युधिष्ठिरः-
पितामह महाप्राज्ञ संशयो मे महानयम्
सञ्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः
पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम्
कथितो वाक्यसञ्चारस्ततो विज्ञापयामि ते
यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम्
अायत्यां च तदात्वे च क्षेमवृद्धिकरं च तत्
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत्
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः
यो ह्यसत्प्रग्रहरतिस्स्नेहरागबलात्कृतः
इन्द्रियाणामनीशत्वादसज्जनविभूषकः
तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः
न च भृत्यबलैरर्थैस्स राजा सम्प्रयुज्यते
एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम्
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति
शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः
क्षत्ता चैको महाप्राज्ञो यो नश्शंसति सर्वदा
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम्
अमृतस्याव्ययस्येव तृप्तस्स्वप्स्याम्यहं सुखम्
कीदृशास्सन्निकर्षस्था भृत्यास्सर्वगुणान्विताः
कीदृशैः किङ्कुलीनैर्वा सह यात्रा विधीयते
न ह्येको भृत्यरहितो राजा भवति रक्षिता
राज्यं चेदं जनस्सर्वस्तत्कुलीनः प्रशासति
न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत
असहायवता तात नैवार्थाः केचिदप्युत
लब्धुं लब्धा अपि सदा रक्षितुं भरतर्षभ
भीष्मः-
यस्य भृत्यजनस्सर्वो ज्ञानविज्ञानकोविदः
हितैषी कुलजस्स्निग्धस्स राज्यफलमश्नुते
मन्त्रिणो यस्य कुलजा असंहार्यास्सुखोषिताः
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः
अनागतविधातारः कालज्ञानविशारदाः
अतिक्रान्तमशोचन्तस्स राज्यफलमश्नुते
समदुःखसुखा यस्य सहायाः प्रियकारिणः
अर्थचिन्तापरास्सभ्यास्स राज्यफलमश्नुते
यस्य नार्तो जनपदस्सन्निकर्षगतस्सदा
अक्षुद्रस्सत्पथालम्बी स राजा राज्यभाग्भवेत्
कोशस्य पटलं यस्य कोशवृद्धिकरैर्नपः
आप्तैस्तुष्टैश्च पृष्टैश्च सङ्गतस्स नृपोत्तमः
गोष्ठागारमसंहार्यैराप्तैस्सञ्चयतत्परैः
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत्
व्यवहारश्च नगरे यस्य धर्मफलोदयः
दृश्यते शङ्खलिखितस्स धर्मफलभाङ् नृपः
सङ्गृहीतमनुष्यश्च यो राजा राजधर्मवित्
षड्भागं परिगृह्णाति स धर्म्यं फलमाश्नुयात्