भीष्मः-
स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत्
ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः
एवं राज्ञा मतिमता विदित्वा शीलशौचताम्
आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम्
अनुक्रोशं बलं वीर्यं प्रभावं प्रशमं क्षमाम्
भृत्या ये मन्त्रिणो योग्यास्स्युस्स्थाप्यास्सुपरीक्षिताः
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति
अकुलीननराकीर्णो न राजा सुखमेधते
कुलीनः प्राकृतो राजंस्तत्कुलीनतया सदा
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसम्
अकुलीनस्तु पुरुषः प्राकृतस्साधुसङ्क्षयात्
दुर्लभैश्वर्यतां प्राप्तो निन्दितश्शत्रुतां व्रजेत्
काकश्श्वानोऽकुलीनश्च बिडालस्सर्प एव च
अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः
लोकपालास्सदोद्विग्नाः पश्यन्त्यकुलजान्यथा
नारीं वा पुरुषं वाऽथ शीलं तत्रापि कारणम्
दुष्कुलीना च या स्त्री च दुष्कुलीनश्च यः पुमान्
अहिंसाशीलसंयोगाद्धर्मश्चाऽऽकुलतां व्रजेत्
धर्मं प्रति महाराज श्लोकानाह बृहस्पतिः
शृणु सर्वान्महीपाल हृदि तांश्च करिष्यसि
असितं सितकर्माणं यथा दान्तं तपस्विनम्
वृत्तस्थमपि चण्डालं तं देवा ब्राह्मणं विदुः
यदि घातयते कश्चित्पापसत्त्वं प्रजाहिते
सर्वसत्त्वहितार्थाय न तेनासौ विहिंसकः
द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरमेव च
महिषं च वराहं च सूकरं श्वानपन्नगान्
गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च
वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित्
ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकश्शुचिः
श्रेयांस्तत्र भवेन्म्लेच्छो ब्राह्मणः पापकर्मकृत्
दुष्कुलीनः कुलीनो वा यः कश्चिच्छीलवान्नरः
प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वाऽस्थिराम्
शीलं वाऽनुत्तमं कर्म कुर्याद्राजा समाहितः
नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम्
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं तेजनं तथा
कृतज्ञं बलवन्तं च दान्तं क्षान्तं जितेन्द्रियम्
अलुब्धं लब्धसन्तुष्टं स्वामिमित्रबुभूषकम्
सचिवं देशकालज्ञं सर्वसङ्ग्रहणे रतम्
संस्कृतं युक्तवचनं हितैषिणमतन्द्रितम्
युक्ताचारं स्वविषये सन्धिविग्रहकोविदम्
शस्तं त्रिवर्गवेत्तारं पौरजानपदप्रियम्
सेनाव्यूहनतत्त्वज्ञं यात्रासेनाविशारदम्
इङ्गिताकारतत्त्वज्ञं बलहर्षणकोविदम्
हस्तिशिक्षाश्वतत्त्वज्ञं सर्वसङ्ग्रहणे रतम्
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तमन्त्रिणम्
चौक्षं चौक्षजनाकीर्णं सुवेषं सुखदर्शनम्
नायकं नीतिकुशलं गुणैष्षड्भिस्समन्वितम्
अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च
धीरं शूरं महर्धीकं देशकालोपपादकम्
सचिवं यः प्रकुरुते न चैनमवमन्यते
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः
एष्टव्यो धर्मपरमः प्रजापालनतत्परः
धीरोऽमर्षी शुचिश्शीघ्रः काले पुरुषकारवित्
शुश्रूषुश्श्रुतवाञ्श्रोता ऊहापोहविशारदः
मेधावी धारणायुक्तो यथान्यायोपपादकः
दान्तस्सदा प्रियाभाषी क्षमावांश्च विपर्यये
नातिच्छेत्ता स्वयङ्कारी श्रद्धालुस्सुखदर्शनः
आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः
नाहंवादी ननिर्द्वन्द्वो नयत्किञ्चनकारकः
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः
सङ्गृहीतजनोऽस्तब्धः प्रसन्नवदनस्सदा
त्राता भृत्यजनापेक्षी जितक्रोधी महामनाः
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलस्सदा
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगणैर्वृताः
अन्वेष्टव्यास्सुपुरुषास्सहाया राज्यकारिणः
न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता
योधास्समरशौण्डीराः कृतज्ञाश्शास्त्रकोविदाः
धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः
अर्थमानविवृद्धाश्च रथचर्याविशारदाः
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही
ज्ञातीनामनवज्ञानं भृत्येष्वशठता सदा
नैपुणं चार्थचर्यासु यस्यैते तस्य सा मही
आलस्यं चैव निद्रा च व्यसनान्यतिहास्यता
यस्तैतानि न विद्यन्ते तस्यैव सुचिरं मही
वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता
धर्मचर्यास्सदा यस्य तस्येयं सुचिरं मही
नीतिवर्त्मानुसरणं नित्यमुत्थानमेव च
रिपूणामनवज्ञानं तस्येयं सुचिरं मही
उत्थानं चैव दैवं च तयोर्नानात्वमेव च
मनुना वर्णितं पूर्वं वक्ष्ये शृणु तदेव हि
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत
नयानयविधानज्ञस्सदा भव कुरूद्वह
दुर्हृदां छिद्रदर्शी यस्सुहृदामुपकारवान्
विशेषविच्च भृत्यानां स राज्यफलमश्नुते
सर्वसङ्ग्रहणे युक्तो नृपो भवति यस्सदा
उत्थानशीलो मन्त्राढ्यस्स राजा राजसत्तमः
शक्या चाश्वसहस्रेण वीरारोहेण भारत
सङ्गृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा