युधिष्ठिरः-
युधिष्ठिरः-
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु
राज्ञस्सङ्क्षीणकोशस्य बलहीनस्य भारत
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत
दुष्टामात्यसहायस्य श्रुतमन्त्रस्य सर्वशः
विरक्तराज्यपौरस्य निर्द्रव्यनिचयस्य च
राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः
असम्भावितमित्रस्य भिन्नामात्यस्य सर्वतः
परचक्राभियातस्य दुर्बलस्य बलीयसा
परचक्राभियातस्य दुर्बलस्य बलीयसा
असंविहितराष्ट्रस्य देशकालावजानतः
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते
भीष्मः-
अप्राप्यं च भवेत्सान्त्वं भेदो वाऽप्यतिपीडनात्
बाह्यश्चेद्विजिगीषुस्स्याद्धर्मार्थकुशलश्शुचिः
जीवितं त्वर्थहेतोर्वा तत्र किं सुकृतं भवेत्
जवेन सन्धिं कुर्वीत पूर्वं पूर्वं विमोक्षयेत्
आत्मनस्सन्निरोधेन सन्धिं तेनापि रोचयेत्
भीष्मः-
गुह्यां मा धर्ममप्राक्षीरतीव भरतर्षभ
अपास्य राजधानीं वा तरेदन्येन वाऽऽपदम्
प्रवक्तुं नोत्सहे पृष्टो धर्ममेतं युधिष्ठिर
तद्भावभावो द्रव्याणि जीवन्पुनरुपार्जयेत्
धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ
यास्तु स्युः कोशबलत्यागाच्छक्यास्तरितुमापदः
श्रुत्वौपम्यं सदाचारैस्साधुर्भवति स क्वचित्
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित्
कर्मणा बुद्धिपूर्वेण भवत्याढ्ये न वा पुनः
अपराधाज्जुगुप्सेत का सपत्नधने दया
तादृशोऽयमनुप्रश्नस्तद्ध्यायस्व स्वया धिया
न त्वेवात्मा प्रदातव्यश्शक्ये सति कथञ्चन
युधिष्ठिरः-
उपायं धर्मबहुलं यात्रार्थं शृणु भारत
आभ्यन्तरे च कुपिते बाह्ये चोपनिपीडिते
नाहमेतादृशे धर्मे बुभूषे धर्मकारणात्
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते
भीष्मः-
दुःखादान इव ह्येष स्यात्तु पश्चात्क्षमो मम
क्षिप्रं वा सन्धिकामस्स्यात्क्षिप्रं वा तीक्ष्णविक्रम
अभिगम्य गतीनां हि सर्वासामेव निश्चयम्
प्रतापनयनं क्षिप्रमेतद्वै साम्परायिकम्
यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते
अनुरक्तेन पुष्टेन हृष्टेन जगतीपतिः
तथा तथा विजानाति विज्ञानं चास्य रोचते
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः
अविज्ञानादयोगश्च पुरुषस्योपजायते
हतो वा दिवमारोहेद्धत्वा वा सुखमावहेत्
अविज्ञानादयोगो हि योगे भूतिमुखं परम्
युद्धे हि सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम्
अशङ्कमानो वचनमनसूयन्निदं शृणु
सर्वलोकागसं कृत्वा मृदुत्वं गन्तुमेव च
राज्ञः कोशक्षयादेव जायते बलसङ्क्षयः
आश्वासाद्विनयं कुर्यात्सञ्जह्याद्वाऽप्युपानहौ
कोशं सञ्जनयेद्राजा नित्यमेभ्यो यथाबलम्
अपचिक्रमिषुः क्षिप्रं सेनां स्वां परिसान्त्वयन्
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र साम्प्रतम्
विलङ्घिता च सत्रेण ततस्स्वयमुपक्रमेत्
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः
अन्यो धर्मस्समर्थानामापत्स्वन्यश्च भारत
प्रकार्यं प्रोच्यते धर्मो वृत्तिर्धर्मे गरीयसी
धर्मं प्राप्य यथान्यायं अबलीयान्न निन्दति
तस्माद्धर्मस्योपचितिरेकान्तेन न विद्यते
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः
अधर्मो जायते तस्मिन्निति वै कवयो विदुः
अनन्तरं क्षत्रियस्य तत्र किं विचिकित्ससे
यथाऽस्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत्
स स्वात्मनैव धर्मस्य न परस्य न चात्मनः
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः
तत्र धर्मविदस्तात निश्चयो धर्मनैपुणैः
उद्यमाज्जीवनं क्षात्रे बाहुवीर्यादिति श्रुतिः
क्षत्रियो वृत्तिसंरोधे कस्मान्नादातुमर्हति
अन्यत्र तापसस्वाच्च श्रोत्रियस्वाच्च भारत
यथा च ब्राह्मणस्सीदन्नयाज्यमपि याजयेत्
अभोज्यमपि चाश्नीयात्तथैतन्नात्र संशयः
पीडितस्य किमद्वारमुत्पथेनार्दितस्य च
अद्वारतः प्रद्रवति यदा भवति पीडितः
तस्य कोशबलग्लान्यां सर्वलोकपराभवः
भैक्षचर्या न विहिता न च विट्शूद्रजीविका
स्वधर्मानन्तरा वृत्तिर्याऽन्यामनुपजीवतः
जहतः प्रथमं कल्पमनुकल्पेन जीवनम्
आपद्गतेन धर्माणामन्यायेनोपजीवनम्
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये
क्षत्रिये संशयः कस्मादित्येन्निश्चितं सदा
आददीत विशिष्टेभ्यो नावसीदेत्कथञ्चन
आर्तानां रक्षितारं च प्रजानां क्षत्रियं विदुः
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना
अन्यत्रापि विहिंसाया वृत्तिर्नेहास्ति कस्यचित्
अप्यरण्यसमुत्थस्य चैकस्य चरतो मुनेः
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता
परद्रव्यस्य हरणं राज्ञा राष्ट्रेण चापदि
नित्यमेव हि कर्तव्यमेष धर्मस्सनातनः
राजा राष्ट्रं यथा यावद्द्रव्यौघैः परिरक्षति
राष्ट्रेण राजा नित्यं च परिरक्ष्यस्तथा भवेत्
कोशं दण्डं बलं मित्रं यदन्यदपि सञ्चितम्
न कुर्वीतान्तरं राजा राष्ट्रे परिगते क्षुधा
बीजं भक्तेन सन्तार्यमिति धर्मविदो विदुः
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम्
धिक्तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति
अवृत्त्या तन्मनुष्योऽपि यो वेदौशनसं वचः
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्
तन्मूलं सर्वधर्माणां धर्ममूलाः प्रजा ध्रुवम्
नान्यानपीडयित्वेह कोशश्शक्यः कुतो बलम्
तदर्थं पीडयित्वा च न दोषं प्राप्तुमर्हति
अकार्यमपि कार्यार्थं क्रियते यज्ञकर्मसु
एतस्मिन्कारणे राजा न दोषं प्राप्तुमर्हति
अर्थार्थमन्यद्भवति विपरीतमथापरम्
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थकारणम्
एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यदर्शनम्
यज्ञार्थमन्यद्भवति यज्ञोऽन्यार्थस्तथाः परः
यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं ह्यर्थसाधकम्
उपमामत्र वक्ष्यामि तत्त्वधर्मप्रकाशिनीम्
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि
ते चापि निपतन्तोऽन्यान्निघ्नन्त्यपि वनस्पतीन्
एवं कोशस्य महतो ये नराः परिपन्थिनः
तानहत्वा न पश्यामि सिद्धिमत्र परन्तप
धनेन जयते लोकमिमं चामुं च भारत
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा
सर्वोपायैराददीत धनं यज्ञप्रयोजनम्
न तुल्यदोषस्स्यादेवं कार्याकार्येषु भारत
नोभौ सम्भवतो राजन्कथञ्चिदपि भारत
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित्
यदिदं दृश्यते वित्तं पृथिव्यामिह किञ्चन
ममेदं स्यान्ममेदं स्यादिति यन्मन्यते जनः
न च राज्ञस्समो धर्मः कश्चिदस्ति कथञ्चन
धर्मस्संशब्दितो राज्ञामापदर्थस्ततोऽन्यथा
ज्ञानेन कर्मणा चान्ये तपसा च तपस्विनः
बुद्ध्या दाक्ष्येण चैवान्ये चिन्वन्ति धनसञ्चयान्
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत्
सर्वं बलवतः प्राप्यं सर्वं तरति कोशवान्
कोशो धर्मश्च कामश्च परलोकस्तथा ह्ययम्