भीष्मः-
अथ वृक्षस्य शाखायां विहङ्गस्ससुहृज्जनः
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः
तस्य कल्यं गता भार्या चरितुं नाभ्यवर्तत
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत
कपोतः-
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया
किं नु तत्कारणं येन साऽद्यापि न निवर्तते
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने
तया हि रहितं हीदं शून्यमद्य गृहं मम
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे
पतिधर्मव्रता साध्वी प्राणेभ्योऽपि गरीयसी
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी
अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता
यस्य वै तादृशी भार्या धन्यस्स मनुजो भुवि
भार्या हि परमो नाथः पुरुषस्येह पठ्यते
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी
अथ मोहाभिभूतस्य नित्यं कृच्छ्रगतस्य च
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः
नास्ति भार्यासमो लोके सहायो धर्मशासने
उशना-
एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम्
कपोती-
सा हि स्त्रीत्यवगन्तव्या यस्या भर्ता तु तुष्यति
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं परम्
उशना-
इति सञ्चिन्त्य दुःखार्ता भर्तारं दुःखितं तदा
कपोती लुब्धकेनाथ हृता वचनमब्रवीत्
कपोति-
हन्त वक्ष्यामि ते श्रेयश्श्रुत्वा तु कुरु तत्तथा
शरणागतसन्त्राता भव कान्त विशेषतः
एष शाकुनिकश्शेते तव वासं समाश्रितः
शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्
शरणागतं च यो हन्यात्तुल्यं तेषां हि पातकम्
याऽस्माकं विहिता वृत्तिः कापोती धर्मतः पुरा
सा न्याय्या भवता नित्यं त्वद्विधेनानुवर्तितुम्
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम
स त्वं सन्तानवानद्य पुत्रवानपि च द्विज
त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य च
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा
उशना-
इति सा शकुनिर्वाक्यं पञ्जरस्था तपस्विनी
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत
स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्
हर्षेण महता युक्तो बाष्पव्याकुललोचनः
स वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा
पूजयामास युक्तेन स पक्षी पक्षिजीविनम्
उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते
सन्तापश्च न कर्तव्यस्स्वगृहे वर्तते भवान्
ब्रवीतु च भवान्क्षिप्रं किं करोमि किमिच्छसि
प्रणयेन ब्रवीमि त्वां त्वं हि नश्शरणं गतः
शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी
तस्य नायं न च परो लोको भवति धर्मतः
तद्ब्रूहि मां सुविस्रब्धो यत्त्वं वाचा वदिष्यसि
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः
व्याधः-
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्
बाधते खलु मां शीतं हिमत्राणं विधीयताम्
उशना-
एवमुक्तस्ततः पक्षी पर्णान्याहृत्य भूतले
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ
स गत्वा त्वरकर्मातद्गृहीत्वाऽग्निमथागमत्
ततश्शुष्केषु पर्णेषु पावकं स ह्यदीपयत्
कपोतः-
स दीप्तं सुमहत्कृत्वा तमाह शरणं गतम्
प्रतापय सुविस्रब्धस्स्वगात्राण्यकुतोभयः
उशना-
स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्
सोऽग्निप्रत्यागतप्राणस्ततः प्राह विहङ्गमम्
व्याधः-
उशना-
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः
कपोतः-
न मेऽस्ति विभवो येन नाशयेयं तव क्षुधाम्
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः
उशना-
सञ्चयो नास्ति चास्माकं मुनीनामिव कानने
इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत्
कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः
मुहूर्ताल्लब्धसञ्ज्ञस्तु स पक्षी पक्षिघातकम्
उवाच तर्पयिष्यामि मुहूर्तं परिपालय
इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम्
हर्षेण महताऽऽविष्टः कपोतः पुनरब्रबीत्
कपोतः-
ऋषीणां देवतानां च पितॄणां च महात्मनाम्
युतः पूर्वं मया धर्मो महानतिथिपूजने
कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने
उशना-
ततस्सत्यप्रतिज्ञोऽसौ स पक्षी प्रहसन्निव
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः
अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा च पक्षिणम्
चिन्तयामास मनसा किमिदं नु कृतं मया
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा
अधर्मस्सुमहान्घोरो भविष्यति न संशयः
एवं बहुविधं भूरि विललाप स लुब्धकः
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथाऽऽगतम्
ततस्तु लुब्धकः पश्यन्क्षुधयाऽपि परिप्लुतः
कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह
व्याधः-
धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम्
शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः
दत्तः स्वमांसं दहता कपोतेन महात्मना
सोहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारान्विसृज्य च
उपदिष्टो हि मे धर्मः कपोतेनात्र धर्मिणा
अद्यप्रभृति देहं स्वं सर्वभोगैर्विवर्जितम्
यथा स्वल्पजलं ग्रीष्मश्शोषयिष्याम्महं तथा
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः
उपवासैर्बहुविधैः करिष्ये पारलौकिकम्
अहो देहप्रदानेन दर्शिताऽतिथिपूजना
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः
दृष्टो धर्मो हि धर्मिष्ठे यादृशोऽसौ विहङ्गमे
उशना-
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः
ततो यष्टिं शलाकाश्च क्षारकं पञ्जराणि च
तां च बद्धां कपोतीं सम्प्रमुच्योत्ससर्ज ह
कपोति-
ततो गते शाकुनिके कपोती प्राह दुःखिता
संस्मृत्य सा च भर्तारं रुदती शोककर्शिता
नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे
सर्वाऽपि दुःखिता नारी बहुपुत्राऽपि वै सदा
शोच्या भवति बन्धूनां पतिहीना तपस्विनी
लालिताऽहं त्वया नित्यं बहुमानाच्च सान्त्विता
वचनैर्मधुरैस्स्निग्धैरसकृत्सुमनोहरैः
कन्दरेषु च शैलानां नदीनां निर्झरेषु च
द्रुमाग्रेषु च रम्येषु रमिताऽहं त्वया प्रिया
आकाशगमने चैव सहिताऽहं त्वया गता
रमिताऽस्मि पुरा कान्त तन्मे नास्त्यत्र वै प्रिय
मितं ददाति हि पिता मितं भ्राता मितं सुतः
अमितस्य हि दातारं भर्तारं का न पूजयेत्
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम्
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः
किं कार्यमिह मे नाथ जीवितेन त्वया विना
पतिहीना तु का नारी सती जीवितुमुत्सहेत्
भीष्मः-
एवं विलप्य बहुधा करुणं सा साधुदुःखिता
पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम्
ततश्चित्राङ्गदधरं भर्तारं साऽन्वपद्यत
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम्
विमानशतकोटीभिरावृतं पुण्यकर्मभिः
ततस्स्वर्गं गतः पक्षी भार्यया सह सङ्गतः
कर्मणा पूजितस्तेन रेमे स सह भार्यया
विमानस्थौ तु तौ राजंल्लुब्धको वै ददर्श ह
दृष्ट्वा स दम्पती दुःखादचिन्तयत तद्गतिम्
कीदृशेनेह तपसा गच्छेयं परमां गतिम्
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे
महाप्रस्थानमाश्रित्य उत्तमं पक्षिजीवनः
स निश्चेष्टो निराहारो निर्ममस्स्वर्गकाङ्क्षया
ततः पश्यति विस्तीर्णं हृद्यं पद्माभिभूषितम्
नानाद्विजगणाकीर्णं सरश्शीतजलं शुभम्
पिपासार्तोऽपि तद्दृष्ट्वा तृप्तस्स्यान्नात्र संशयः
उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः
उपसृत्य तु तद्धृष्टः श्वापदाध्युषितं वनम्
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह
प्रविशन्नेव स वनं निगृहीतस्स कण्टकैः
स कण्टकैर्विभिन्नाङ्गो लोहितार्द्रीकृतच्छविः
बभ्राम तस्मिन्विजने नानाद्रुमलताकुले
ततो द्रुमाणां पततां पवनेन वने तदा
उदतिष्ठत सङ्घर्षात्सुमहान्हव्यवाहनः
तद्वनं वृक्षसङ्कीर्णं लताविटपसङ्कुलम्
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः
स ज्वालैः पवनोद्भूतैर्विस्फुलिङ्गैस्समन्ततः
ददाह तद्वनं घोरं मृगपक्षिसमाकुलम्
तदा स्वदेहमोक्षार्थं सम्प्रहृष्टेन चेतसा
अभ्यधावत वर्धन्तं पावकं लुब्धकस्तदा
ततस्तेनाग्निना दग्धो लुब्धको दग्धकिल्बिषः
आससाद परां सिद्धिं तदा भरतसत्तम
ततस्स्वर्गस्थमात्मानमपश्यद्विगतज्वरः
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत्
एवं खलु कपोतश्च कपोती च पतिव्रता
लुब्धकेन सह स्वर्गं गतौ पुण्येन कर्मणा
याऽन्या चैवंविधा नारी भर्तारमनुवर्तते
विराजते च सा क्षिप्रं कपोतीव दिवि स्थिता
एवमेतत्पुरावृत्तं लुब्धकस्य महात्मनः
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्
नाशुभं विद्यते तस्य मनवसत्य न संशयः
उक्तश्चैव महानेष धर्मो धर्मभृतां वर
गोघ्नेष्वपि भवेन्नित्यं निष्कृतिः पापकर्मणः
न निष्कृतिर्भवेत्तस्य यो हन्याच्छरणं गतम्