युधिष्ठिरः-
अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम
मुच्यते स कथं तस्मादेनसस्तद्ब्रवीहि मे
भीष्मः-
अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम्
इन्द्रोतश्शौनको विप्रो यदाह जनमेजयम्
आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः
अबुद्धिजा ब्रह्महत्या तमागच्छन्महीपतिम्
ब्राह्मणास्सर्व एवैनं तत्यजुस्सपुरोहिताः
स जगाम वनं राजा दह्यमानो दिवानिशम्
स प्रजाभिः परित्यक्तश्चकार कुशलं महत्
अतिवेलं तपस्तेपे दह्यमानस्स मन्युना
तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम्
दह्यमानः पापकृत्या जगाम जनमेजयः
परीक्षमाण इन्द्रोतं शौनकं संशितव्रतम्
समासाद्योपजग्राह पादयोः परिपीडयन्
ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा
शौनकः-
कर्ता पापस्य महतो भ्रूणहा किमिहागतः
किं तवास्मासु कर्तव्यं मा मां द्राक्षीः कथञ्चन
गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन्
रुधिरस्येव ते गन्धश्शवस्येव च दर्शनम्
अशिवश्शिवसङ्काशो मृतो जीवन्निवाटसि
अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन्
प्रबुध्यसे प्रस्वपिषि वर्तसे परमे सुखे
मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि
पापायैव हि सृष्टोऽसि कर्मणेह यवीयसे
बहुकल्याणमिच्छन्त ईहन्ते पितरस्सुतान्
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया
पितृवंशमिमं पश्य त्वत्कृते निधनं गतम्
निरर्थास्सर्व एवैषामाशाबन्धास्त्वदाश्रयाः
यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशश्श्रियम्
तेषु ते सन्ततं द्वेषो ब्राह्मणेषु निरर्थकः
इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि
अशाश्वतीश्शाश्वतीश्च समाः पापेन कर्मणा
खाद्यमानो जन्तुशतैस्तीक्ष्णदंष्ट्रैरयोमुखैः
ततोऽति नरकात्तात पापयोनिं गमिष्यसि
भीष्मः-
यदेवं मन्यसे राजन्नायमस्ति कुतः परः
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः
जनमेजयः-
विगर्ह्यं मां गर्हयति नित्यं निन्दति मां पुनः
धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितम्
स्वकर्माण्यभिसन्धाय नाभिनन्दति मे मनः
प्राप्तं नूनं भयं घोरं मया वैवस्वतादपि
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्
सर्वं मन्युं विनीयितुं ममाभिवद शौनक
गन्ता गतिं ब्राह्मणानां भविष्याम्यर्थवान्पुनः
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्
न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति
स्तुतीरलभमानानां संविदं वेदनिश्चयात्
निन्दमानस्स्वमात्मानं भूयो वक्ष्यामि साम्प्रतम्
भूयश्चैवाभिमज्जन्ति निर्धर्मा निर्जला इव
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन
अवाक्च प्रपतिष्यन्ति पुलिन्दशबरा इव
अविज्ञायैव मे प्रज्ञां बालस्येव स सुपण्डितः
ब्रह्मन्पितेव पुत्रेभ्यः प्रीतिमान्भव शौनक
शौनकः-
किमाश्चर्यं यतः प्राज्ञो बहुकुर्यादसाम्प्रतम्
इति वै पण्डितो भूत्वा भूतानां को नु तप्यते
प्रज्ञाप्रासादमारुह्य अशोच्यश्शोचते जनान्
जगतीस्थानिवाद्रिस्थः प्रज्ञया परिपश्यति
न चोपलभते तत्र न चाश्चर्याणि पश्यति
निर्विण्णात्मा परोक्षो वा धिक्कृतस्सर्वसाधुषु
विदित्वा भवतो वीर्यं माहात्म्यं चैव चागमे
कुरुष्वेह महाशान्ति ब्रह्मा शरणमस्तु ते
तद्वै चारित्रकं तात ब्राह्मणानामकुप्यताम्
अथवा तप्यसे पापं धर्मं चेदनुपश्यसि
जनमेजयः-
अनुतप्ये च पापेन न चाधर्मं चराम्यहम्
बुभूषे भजमानं च प्रीतिमान्भव शौनक
शौनकः-
हित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिसंस्मर
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये
तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैस्सह
सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये
क्रोशतां सर्वभूतानां हाहा धिगिति कुर्वताम्
वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः
ता वाचस्सुहृदश्श्रुत्वा सञ्ज्वरिष्यन्ति ते भृशम्
केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति कार्यताम्
जानीहि मे कृतं तात ब्राह्मणान्परितोषये
यथा ते सत्कृताः क्षेमं लभेरंस्त्वं तथा कुरु
प्रतिजानीहि चाद्रोहं ब्राह्मणानां जनाधिप
जनमेजयः-
नैव वाचा न मनसा पुनर्जातु न कर्मणा
द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे
शौनकः-
तस्मात्ते सम्प्रवक्ष्यामि धर्ममावृतचेतसे
श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे
पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत्
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवाः
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति
यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि
दर्पं हित्वा पुनश्चापि भोगांश्च तप आस्थितः
इत्येतदपि भूतानामद्भुतं जनमेजय
योऽदुर्बलो भवेद्दान्तः कृपणो वा तपोधनः
अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते
तप एव हि कार्पण्यं समग्रमसमीक्षितम्
तच्चेत्समीक्षयैव स्याद्भवेत्तस्मिंस्तपोगुणः
यज्ञो दानं दया वेदास्सत्यं च पृथिवीपते
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः
तदेव राज्ञां परमं पवित्रं जनमेजय
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्
अपि ह्युदाहरन्तीमां गाथा गीता ययातिना
यो मर्त्यः प्रतिपद्येत आयुर्जीवेन वा पुनः
यज्ञमेकं ततः कृत्वा तत्सन्न्यस्य तपश्चरेत्
पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदके
अत्रावगाह्य स्थित्वा च नैनं श्वो मरणं तपेत्
प्रभासोत्तममासाद्य मानसं पुष्करं सरः
कङ्कालं चापि गन्तासि लब्धायुर्जीविते पुनः
सरस्वतीदृषद्वत्योः सेवमानोऽनुसञ्ज्वरेत्
स्वाध्यायशील एतेषु सर्वेष्वेवमुपस्पृशेत्
त्यागधर्मं पवित्राणां सन्न्यासं परमब्रवीत्
अत्राप्युदाहरन्तीमा गाथास्सत्यवता कृताः
यथा कुमारस्सत्यो वै नैव पुण्यो न पापकः
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतस्सुखम्
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्
त्यजतां जीवितं प्रायो निवृत्ते पुण्यपापके
यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते
बलेन संविभागैश्च जय स्वर्गं पुनीष्व च
यस्य वै बलमोजश्च स धर्मस्य प्रभुर्नरः
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम्
यथैवैतान्पुरा क्षेप्सीस्तथैवैतान्प्रसादय
अपि धिक्क्रियमाणोऽपि तर्ज्यमानोऽप्यनेकधा
आत्मनो दर्शनं विद्वान्नाहर्ताऽस्मीति मा क्रुधः
घटमानस्स्वकार्येषु कुर्वन्नैश्श्रेयसं परम्
हिमाग्निघोरसदृशो राजा भवति कश्चन
लाङ्गलाशनिकल्पो वा भवेदन्यः परन्तपः
न निश्शेषेण गन्तव्यमचिकित्सेन वा पुनः
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु
विकर्मणा तप्यमानः पापात्पापस्य मुच्यते
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते
चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते
शुचिस्तीर्थान्यनुचरन्बहुत्वात्परिमुच्यते
कल्याणमेव कर्तव्यं पुरुषेण बुभूषता
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते
तपश्चर्यापरस्सत्यं पापाद्धि परिमुच्यते
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहाऽपि प्रमुच्यते
महासरः पुष्कराणि प्रभासोत्तरमानसम्
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते
यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः
प्रमीयमाणानुन्मोच्य प्राणिहा विप्रमुच्यते
अपि वाऽप्सु निमज्जेत त्रिर्जपन्नघमर्षणम्
यथाऽश्वमेधावभृथमेतत्तन्मनुरब्रवीत्
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्
बृहस्पतिं देवगुरुं पुरा सुरास्समेत्य सर्वे नृपतेऽन्वयुज्जत
देवाः-
धर्मे फलं हेतुकृते महर्षे तथेतरस्मिन्नरके पापलोक्ये
उभे तु यस्य सुकृते भवेतां किं द्वयोस्तत्र जयोत्तरं स्यात्
आचक्ष्व तत्कर्मफलं महर्षे कथं पापं नुदते पुण्यशीलः
बृहस्पतिः-
सकृत्कृत्वा पापमबुद्धिपूर्वं पुण्यानि चेत्कुरुते बुद्धिपूर्वम्
स तत्पापं नुदते पुण्यशीलो वासो यथा मलिनं क्षारयुक्त्या
पापं कृत्वाऽभिमन्येत नाहमस्तीति पूरुषः
चिकीर्षेदेव कल्याणं श्रद्दधानो जितेन्द्रियः
छिद्राणि वसनस्येव साधुना संवृणोति सः
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते
आदित्यः पुनरुद्यन्वा तमः सर्वं व्यपोहति
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति
भीष्मः-
एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम्
याजयामास विधिवद्वाजिमेधेन शौनकः
ततस्स राजा व्यपनीतकल्मषश्श्रिया युतः प्रज्वलितोऽनुरूपया
विवेश राज्यं स्वममित्रकर्शनो यथा पूर्णवपुर्निशाकरः