश्च गाः
श्वमार्जारखरान्हत्वा शूद्रहत्या व्रतं चरेत्
माण्डूकचाषनकुलान्काकोलूकांश्च मूषिकान्
उक्तः पशुवधे दोषो राजन्प्राणिनिपातनात्
अनस्थिकेषु गोमूत्रं प्राणमेकं प्रचक्षते
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः
तल्पे चाप्यन्नचौर्ये च पृथक्संवत्सरं चरेत्
त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्
स्थानासनाभ्यां विहरेत्त्रिरह्नाऽभ्युपयन्नपः
एवमेव चरन्राजंस्तस्मात्पापात्प्रमुच्यते
त्यजत्यकारणे यच्च पितरं मातरं च ह
पतितस्स्यात्स कौरव्य यथा धर्मेषु निश्चयः
ग्रासाच्छादनयानं च शयनं ह्यासनं तथा
ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात्प्रमुच्यते
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः
यत्पुंसां परदारेषु तदेनां चारयेद्व्रतम्
श्रेयांसं शयने हित्वा पापीयांसं समृच्छति
श्वभिस्तमर्दयेद्राजा सुस्थाने बहुसंस्थिरे
पुमांसं बन्धयेत्पाशैश्शयने तप्त आयसे
अास्ये दद्यात्स दारूणि तत्र दह्येत पापकृत्
एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे
संवत्सरोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत्
तस्य त्रीणि च वर्षाणि चत्वारि सहसेविनः
कुमारः पञ्चवर्षाणि चरेद्भैक्षं मुनिव्रतः
परिवित्तिः परिवेत्ता या चैव परिविद्यते
पाणिग्राहश्च धर्मेण सर्वे ते पतितास्स्त्रियः
चरेयुस्सर्व एवैते वीरहा यद्व्रतं चरेत्
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये
परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम्
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रयत्नन्तरम्
एनसो मोक्षमाप्नोति तौ च सा चैव धर्मतः
अमानुषीषु गोवर्जमनादिष्टं न दुष्यति
अधिष्ठातारं मन्तारं पशूनां पुरुषं विदुः
परिधायोर्ध्ववालं च पात्रमादाय मृन्मयम्
चरेत्सप्तगृहान्भैक्षं स्वकर्म परिकीर्तयन्
तथैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति
चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृतिः
भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्
दानं वा दानसक्तेषु सर्वमेव प्रकल्पयेत्
वराहस्य मृगाणां च कुक्कुटस्य खरस्य च
मांसं मूत्रं पुरीषं वा प्राश्य संस्कारमर्हति
ब्राह्मणस्तु सुरापस्य गन्धमादाय सोमपाः
अपः पीत्वा तु स पुनर्वायुभक्षो भवेत्त्र्यहम्
अपस्र्र्यहं पिबेदुष्णास्संयतात्मा जितेन्द्रियः
एवमेतत्समुद्दिष्टं प्रायश्चित्तनिषेवणम्
ब्राह्मणस्य विशेषेण यदज्ञानेन जायते