युधिष्ठिरः-
न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु
अकुलीनाश्च कर्तव्या न वा भरतसत्तम
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निदर्शनं परं लोके सज्जनाचरितं सदा
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः
वने महति कस्मिंश्चिदमनुष्यनिषेविते
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः
दीक्षादमपरिश्रान्तस्स्वाध्यायपरमश्शुचिः
उपवासविशुद्धात्मा सततं सत्पथे स्थितः
तस्य सन्दृश्य सद्भावमुपविष्टस्य धीमतः
सर्वे सत्वास्समीपस्था भवन्ति वनचारिणः
सिंहा व्याघ्रास्सशरभा मत्ताश्चैव महागजाः
द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः
ते सुखप्रश्नदास्सर्वे भवन्ति क्षतजाशनाः
तस्यर्षेश्शिष्यवच्चैव चित्तज्ञाः प्रियकारिणः
उक्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथासुखम्
ग्राम्यस्त्वेकः पशुस्तत्र नाजहात्स महामुनिम्
भक्तोऽनुरक्तस्सततमुपवासकृशोऽबलः
फलमूलोत्तराहारश्शान्तश्शिष्टाकृतिर्यथा
तस्यर्षेरुपविष्टस्य पादमूले महामतेः
मनुष्यवद्गतो भावं स्नेहबद्धोऽभवद्भृशम्
ततोऽभ्ययान्महारौद्रो द्वीपी क्षतजभोजनः
श्वार्थमत्यर्थमुद्धुष्टः क्रूरः कालइवान्तकृत्
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः
व्यादितास्यः क्षुधा मत्तः प्रार्थयानस्तदामिषम्
दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी जनाधिप
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशां पते
शुनकः-
श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति
त्वत्प्रसादाद्भयं न स्यादस्मान्मम महामुने
मुनिः-
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथञ्चन
एष स्वरूपरहितो द्वीपी भवसि पुत्रक
भीष्मः-
ततश्श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः
चित्राङ्गो विस्फुरद्दंष्ट्रो वने वसति निर्भयः
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः
द्वीपिनं लेलिहन्वक्त्रं व्याघ्रो रुधिरलालसः
व्याघ्रं दृष्ट्वा क्षुधाऽऽसन्नं दंष्ट्रिणं वनचारिणम्
द्वीपि जीवितरक्षार्थमृषिं शरणमन्वियात्
ततस्संवासजं स्नेहमृषिणा कुर्वता सदा
स द्वीपी व्याघ्रतां नीतो रिपुभ्यो बलवत्तरः
ततो दृष्ट्वा स शार्दूलो नाभ्यघ्नत्तं विशां पते
स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः
तथैव स महाराज व्याघ्रस्समभवत्तदा