युधिष्ठिरः-
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप
धर्मवृत्तं च वित्तिश्च वृत्त्युपायाः फलानि च
राज्ञां वृत्तिश्च कोशश्च कोशसञ्चयनं जयः
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम्
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम्
समहीनाधिकानां च यथावल्लक्षणोच्चयः
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता
क्षीणसङ्ग्रहवृत्तिश्च यथावत्परिकीर्तिता
लघुनाऽदेशरूपेण ग्रन्थयोगेन भारत
विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च
भेदमूलो विनाशो हि गणानामुपलक्षये
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः
एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप
यथा च ते न भिद्येरंस्तच्च मे ब्रूहि भारत
भीष्मः-
गणानां च कुलानां च राज्ञां भरतर्षभ
वैरसन्दीपनावेतौ लोभामर्षौ तथैव च
लोभमेको विवृणुते ततोऽमर्षमनन्तरम्
ततो ह्यमर्षसंयुक्तावन्योन्यजनिताशयौ
चारमन्त्रबलादानैस्सामदानविभेदनैः
क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम्
तत्र दानेन भिद्यन्ते गणास्सङ्घातवृत्तयः
भिन्ना विमनसस्सर्वे गच्छन्त्यरिवशं भयात्
भेदाद्गणा विनश्यन्ति भिन्नास्सूपजयाः परैः
तस्मात्सङ्घातयोगेषु प्रयतेरन्गणास्तदा
अर्था ह्येवाधिगम्यन्ते सङ्घातबलपौरुषात्
ब्राह्माश्च मैत्रीं कुर्वन्ति तेषु सङ्घातवृत्तिषु
ज्ञानवृद्धान्प्रशंसन्ति शुश्रूषन्तः परस्परम्
विनिवृत्ताभिसन्धानास्सुखमेधन्ति सर्वशः
धर्मिष्ठान्व्यवहारांश्च स्थापयन्ति च शाश्वतान्
यथावत्सम्प्रपश्यन्ते विवर्धन्ते गणोत्तमाः
पुत्रान्भ्रातॄन्निगृह्णन्तो विवे्धन्ते गुणोत्तमाः
चारमन्त्रविधानेषु मन्त्रसन्निचयेषु च
नित्ययुक्ता महाबाहो गणा वर्धन्ति सत्तमा
राज्ञां चारान्महोत्साहान्कर्मसु स्थिरपौरुषान्
मानयन्तस्सदा युक्ता विवर्धन्ते गणा नृप
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाश्शास्त्रपारगाः
कृच्छ्रास्वापत्सु सम्मूढान्गणाः उत्तारयन्ति ते
क्रोधो लोभो भयं दण्डः कर्शनं निग्रहो वधः
नयत्यरिवशं सद्यो गणान्भरतसत्तम
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः
लोकयात्रा समायत्ता भूयसी तेषु भारत
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत
गणमुख्यैस्तु सम्बुध्य कार्यं गणहितं मिथः
पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा
अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति च
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः
गोत्रस्य नाशं कुर्वन्ति गणसम्भेदकारका
आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम्
आभ्यन्तराद्भयं जातं सद्यो मूलानि कृन्तति
अकस्माल्लोभमोहाद्वा क्रोधाद्वाऽपि स्वभावजात्
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्
जात्या च सदृशास्सर्वे कुलेन सदृशास्तथा
न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः
भेदाच्चैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः
तस्मात्सङ्घातमेवाहुर्गणानां शरणं महत्