भीष्मः-
सर्वमेतत्तपोमूलं मुजनयस्सम्प्रचक्षते
नानुतप्ततपा मूढः क्रियाफलमुपेयिवान्
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः
तथैव देवा ऋषयस्तपसा प्रतिपेदिरे
तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः
त्रील्ँलोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः
औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः
तपसैव हि सिद्ध्यन्ते तपोमूलं च साधनम्
यद्दुरापं दुरानाय्यं दुराधर्षं दुरुत्सहम्
तत्सर्वं तपसा शक्यं तपो हि दुरतिक्रमम्
सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः
निवृत्त्या वर्तमानस्य तपो नानशनात्परम्
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः
एतेभ्यो हि महाराज तपो नानशनात्परम्
न दुष्करतरं दानान्नातिदातारमाश्रमः
त्रैविद्येभ्यः परं नास्ति सन्न्यासान्नापरं तपः
इन्द्रियाणीह रक्षन्ति विप्रर्षिपितृदेवताः
तस्मादर्थे च धर्मे च तपो नानशनात्परम्
ऋषयः पितरो देवा मनुषाः पशुपक्षिणः
यानि चान्यानि भूतानि स्थावराणि चराणि च
तपः परायणास्सर्वे सिध्यन्ति तपसा च ते
इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन्
एवमिष्टविभागानि फलानि तपसा सदा
तपसा शक्यते प्राप्नुं देवत्वमपि निश्चयः