युधिष्ठिरः-
शीलं प्रधानं पुरुषे कथितं ते पितामह
कथमाशा समुत्पन्ना का च सा प्रब्रवीहि मे
संशयस्तु महानेष समुत्पन्नः पितामह
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय
पितामहाशा महती ममासीत्तु सुयोधने
प्राप्ते युद्धे तु तद्युक्तं तत्कर्ताऽयमिति प्रभो
सर्वस्याशा सुमहती पुरुषस्योपजायते
तस्यां विहन्यमानायां दुःखो मृत्युर्न संशयः
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम
आशां बृहत्तरीं मन्ये पर्वतादपि सद्रुमात्
आकाशादपि वा राजनप्रमेयाऽथ वा पुनः
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः
भीष्मः-
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध मे
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः
ससार च मृगं विद्ध्वा बाणेनानतपर्वणा
स मृगो बाणमादाय ययावतिपराक्रमः
स च राजा बली तूर्णं ससार मृगमन्तिकात्
ततो निम्नं स्थलं चैव समृगोऽद्रवदाशुगः
मुहूर्तमिव राजेन्द्र समेन स पथाऽगमत्
ततस्स राजा तारुण्यादौरसेन बलेन च
चचार बाणासनभृत्सखड्गो हंसवत्तदा
ततो नदान्नदीश्चैव पल्वलानि वनानि च
अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः
स तु तावन्मृगो राजन्नासाद्यासाद्य पार्थिवम्
पुनरभ्येति जवनो जवेन महता ततः
स तस्य बाणैर्बहुभिस्समभ्यस्तो वनेचरः
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम्
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः
समाधाय शरं श्रेष्ठं कार्मुकान्निरवासयत्
पुनश्च जवमास्थाय जवनो मृगयूथपः
तस्य बाणपथं मुक्त्वा तस्थिवान्प्रहसन्निव
तस्मिन्निपतिते बाणे भूमौ ज्वलिततेजसि
प्रविवेश मृगोऽरण्यं मृगं राजाऽप्यभिद्रवत्