भीष्म
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कोशं सञ्जनयन्त्युत
न धनं यज्ञशीलानां हार्यं देवस्वमेव च
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति
इमाः प्रजाः क्षत्रियाणां रक्ष्या हन्याश्च भारत
धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा
अभोज्याश्चौषधीश्छित्त्वा भोज्या एव पचन्त्युत
यो वै न देवान्न पितॄन्न मर्त्यान्हविषाऽर्चति
अनर्थिकां तद्धनितामाहुर्धर्मविदो जनाः
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः
न हि न प्रीणयेल्लोकान्न लोको गर्हते नृपम्
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति
आत्मानं सङ्क्रमं कृत्वा मन्ये धर्मविदेव सः
औद्भिदा जन्तवो यद्वच्छ्रुत्वा वाजो यथातथा
अनिष्टत्तास्सम्भवन्ति तथा यज्ञः प्रजायते
यथैव दंशमशकं यथा कीटपिपीलिकम्
सैव वृत्तिरयज्ञेषु यथा धर्मो विधीयते
यथा ह्यकस्माद्भवति भूमौ पांसुस्तृणोलपम्
तथैवेह भवेद्धर्मस्सूक्ष्मस्सूक्ष्मतरस्स्मृतः