युधिष्ठिरः-
किं पार्थिवेन कर्तव्यं कृत्वा किंस्वित्स्सुखी भवेत्
तन्ममाचक्ष्व तत्त्वेन सर्वधर्मभृतां वर
भीष्मः-
हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम्
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत्
श्रुत्वैवं वर्तितव्यं स्म यथेदमनुशुश्रुम
उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर
जातिस्मरो महानुष्ट्रः प्रजापतिकुलोद्भवः
तपस्सुमहदातिष्ठदरण्ये संशितव्रतः
तपसस्तस्य चान्ते वै प्रीतिमानभवद्विभुः
वरेण च्छन्दयामास ततश्चैनं पितामहः
उष्ट्रः-
भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम्
योजनानां शतं साग्रमिच्छेयं चरितुं विभो
भीष्मः-
एवमस्विति तेनोक्तं वरदेन महात्मना
उपलभ्य वरं श्रेष्ठं ययावुष्ट्रस्स्वकं वनम्
स चकार तदाऽऽलस्यं वरदानात्सुदुर्मतिः
चरितुं चापि नेयेष दुरात्मा कालमोहितः
स कदाचित्प्रसार्यैव तां ग्रीवां शतयोजनाम्
चचार श्रान्तहृदयो वातश्चागात्ततो महान्
स गुहायां शिरो ग्रीवां निधाय पशुरात्मनः
वातवर्षमथाभ्यागात्सुमहत्प्लावयज्जगत्
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः
सदारस्तां गुहामाशु प्रविवेश जलार्दितः
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः
अभक्षयत तां ग्रीवामुष्ट्रस्य भरतर्षभ
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशु
तदा सङ्कोचने यत्नमकरोद्भृशदुःखितः
यावदूर्ध्वमधश्चैव ग्रीवां सङ्क्षिपते पशुः
तावत्तेन सदारेण जम्बुकेन स भक्षितः
स हत्वा भक्षयित्वा च च उष्ट्रं तं जम्बुकस्तदा
विगते वातवर्षे च निश्चक्राम गुहोदरात्
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा
आलस्यस्य क्रमात्पश्य महान्तं दोषमात्मनः
त्वमप्येवंविधं त्यक्त्त्वा योगेन नियतेन्द्रियः
ववृत्तं बुद्धिमूलं तु विजयं मनुरब्रवीत्
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च
राज्यं तिष्ठति दक्षस्य सङ्गृहीतेन्द्रियस्य च
गुप्तं मन्त्रं श्रुतवतस्सुसहायस्य चानघ
असहायवतो ह्यर्था न तिष्ठन्ति कदाचन
परीक्षितसहायस्य तिष्ठन्तीह युधिष्ठिर
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम्
इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभावः
मयाऽपि चोक्तं तव शास्त्रदृष्ट्या त्वमप्रमत्तः प्रचरस्व राजन्