भीष्मः-
ततस्तेषां समेतानामृषीणामृषिसत्तमः
ऋषभो हेहयाधिशं स्मयन्निदमब्रवीत्
पुराऽहं राजशार्दूल तीर्थान्यनुचरन्प्रभो
समासादितवान्दिव्यं नरनारायणाश्रमम्
यत्र सा बदरी रम्या सरो वैहायसं तथा
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान्
तस्मिन्सरसि कृत्वाऽहं विधिवत्तर्पणं पुरा
पितॄणां देवतानां च तत्राश्रममियां तदा
रेमातेऽरजसौ यत्र नरनारायणावृषी
अदूरादाश्रमात्किञ्चिद्वासार्थमगमं तदा
तत्र चीराजिनधरं कृशमुच्चमतीव च
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम्
अन्यैर्नरैर्महाबाहो वपुषाऽप्रतिमं तदा
कृशता चापि राजर्षे न दृष्टा तादृशी मया
शरीरमपि राजेन्द्र तनु कानिष्ठिकासमम्
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम
दृष्ट्वाऽहं तं कृशं विप्रं भीतः परमदुर्मनाः
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः
निवेद्य नाम गोत्रं च तथा कार्यं नरर्षभ
प्रदिष्टे चासने तेन शनैरहमुपाविशम्
ततस्स कथयामास धर्मार्थसहिताः कथाः
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः
उपयाज्जवनैरश्वैस्सबलस्सावरोधनः
स्मरन्पुत्रमरण्येषु नष्टं परमदुर्मनाः
भूरिद्युम्नपिता धीमान्नृपश्रेष्ठो महायशाः
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति भारत
एवमाशाकृशो राजा चरन्वनमिदं पुरा
दुर्लभस्स मया द्रष्टुं भूय एव च धार्मिक
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा
न स शक्यो मया द्रष्टुमाशा च महती मम
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः
एतच्छ्रुत्वा तु भगवांस्तनुर्मुनिवरोत्तमः
अवाक्शिरा ध्यानपरो मुहूर्तमवतस्थिवान्
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः
उवाच वाक्यं दीनात्मा मन्दमन्दमिवासकृत्
राजा-
दुर्लभं किन्नु देवर्षे आशायाश्चैव किं महत्
ब्रवीतु भगवानेतद्यदि गुह्यं न चेत्तदा
तनुः-
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः
बालिशां बुद्धिमास्थाय मन्दभाग्यतयाऽऽत्मनः
अर्थयन्कुशलं राजन्काञ्चनं वल्कलानि च
निर्विण्णस्स तु राजर्षिर्निराशस्समपद्यत
ऋषभः-
एवमुक्तोऽभिवाद्याथ तमृषिं लोकपूजितम्
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम
अर्घ्यं ततस्समानीय पाद्यं चैव महायशाः
आरण्येनैव विधिना राज्ञे सर्वं न्यवेदयत्
ततस्तमृषयस्सर्वे परिवार्य नरर्षभम्
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम्
अपृच्छंश्चैव तं तत्र राजानमपराजितम्
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशने
राजा-
वीरद्युम्न इति ख्यातो राजाऽहं दिक्षु विश्रुतः
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः
एकः पुत्रस्स विप्राग्र्य बाल एव च सोऽनघः
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्
ऋषभः-
इत्युक्ते तेन वचने राज्ञा मुनिरधोमुखः
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम्
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः
आशाकृतश्च राजेन्द्र तपो दीर्घं समास्थितः
प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा
आशा हि पुरुषं बालमालापयति तस्थुषी
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः
राजा-
आशायाः किञ्च वृत्तं वै किञ्चेह भुवि दुर्लभम्
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान्
ऋषभः-
ततस्संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत्
राजानं भगवान्विप्रस्तपःकृशतनुस्तदा
ऋषिः-
कृशत्वेन समं राजन्नाशाया विद्यते नृप
तस्या वै दुर्लभत्वाच्च प्रार्थितः पार्थिवो मया
राजा-
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव
दुर्लभत्वं च तस्यैव वेदवाक्यमिवाद्विजे
संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः
त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम्
यदि गुह्यं न ते विप्र लोके किञ्चेह दुर्लभम्
ऋषिः-
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमवाप्नुयात्
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते
संश्रुत्य नोपक्रियते परं शक्त्या यथार्थतः
भक्त्या यस्सर्वभूतेषु साऽऽशा कृशतरी मया
नृशंसेषु च या सक्ता कृतघ्नेष्वलसेषु च
अपकारिषु चा सक्ता साऽऽशा कृशतरी मया
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मता
प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते
श्रुत्वा कथास्तथा तास्तास्साऽऽशा कृशतरी
प्रसवे चैव नारीणां पुत्राणां पुत्रकारिता
तथा नरेन्द्र धनिनां साऽऽशा कृशतरी मता
ऋषभः-
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः
संस्पृश्य शिरसा पादौ निपपात द्विजर्षभे
राजा-
ऋषभः-
प्रसादये त्वां भगवन्पुत्रेणेच्छामि सङ्गमम्
वृणीष्व च वरान्विप्र यानिच्छसि यथाविधि
अब्रवीच्चैव तद्वाक्यं राजा राजीवलोचनः
राजाः-
सत्यमेतत्त्वया विप्र यथोक्तं नान्यथा मृषा
ऋषभः-
ततः प्रहस्य भगवांस्ततो र्धर्मभृतां वरः
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च
तं समानीय्य पुत्रं तु ततो लभ्य पार्थिवम्
आत्मानं दर्शयामास धर्मं धर्मभृतांवरः
स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात्
एतदृष्टं मया राजंस्त्वत्तश्च वचनं श्रुतम्
आशामपनय त्वाशु ततः कृषतरीमिमाम्
भीष्मः-
स तथोक्तस्तदा राजन्नृषभेण महात्मना
सुमित्रोऽपानयत्क्षिप्रमाशां कृशतरीं ततः
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम
स्थिरो भव महाराज हिमवानिव निश्चलः
त्वं हि श्रुत्वा च पृष्ट्वा च कृच्छ्रेष्वर्थेषु तेष्विह
श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि