युधिष्ठिरः-
यतः प्रभवति क्रोधः कामो वा भरतर्षभ
शोकमोहौ विवित्सा च परासुत्वं तथा मदः
द्रोहो मात्सर्यमीर्ष्या च कुत्साऽसूयाकृपाभयम्
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद
भीष्मः-
उपासते महाराज समन्तात्पुरुषांस्त्विह
त्रयोदशैतेऽतिबलाश्शत्रवः प्राणिनां स्मृताः
एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च
वृका इव विलुम्पन्ति दृष्ट्वेव पुरुषेतरान्
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते
इति मर्त्यो विजानीयात्सततं भरतर्षभ
एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम
हन्त ते वर्तयिष्यामि क्षयं चोत्पत्तिमादितः
यथातत्त्वं क्षितिपते तन्मे निगदतश्शृणु
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते
क्षमया तिष्ठते राजन्क्षमया विनिवर्तते
सङ्कल्पाज्जायते कामस्सेव्यमानो विवर्धते
अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च निश्यति
प्रतिश्शोकः प्रभवति वियोगात्तस्य देहिनः
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति
अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते
विरुद्धानीह शास्त्राणि पश्यन्तीहाल्पबुद्धयः
विवित्सा जायते तत्र तत्त्वात्सा विनिवर्तते
यदा प्राज्ञेषु रमते तदा सम्यक्प्रणश्यति
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते
दयया सर्वभूतेषु निर्वेदात्सा निवर्तते
सत्यत्यागात्तु मात्सर्यमहितानि च मे श्रृणु
एतत्तु क्षीयते तात साधूनामुपसेवनात्
कुलाञ्ज्ञानात्तथैश्वर्याद्द्रोहो भवति देहिनाम्
एतैरेव सदा ज्ञातैर्मदस्सद्यः प्रणश्यति
ईर्ष्या कामात्प्रभवति सङ्घर्षाच्चैव भारत
इतरेषां तु मर्त्यानां ज्ञानात्प्राज्ञस्य नश्यति
विभ्रमाल्लोकबाह्यानां वेषैर्वाक्यैरसङ्गतैः
कुत्सा सञ्जायते राजन्नुपेक्ष्याभिः प्रशाम्यति
प्रतिकर्तुमशक्याय बलस्थायापकारिणे
असूया जायते तीव्रा कारुण्याद्विनिवर्तते
कृपणान्सततं दृष्ट्वा ततसञ्जायते कृपा
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा
एतान्येव जितान्याहुः प्रशान्तेन त्रयोदश
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश
त्वया सत्यार्थिना नित्यं विजिता जेष्यता च ते
युधिष्ठिरः-
आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान्न विजानामि तेषां कर्म च भारत
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्
नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत
तस्मात्प्रब्रूहि कौरव्य तस्य धर्मविनिश्चयम्
भीष्मः-
स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणा |
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकश्शठः
असम्भोगी च मानी च तथा सङ्गी विकत्थनः
सर्वातिशङ्की पुरुषो बलीशः कृपणस्तथा
वर्गप्रशंसीं सततमाश्रमद्वेषसङ्करी
हिंसाविकारी सततमविशेषगुणागुणः
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति
आत्मशीलोपमानेन न विश्वसिति कस्यचित्
परेषां यत्र दोषस्स्यात्तद्गुह्यं सम्प्रकाशयेत्
समानेष्वेवपि दोषेषु वृत्त्यर्थमुपघातयेत्
तथोपकारिणं चैव मन्यते वञ्चितं परम्
दत्त्वाऽपि च धनं काले सन्तपत्युपकारिणे
भक्ष्यं पेयमथो लेह्यं यदन्यत्साधु भोजनम्
प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः
ब्राह्मणेभ्यः प्रदायाग्रे यस्सुहृद्भिस्सहाश्नुते
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते
एवं ते भरतश्रेष्ठ नृशंसाः परिकीर्तितः
सदा विवर्जनीयो वै पुरुषेण बुभूषता