भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः
स राजा धर्मविन्नित्यस्सह देव्या महायशाः
मुञ्जपृष्ठं जगामाथ देवर्षिगणसेवितम्
अत्र शृङ्गे हिमवतो वसतिं समुपागमत्
यत्र मुञ्जवटे रामो जटाहरणमादिशत्
तदादि च महाप्राज्ञ ऋषिभिस्संशितव्रतैः
मुञ्जपृष्ठ इति प्रोक्तस्स देशो रुद्रसेवितः
स तत्र बहुभिर्युक्तस्तदा श्रुतिमयैर्गुणैः
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्
तं कदाचिददीनात्मा सखा शक्रस्य मानितः
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः
सोपसृत्य तु मान्धाता वसुहोमं नराधिपम्
दृष्ट्वा प्रकृष्टं तपसा विनयेनोपतिष्ठते
वसुहोमोऽपि वै राज्ञो गामर्घ्यं च न्यवेदयत्
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्ययौ
सद्भिराचरितं पूर्वं यथावदनुयायिनम्
अब्रवीद्वसुहोमस्तं राजन्किं करवाणि ते
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमः
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन
मान्धाता-
बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया
तथैवौशनसं शास्त्रं विज्ञातं ते नरेश्वर
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम्
किं वाऽस्य पूर्वं जागर्ति किं वा परममुच्यते
कथं क्षत्रियसंस्थश्च दण्डस्सम्प्रत्यवस्थितः
ब्रूहि मे तद्यथातत्त्वं ददाम्याचार्यवेतनम्
वसुहोमः-
शृणु राजन्यथा दण्डस्सम्भूतो लोकसङ्ग्रहः
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः
ऋत्विजो नात्मनस्तुल्यान्ददर्शेति हि नश्श्रुतम्
स गर्भं भगवान्देवो वर्षपूगानधारयत्
अथ पूर्णे सहस्रे तु स गर्भः क्षुवतोऽपतत्
स क्षुपो नाम सम्भूतः प्रजापतिररिन्दमः
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ
इष्टरूपप्रचारत्वाद्दण्डस्सोऽन्तर्हितोऽभवत्
तस्मिन्नन्तर्हिते चापि प्रजानां सङ्करोऽभवत्
नैव कार्यं न वा कार्यं भोज्याभोज्यं न विद्यते
पेयापेये कुतस्सिद्धिर्हिंसन्ति च परस्परम्
गम्यागम्यं तदा नासीत्स्वं परस्वं च वै समम्
परस्परं विलुम्पन्ति सारमेया इवामिषम्
अबलान्बलिनो जघ्नुर्निर्मर्यादमवर्तत
ततः पितामहो विष्णुं भगवन्तं सनातनम्
सम्पूज्य वरदं देवं महादेवमथाब्रवीत्
ब्रह्मा-
तत्र साध्वनुकम्पां वै कर्तुमर्हसि शङ्कर
अयं विष्णुस्सखा तुभ्यं धर्मस्य परिरक्षणे
त्वं हि सर्वविधानज्ञस्सत्त्वानां त्वं गतिः परा
सङ्करो न भवेदत्र यथा तद्वै विधीयताम्
वसुहोमः-
ततस्स भगवान्ध्यात्वा तदा शूलवरायुधः
देवदेवो महादेवः कारणं जगतः परम्
ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च ससुरासुरैः
लोकसन्धारणार्थं च लोकसङ्करनाशनम्
आत्मानमात्माना दण्डमसृजद्देवसत्तमः
तस्माच्च धर्मचरणान्नीतिं देवीं सरस्वतीम्
असृजद्दण्डनीतिं वै त्रिषु लोकेषु विश्रुताम्
यथाऽसौ नीयते दण्डस्सततं पापकारिषु
दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते
भूयस्स भगवान्ध्यात्वा चिरं शूलधरः प्रभुः
असृजत्सर्वशास्त्राणि महादेवो महेश्वरः
दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः
विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु
दश चाष्टौ च विख्याता एता धर्मस्य संहिताः
एतासामेव विद्यानां व्यासमाह महेश्वरः
शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम्
व्यास एव तु विद्यानां महादेवेन कीर्तितः
तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम्
योगशास्त्रं च विख्यातं तन्त्रं लोकायतं तथा
तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम्
सुखदुःखार्थजिज्ञासा कारणं चेति विश्रुतम्
तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः
दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः
पुराणाश्च प्रणीताश्च तावदेवे हि संहिताः
धर्मशास्त्राणि तद्वच्च एकार्थानीति नान्यथा
एकार्थानि पुराणानि वेदाश्चैकार्थसंहिताः
नानार्थानि च सर्वाणि ततश्शास्त्राणि शङ्करः
प्रोवाच भगवान्देवः कालज्ञानानि यानि च
चतुष्षष्टिप्रमाणानि आयुर्वेदं च सोत्तरम्
अष्टाङ्गानि च कल्पानां दण्डनीतिं च शाश्वतीम्
गान्धर्वमितिहासं च नानाविस्तरमुक्तवान्
इत्येताश्शङ्करप्रोक्ता विद्याश्शब्दार्थसंयुताः
पुनर्भेदसहस्रं तु तासामेव तु विस्तरः
ऋषिभिर्देवगन्धर्वैस्सविकल्पस्सविस्तरः
शश्वदभ्यस्यते लोके वेद एव तु सर्वशः
वेदाश्चतस्रस्सङ्क्षिप्ता वेदवादाश्च ते स्मृताः
एतासां पारगो यश्च स चोक्तो वेदपारगः
वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः
शक्रस्स्वायम्भुवश्चैव मनुः परमधर्मवित्
ब्रह्मा च परमो देवस्सदा सर्वैस्सुरासुरैः
सर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः
अहं शान्तनवो भीष्मः प्रसादान्माधवस्य च
शङ्करस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह
वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः
कल्पे कल्पे महाभागैर्ऋषिभिस्तत्त्वदर्शिभिः
ऋषिपुत्रैर्ऋषिगणैर्भिद्यन्ते मिश्रकैरपि
शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः
आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः
इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः
पूर्वजन्मानुसारेण बहुधेयं सरस्वती
भूयस्स भगवान्ध्यात्वा चिरं शूलवरायुधः
तस्य तस्य निकायस्य चकारैकैकमीश्वरम्
देवानामीश्वरं चक्रे दैवं दशशतेक्षणम्
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम्
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम्
धनानां राक्षसां चैव कुबेरमपि चेश्वरम्
पर्वतानां पतिं मेरुं सरितां च महोदधिम्
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः
महात्मानं महादेवं विशालाक्षं सनातनम्
दश चैकश्च ये रुद्रास्तस्यैते मूर्तिसम्भवाः
नानारूपधरो देवस्स एव भगवाञ्शिवः
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम्
वीरुधां वसुमन्तं च भूतानां च प्रभुं वरम्
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्
कालं सर्वेशमकरोत्संहारविनयात्मकम्
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च
ईश्वरो देवदेवस्तु राजराजो धनेश्वरः
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः
ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः
विष्णुर्ब्रह्मा शशी सूर्यश्शक्रो देवाश्च सान्वयाः
सृजते ग्रसते चैतत्तमोभूतमिदं यथा
अज्ञातं च जगत्सर्वं यदा ह्येको महेश्वरः
तमेव ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे समाहितः
दण्डं धर्मस्य गोप्तारं सत्कृतं विष्णवे ददौ
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः
प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ
भृगुर्ददावृषिभ्यस्तु तद्दण्डं धर्मसंहितम्
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च
क्षुपस्तु मनवे प्रादादादित्यतनयाय तु
पुत्रेभ्यश्श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्
विभज्य दण्डः कर्तव्यो दण्डे तु नयमिच्छता
दुर्वाचा निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया
व्यङ्गत्वं च शरीरस्य वधो वाऽनल्पकारणात्
शरीरपीडा कार्या तु स्वदेशाच्च विवासनम्
तं ददौ सूर्यपुत्राय मनवे रक्षणात्मकम्
आनुपूर्व्याच्च दण्डोऽसौ प्रजा जागर्ति पालयन्
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः
धर्माच्च ब्रह्मणः पुत्रो व्यवसायस्सनातनः
व्यवसायात्ततस्तेजो जागर्ति परिपालयत्
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा
जागर्ति निर्ऋतिर्देवी ज्योतींषि निर्ऋतीमनु
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः
पितामहान्महादेवो जागर्ति भगवाञ्शिवः
विश्वेदेवाः शिवाच्चापि विश्वेभ्य ऋषयस्तथा
ऋषिभ्यो भगवान्सोमस्सोमाद्देवास्सनातनाः
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय
ब्राह्मणेभ्यस्तु राजन्या लोकान्रक्षन्ति धर्मतः
स्थावरं जङ्गमं चैव क्षत्रियेभ्यस्सनातनम्
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च
सर्वसङ्क्षेपको दण्डः पितामहसुतः प्रभुः
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
ईशस्सर्वस्य कालो हि महादेवः प्रजापतिः
देवदेवश्शिवस्सर्वो जागर्ति सततं प्रभुः
कपर्दी शङ्करो रुद्रो भवस्स्थाणुरुमापतिः
इत्येष दण्डो व्याख्यातस्तथौषध्यस्तथाऽपरे
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्
भीष्मः-
इतीदं वसुहोमस्य योऽऽत्मवाञ्शृणुयान्मतम्
श्रुत्वा तु सर्वमाख्यातं यो दण्डो मनुजर्षभ
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत
वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा
मयाऽपि कथितं आख्यानं प्रथितं तथा