भीष्मः-
व्याघ्रश्चोटजमूलस्थस्तृप्तस्सुप्तो हतैर्मृगैः
नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः
प्रभिन्नकरटः प्रांशुः पद्मैर्विततमस्तकः
सुविषाणो महाकायो मेघगम्भीरनिस्स्वनः
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगार्वितम्
व्याघ्रो दन्तिभयात्त्रस्त ऋषिं शरणमाययौ
ततोऽनयत्कुञ्जरतां व्याघ्रं तमृषिसत्तमः
महमेघोपमं दृष्ट्वा स भीतो ह्यभवद्गजः
ततः कमलषण्डानि सल्लकीगहनानि च
व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः
कदचिद्भ्रममाणस्य हस्तिनस्सुसुखं तदा
ऋषेस्तस्योटजस्थस्य कालोऽगच्छद्दिवानिशम्
अथाजगाम तं देशं केसरी केसरारुणः
गिरिकन्दरजो भीमस्सिंहो नागकुलान्तकः
तं दृष्ट्वा सिंहमायान्तं नागस्सिंहभयार्दितः
ऋषिं शरणमापेदे वेपमानो भयातुरः
स ततस्सिंहतां नीतो गजेन्द्रो मुनिना तदा
तं च नागणयत्सिंहं तुल्यजातिसमन्वयात्
दृष्ट्वा च सोऽनशत्सिंहो वन्यो हिंसन्नवाग्बलः
स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी
न चान्ये क्षुद्रपशवस्तपोवनसमीपतः
प्रादृश्यन्त भयात्त्रस्ता जीविताकाङ्क्षिणस्तथा
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः
बलवान्क्षतजाहारो नानासत्वभयङ्करः
अष्टपादूर्ध्वनयनश्शरभो वनगोचरः
सिंहं संहर्तुमागच्छन्मुनेस्तस्य निवेशने
तं दृष्ट्वा शरभं यान्तं सिंहः परभयातुरः
ऋषिं शरणमापेदे वेपमानः कृताञ्जलिः
तं मुनिश्शरभं चक्रे बलोत्कटमरिन्दम
ततस्स शरभो वन्यो मुनेश्शरभमग्रतः
दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्वनम्
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा
मुनेः पार्श्वगतो नित्यं शरभस्सुखमाप्तवान्
ततस्तु शरभसन्त्रस्तास्सर्वे मृगगणा वनात्
दिशस्सम्प्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः
शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः
फलमूलाशनं दान्तं नैच्छत्स पिशिताशनः
ततः क्षुद्रसमाचारो बलेन च समन्वितः
इयेष तं मुनिं हन्तुमकृतज्ञः कृतान्वयः
चिन्तयामास च तदा शरभश्श्वानपूर्वकः
अस्य प्रभावात्सम्प्राप्तो वाङ्मात्रेण तु केवलम्
शरभत्वं सुदुष्प्रापं सर्वभूतभयङ्करम्
अन्येऽप्यत्र भयत्रस्तास्सन्ति हस्तिभयार्दिताः
मुनिमाश्रित्य जीवन्तो मृगाः पक्षिगणास्तथा
तेषामपि कदाचिच्च शरभत्वं प्रयच्छति
सर्वसत्वोत्तमं लोके बलं यत्र प्रतिष्ठितम्
पक्षिणामप्ययं दद्यात्कदाचिद्गारुडं बलम्
यावदन्यस्य सम्प्रीतः कारुण्यं च समाश्रितः
न ददाति बलं तुष्टस्सत्त्वस्यान्यस्य कस्यचित्
तावदेनमहं विप्रं वधिष्यामि च शीघ्रतः
स्थातुं मया शक्यमिह मुनिघातान्न संशयः
ततस्तेन तपश्शक्त्या विदितो ज्ञानचक्षुषा
विज्ञाय च मुनिश्प्राज्ञश्शुनि शापं प्रयुक्तवान्
मुनिः-
अहमग्निप्रभो नाम मुनिर्भृगुकुलान्वयः
मनसा निर्दहेयं च जगत्सन्धारयामि च
मम वश्यं जगत्सर्वं देवा यच्च चराचरम्
सन्ति देवाश्च ये भीतास्स्वधर्मं न त्यजन्ति ये
स्वधर्माच्च्यावितान्सर्वान्वाङ्मात्रेणापि निर्दहे
किमङ्ग त्वं मया नीतश्शरभत्वमनामयम्
क्रूरस्स सर्वभूतेषु हीनश्चाशुचिरेव च
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः
व्याघ्रो नागो मदपरो नागस्सिंहत्वमागतः
सिंहोऽतिबलसंयुक्तो भूयश्शरभतामयाः
मया स्नेहपरीतेन न विमृष्टः कुलान्वयः
यस्मादेवं महापापं मां त्वं हिंसितुमिच्छसि
तस्मात्स्वयोनिमापन्नश्श्वैव त्वं हि भविष्यसि
भीष्मः-
ततो मुनिजनद्वेष्टाद्दुरात्मा प्राकृतोऽधमः
ऋषिणा शरभश्शप्तस्स्वरूपं पुनरागमत्