युधिष्ठिरः-
धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत्
भीष्मः-
अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते
यत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर
क्षेमदर्शी नृपसुतो यत्र क्षीणबलः पुरा
मुनिं कालकवृष्णीयमाजमामेति नश्श्रुतम्
तं पप्रच्छानुसङ्गृह्य कृच्छ्रामापदमास्थितः
राजाः-
अर्थेष्वभागी पुरुष ईहमानः पुनः पुनः
अलब्ध्वा मद्विधो राज्यं राजा किं कर्तुमर्हति
अन्यत्र मरणाद्दैन्यादन्यत्र परसंश्रयात्
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सर्वदा
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा
बहुश्रुतः कृतप्रज्ञस्त्वद्विधश्शरणं भवेत्
निर्विद्य हि नरः कामान्नियम्य सुखमेधते
त्वक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु
सुखमर्थाश्रयं येषामनुशोचामि तानहम्
मम ह्यर्थास्सुबहवो नष्टास्स्वप्नगता इव
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये
वयमेतान्परित्यक्तुमसतोऽपि न शक्नुमः
इमामवस्थां सम्प्राप्तं दीनमार्तं श्रियाश्च्युतम्
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम्
भीष्मः-
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता
मुनिः कालकवृष्णीयः प्रत्युवाच महाद्युतिः
कालकवृष्णीयः-
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः
अनित्यं सर्वमेवैतदहं च मम चास्ति यत्
यत्किञ्चिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत्
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति
एवं विदितवेद्यस्त्वमनर्थेभ्यः प्रमोक्ष्यसे
ये च पूर्वसमारम्भा ये च पूर्वतरे परे
सर्वं नास्तीति ते चैव तज्ज्ञात्वा को नु सञ्ज्वरेत्
भूत्वा च न भवत्येव न भूत्वा च भविष्यति
शोके न ह्यस्ति सामर्थ्यं शोचेत स कथं नरः
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि वा
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि
बुद्ध्या चैवानुबुद्ध्यस्व ध्रुवं हि न च विद्यते
अहं च त्वं च नृपते शत्रवस्सहृदश्च ते
अवश्यं न भविष्यामस्सर्वं च न भविष्यति
ये च विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात्
अपि चेन्महतो वित्तान्न विप्रमुच्येत पूरुषः
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः
अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात्
दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां वृत्तमाहुः
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते
बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः
किं न त्वं तैर्नरैश्श्रेयांस्तुल्यो वा बुद्धिपौरुषात्
राजा-
यादृच्छिकं मुपासीत राज्यमित्येव चिन्तये
ह्रियते सर्वमेवेदं कालेन महता द्विज
तस्यैव ह्रियमाणस्य स्रोतसेव तपोधन
फलमेतत्प्रपश्यामि यथालब्धेन वर्धयेत्
मुनिः-
अनागतमतीतं च याथातथ्यविनिश्चयात्
नानुशोचसि कौसल्य सर्वार्थेषु तथा भव
अवाप्यान्कामयेत्स्वार्थान्नानवाप्यान्कथञ्चन
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान्
यथालब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि
पुरस्ताद्भूतपूर्वत्वाद्धीनभोग्योऽपि दुर्मतिः
धातारं गर्हयेन्नित्यं लब्धार्थांश्च न मृष्यते
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान्
एतस्मात्कारणादेव दुःखं भूयोऽनुवर्तते
ईर्ष्याभिमानसम्पन्ना राजन्पुरुषमानिनः
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते नराः
अभिनिष्यन्दते देही श्रीभूतश्च द्विषज्जनात्
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः
त्यागधर्मविदो धीरास्स्वयमेव त्यजन्त्युत
त्यक्तं स्वायम्भुवे वंशे शुभेन भरतेन च
नानारत्नसमाकीर्णं राज्यं स्फीतमिति श्रुतम्
तथाऽन्यैर्भूमिपालैश्च त्यक्तं राज्यं महोदयम्
त्यक्त्वा राज्यानि सर्वे च वने वन्यफलाशिनः
गताश्च तपसः पारं दुःखस्यान्तं च भूमिपाः
बहुसङ्कुसुकं दृष्ट्वा विवित्सासाधनेन च
तथाऽन्ये सन्त्यजन्त्येव मत्वा परमदुर्लभम्
त्वं पुनः प्राज्ञरूपस्सन्कृपणं परितप्यसे
अकाम्यान्कामयानोऽर्थान्पराधीनानुपद्रवान्
तां बुद्धिमनुविज्ञाय त्वमेवैनान्परित्यज
अनर्थाश्चार्थरूपेण ह्यर्थाश्चानर्थरूपिणः
अर्था एव हि केषाञ्चिद्धननाशा भवन्त्युत
अनित्यं तत्सुखं मत्वा श्रियमन्ये न लिप्सते
रममाणश्श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते
तथा तस्येहमानस्य संरम्भोऽपि विनश्यति
कृच्छ्राल्लब्धमभिप्रेतं यथा कौसल्य नश्यति
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः
अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति
धर्ममेके हि पश्यन्ति कल्याणाभिजना नराः
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकाः
जीवितं सन्त्यजन्त्येके धनलोभपरा नराः
जीवितार्थं न मन्यन्ते पुरुषा हि धनादृते
पश्य चैषां कृपणतां पश्य चैषामबुद्धिताम्
अध्रुवे जीविते मोहाद्येऽर्थतृष्णामुपाश्रिताः
सञ्चये च विनाशान्ते मरणान्ते च जीविते
संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः
धनं वा पुरुषो राजन्पुरुषं वा पुनर्धनम्
अवश्यं विजहात्येव तद्विद्वान्को नु सञ्ज्वरेत्
अन्यत्रोपनता ह्यापत्पुरुषं तोषयत्युत
तेन शान्तिं न लभते नाहमेवेति कारणात्
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च
पश्य बुद्ध्या मनुष्याणां तुल्यामापदमात्मनः
नियच्छ सर्वं सङ्गच्छ इन्द्रियाणि मनस्तथा
प्रतिषेध्यानवाप्येषु दुर्लभेष्वहितेषु च
प्रतिकृष्टेषु भाग्येषु विप्रकृष्टेष्वसम्भवे
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति
अल्पमिच्छन्नचपलो मृदुर्दान्तस्सुसंस्थितः
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम्
अपि मूलफलाहारो रमस्वैको महावने
वाग्यतस्सङ्गृहीतात्मा सर्वभूतदयान्वितः
सदृशं पण्डितस्यैतदीषादन्तेन हस्तिना
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति
महाह्रदस्सङ्क्षुभितो ह्यात्मनैव प्रसीदति
एवं नरस्स्वत्मानैव कृतप्रज्ञः प्रसीदति
एतदेवं गतस्याहं सुखं पश्यामि केवलम्
अलं भवेच्छ्रियो राजन्हीनस्य सचिवादिभिः
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्