युधिष्ठिरः-
राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सरितां चैव संवादं सागरस्य च भारत
सुरारिनिलयश्शश्वत्सागरस्सरितां पतिः
पप्रच्छ सरितस्सर्वास्संशयं जातमात्मनः
समुद्रः-
समूलशाखान्पश्यामि निहतान्कायिनो द्रुमान्
युष्माभिराभिपूर्णाभिरन्यांस्तत्र न वेतसान्
अल्पकायश्चाल्पसारो वेतसः कूलजश्च यः
अवज्ञया न शक्यो वा किञ्चिद्वा तेन वः कृतम्
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम्
यथा कूलानि चेमानि हित्वा नानीयते वशम्
भीष्मः-
ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत्
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम्
गङ्गा-
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्याचेतसः
वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरे
स च वेगे ह्यतिक्रान्ते स्थानमापद्यते पुनः
कालज्ञस्समयज्ञश्च सदा वश्यश्च नो द्रुमः
अनुलोमवृत्तिरस्तब्धस्तेन त्वां नैति वेतसः
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम्
भीष्मः-
यो हि शत्रोर्विवृद्धस्य प्रभोर्बन्धविनाशने
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः
जानन्विचरति प्राज्ञो न स याति पराभवम्
एवमेव यदा विद्वान्मन्यते विपुलं बलम्
संश्रयेद्वैतसीं वृत्तिमेतत्प्रज्ञानलक्षणम्