भीष्मः-
अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम्
द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये
नाति गाधे जलस्थाने कुशलसुहृदस्त्रयः
प्रभूतमत्स्ये कौन्तेय बभूवुस्सहचारिणः
तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः
दीर्घसूत्रस्तथा चैकस्त्रयाणां जलचारिणाम्
क्रदाचित्तज्जलस्थानं मत्स्यबन्धास्समन्ततः
निस्रावयामासुरथो निम्नेषु विविधैर्मुखैः
प्रक्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा
दीर्घदर्शी-
इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम्
शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति
अनागतमनर्थं हि सुनयैर्यः प्रबाधते
स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे
भीष्मः-
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम्
न तु तावत्त्वरा कार्या इति मे निश्चिता मतिः
अथ सम्प्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम्
प्राप्तकालज्ञः-
प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते
भीष्मः-
एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः
जगाम स्रोतसैकेन गम्भीरं सलिलाशयम्
ततः प्रसृततोयं तं समीक्ष्य सलिलाशयम्
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये
अगच्छद्ग्रहणं तत्र दीर्घसूत्रस्सहापरैः
उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः
प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान्
ग्रस्तमेव तदुद्दानं गृहीत्वा तत्तथा तु सः
सर्वानेव च तांस्तत्र ते विदुर्ग्रथिता इति
ततः प्रक्षाल्यमानेषु सर्वेषु विमले जले
त्यक्त्वा रज्जुं प्रमुक्तोऽसौ शीघ्रं सम्प्रतिपत्तिमान्
दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्
स हि संशयमाप्नोति यथा सम्प्रतिपत्तिमान्
अनागतविधानं तु यो नरः कुरुते क्षमम्
श्रेयः प्राप्नोति सोऽत्यन्तं दीर्घदर्शी यथा ह्यसौ
कला काष्ठा मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः
पक्षा मासाष्षडृतवः कालस्संवत्सराणि च
पृथिवी देश इत्युक्तः स च कालो न दृश्यते
अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः
प्रधानाविति निर्दिष्टौ तौ मे चाभिमतौ नृणाम्
परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत्
देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात्