युधिष्ठिरः-
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे
भीष्मः-
महान्धर्मो महाराज शरणागतपालने
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम
नृगप्रभृतयो राजन्राजानश्शरणगतान्
परिपाल्य महात्मानस्संसिद्धिं परमां गताः
श्रूयते हि कपोतेन शत्रुश्शरणमागतः
पूजितश्च यथा स्वैश्च मांसैर्नित्यमतन्द्रितः
युधिष्ठिरः-
कथं कपोतेन पुरा शत्रुश्शरणमागतः
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत
भीष्मः-
शृणु राजन्कथामेतां सर्वपापप्रणाशिनीम्
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः
भार्गवं परिपृप्रच्छ प्रणतः पुरुषर्षभ
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप
उशना-
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्
शृणुष्वावहितो राजन्गदतो मे महाभुज
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसन्निभः
चचार पृथिवीपाल घोरश्शकुनिलुब्धकः
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः
नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवाः
स वै क्षारकमादाय वने हत्वा च पक्षिणः
चकार विक्रयं तेषां पतङ्गानां नराधिपः
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः
अगमत्सुमहान्कालो नैष धर्ममबुध्यत
तस्य भार्यासहायस्य रममाणस्य शाश्वतम्
दैवयोगे विमूढस्य नान्या वृत्तिररोचत
ततः कदाचित्तस्याथ वनस्थस्य समद्गतः
पातयन्निव वृक्षांस्तान्सुमहान्वातसम्भ्रमः
मेघसङ्कुलमाकाशं विद्युन्मण्डलमण्डितम्
सञ्छन्नं तु मुहूर्तेन नौसार्थेनेव सागरः
वारिधारासमूहेन सम्प्रहृष्टश्शतक्रतुः
क्षणेन पूरयामास सलिलेन वसुन्धराम्
ततो धाराकुले लोके सोऽभवन्नष्टचेतनः
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना
नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहङ्गहा
पूरितो हि जलौघेन तस्य मार्गो वनस्य वै
पक्षिणो वर्षवेगेन हता लीनास्तु पादपात्
मृगसिंहवराहाश्च ये चान्ये तत्र पक्षिणः
महता वातवर्षेण त्रासितास्ते वनौकसः
भयार्ताश्च क्षुधार्ताश्च बभ्रमुस्सहिता वने
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान्
सोऽपश्यद्वनषण्डेऽस्मिन्मेघनीलं वनस्पतिम्
कुसुमाकारताराढ्यमाकाशं निर्मलं च ह
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकश्शीतविह्वलः
दिशो विलोकयामास वेलां च सुदुरात्मवान्
दूरे ग्रामनिवेशश्च तस्मात्स्थानादिति प्रभो
कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः
सोऽञ्जलिं प्रणतः कृत्वा वाक्यमाह वनस्पतिम्
शरणं यामि यान्यस्मिन्दैवतानीति भारत
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले
दुःखेन महताऽऽविष्टस्ततस्सुष्वाप पक्षिहा