युधिष्ठिरः-
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य विशेषतः
धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते
बहुधा दर्शने लोके श्रेयो यदिह मन्यसे
अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह
महानयं धर्मपथो बहुशाखश्च भारत
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः
यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः
भीष्मः-
तत्तेऽहं सम्प्रवक्ष्यामि येन श्रेयः प्रपत्स्यसे
पीत्वाऽमृतमिव प्राज्ञो येन तृप्तो भविष्यसि
धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः
स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम्
दमं निश्श्रेयसं प्राहुर्वृद्धानमिति दर्शनम्
ब्राह्मणस्य विशेषेण दमो धर्मस्सनातनः
नादान्तस्य क्रियासिद्धिः कथाञ्चिदुपलभ्यते
दमो दानं तथा यज्ञा अधीतं चापि वर्तते
दमस्तेजो वर्धयति पवित्रं च दमः परम्
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम
दमो हि परमो धर्मः प्रशस्तस्सर्वकर्मणाम्
प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम्
दमेन हि सदा युक्तो महान्तं धर्ममश्नुते
सुखं ततः प्रस्वपिति सुखं च प्रतिबुध्यते
सुखं पश्यति लोकांश्च मनश्चास्य प्रसीदति
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते
अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान्
आश्रमेषु चतुर्ष्वाहुर्धममेवोत्तमं दमम्
दमलिङ्गानि वक्ष्यामि येषां समुदयो दमः
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
इन्द्रियाणां जयो दाक्ष्यं मार्दवं ह्रीरचापलम्
अकार्पण्यमसंरम्भस्सन्तोषः प्रियवादिता
अविहिंसाऽनसूया च येषां समुदयो दमः
गुरुपूजा च कौरव्य सदा भूतेष्वपैशुनम्
जनवादमृषावादस्तुतिनिन्दाविवर्जनम्
कामं क्रोधं च लोभं च दर्पं दम्भं विकत्थनम्
मानमीर्ष्यामसूयां च नैतान्दान्तो निषेवते
अनिन्दितो ह्यकामात्मा स्वल्पेश्चाप्यलोलुपः
समुद्रकल्पस्स नरो न कदाचिन्न पूर्यते
अहं त्वयि मयि त्वं च मयि ते तेषु चाप्यहम्
पूर्वसम्बन्धिसंयोगं नैतद्दान्तो निषेवते
सर्वा ग्राम्यास्तथाऽरण्या याश्च लोके प्रवृत्तयः
निन्दां चैव प्रशंसां च यो सेवेत मुच्यते
मैत्रोऽथ शीलसम्पन्नस्सुसहायपरश्च यः
मुक्तश्च विविधैस्सङ्गैस्तस्य प्रेत्य महत्फलम्
सुवृत्तश्शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद्बुधः
प्राप्यैव लोके सत्कारं सुगतिं प्रतिपद्यते
कर्म यच्छुभमेवेह सद्भिराचरितं च यत्
तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः
कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते
अभयं सर्वभूतेभ्यो भूतानामभयं कृतम्
तस्य देहाद्विमुक्तस्य भयं नास्ति कथञ्चन
अवाचिनोति कर्माणि न च सम्प्रचिनोति ह
ततस्सर्वेषु भूतेषु मैत्रायणगतिं चरेत्
शकुनीनामिवाकाशे मत्स्यानामिव चोदके
यथा गतिर्न दृश्येत तथा तस्य स संशयः
गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीस्समाः
सन्न्यस्य सर्वकर्माणि सन्न्यस्य विपुलं तपः
सन्न्यस्य विविधा विद्यास्सर्वं सन्न्यस्य चैव हि
कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः
प्राप्येह लोके सत्कारं स्वर्गं समधिगच्छति
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम्
गुहायां निश्चितं नित्यं तद्दमेनाभिगम्यते
ज्ञानारामस्य बुद्धस्य सर्वभूतानुरोधिनः
नावृत्तिभयमस्तीह परलोकभयं कुतः
एक एव दमे दोषो द्वितीयो नोपपद्यते
यदेनं दमसंयुक्तमशक्तं मन्यते जनः
एतस्य तु महाप्राज्ञ दोषस्स्यात्सुमहान्गुणः
क्षमया विपुला लोका दुर्लभा हि सहिष्णुता
दान्तस्य किमरण्येन तथाऽदान्तस्य भारत
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः
वैशम्पायनः-
एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः
अमृतेनेव सन्तृप्तः प्रहृष्टस्समपद्यत
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम्
तपः प्रीत स चोवाच तस्मै सर्वं कुरूद्वहः