युधिष्ठिरः-
अनर्थानामधिष्ठानमुक्तो लोभः पितामह
अज्ञानमपि कौरव्य श्रोतुमिच्छामि तत्त्वतः
भीष्मः-
करोति पापमज्ञानान्नात्मनो वेत्ति च क्षमम्
द्विषते साधुवृत्तांश्च स लोकस्यैति वाच्यताम्
अज्ञानान्निरयं याति तथाऽज्ञानेन दुर्गतिम्
अज्ञानात्क्लेशमाप्नोति तथाऽऽपत्सु निमज्जति
युधिष्ठिरः-
प्रजानामप्रवृत्तिं च ज्ञानवृद्धिक्षयोदयान्
मूलं स्थानं गतिं कालं कारणं हेतुमेव च
श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव
भीष्मः-
अज्ञानप्रसवं हीदं यद्दुःखमुपलभ्यते
रागो द्वेषस्तथा मोहो हर्षश्शोकोऽतिमानिता
कामः क्रोधश्च दर्पश्च तन्द्री ह्यालस्यमेव च
इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता
अज्ञानमेतन्निर्दिष्टं पापानां चैव या क्रियाः
एतस्य यः प्रवृत्तिं च वृद्ध्यादीन्यांश्च पश्यति
विस्तरेण महाराज शृणु तच्च विशां पते
उभावेतौ समफलौ समदोषौ च भारत
अज्ञानं चापि लोभश्चाप्येवं जानीष्व पार्थिव
लोभप्रभवमज्ञानं वृद्धेर्भूयः प्रवर्तते
स्थाने स्थानं क्षये क्षीणमुपैति विविधां गतिम्
मूलं लोभोऽस्य हेतुश्च कारणं लोभ एव च
तस्याज्ञानाद्धि लोभो हि कामात्मा गतिरेव च
सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत्
जनको युवनाश्वश्च पृषदश्वः प्रसेनजित्
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः
छिन्ने छिन्ने तथा लोभे दिवं प्राप्ता जनाधिपाः
प्रत्यक्षं तु नरश्रेष्ठ त्यजल्लोभमिहात्मनः
त्यक्त्वा लोभं सुखी लोके प्रेत्य चेह च मोदते