भीष्मः-
स्वराष्ट्रात्परराष्ट्राच्च कोशं सञ्जनयेन्नृपः
कोशाद्धि धर्मः कौन्तेय राज्यमूलं प्रवर्तते
तस्मात्सञ्जनयेत्कोशं सत्कृत्य परिपालयेत्
परिपाल्यानुगृह्णीयादेष धर्मस्सनातनः
स कोशश्शुद्धभावेन नानृशंसेन जायते
मध्यमं पदमास्थाय कोशसङ्ग्रहणं चरेत्
अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम्
अबलस्य कुतो राज्यमराज्ये श्रीः कुतो भवेत्
उच्चैर्वृत्तेश्श्रियो हानिर्यथैव मरणं तथा
तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत्
हीनकोशं हि राजानमवमन्यन्ति शत्रवः
न चास्याल्पेन तुष्यन्ति कर्मणाप्युत्सहन्ति च
श्रियो हि कारणं राजा सत्क्रियां लभते पराम्
साऽस्य गूहति पापानि वासः गुह्यमिव स्त्रियाः
बुद्धिमस्यानुतप्यन्ते पुरा विप्रकृता नराः
सालावृका इवाजस्रुर्जिघांसूनेव विन्दति
ईदृशस्य कुतो राज्यं सुखं भरतसत्तम
उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेतेह कस्यचित्
अप्यरण्यं समाश्रित्य चरेन्मृगगणैस्सह
न त्वेवोद्रिक्तमर्यादैर्दस्युभिस्सहितश्चरेत्
दस्यूनां सुलभा सेना रौद्रकर्मसु भारत
एकान्ततो ह्यमर्यादात्सर्व उद्विजते जनः
दस्यवोऽप्यनुशङ्कन्ते निरनुक्रोशकारिणः
स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम्
अल्पा ह्यर्थेषु मर्यादा लोके भवति पूजिता
नायं लोकोऽस्ति न पर इति व्यवसितो जनः
नालं गन्तुमिहाश्वासं नास्तिक्यभयशङ्कितैः
यथा सद्भिः परं दानमहिंसा दस्युभिस्तथा
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु
अयुध्यमानस्यादानं दारामर्शः कृतघ्नता
ब्रह्मवित्तस्य चादानं निश्शेषकरणं तथा
स्त्रिया मोषः पथि स्थानं साधुष्वेव विगर्हितम्
सदोष एव भवति दस्युरेतानि वर्जयेत्
अभिसन्दधते ये च विनाशा यास्य भारत
सशेषमेवोपलभ्य कुर्वन्तीति विनिश्चयम्
तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः
न बलस्थोऽहमस्मीति नृशंसानि समाचरेत्
सशेषकारिणस्तत्र शेषं पश्यन्ति सर्वशः
निश्शेषकारिणो नित्यं निश्शेषकरणाद्भयम्