युधिष्ठिरः-
जयिन्याः कानि रूपाणि भवन्ति भरतर्षभ
पृतनायाः प्रशस्तानि तानिहेच्छामि वेदितुम्
भीष्मः-
जयिन्या यानि रूपाणि भवन्ति भरतर्षभ
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः
दैवे पूर्वं हि कुरुते मानुषे कालचोदिते
तद्विद्वांसोऽनुपस्यन्ति ज्ञानदीर्घेण चक्षुषा
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः
मङ्गलानि च कुर्वन्ति शमयन्त्यहितान्यपि
उदीर्णमनसो योधा वाहनानि च भारत
यस्यां भवन्ति सेनायां ध्रुवं तस्या जयो भवेत्
अन्वेव वायवो यान्ति तथैवेन्द्रधनूंषि च
अनुप्लवन्ते मेघाश्च तथाऽऽदित्यस्य रश्मयः
गोमायवश्चातुलोमबला गृध्राश्च सर्वशः
अर्हयेयुर्यदा सेनां सा हि सिद्धिरनुत्तमा
प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश्चाहुतीनां भवन्ति जयस्यैतद्भाविनो रूपमाहुः
शस्त्रैः पत्रैः कवचैः केतुभिश्च स्वभानुभिर्मुखवर्णैश्च यूनाम्
भ्राजष्मती द्रुष्प्रतिवीक्षणीया येषां चमूस्तेऽमिभवन्ति शत्रून्
इष्टा मृगाः पृष्ठतो वामतश्च सम्प्रस्थितानां च गमिष्यतां च
जिघांसतां दक्षिणास्सिद्धिमाहुर्ये त्वग्रतस्ते प्रतिषेधयन्ति
माङ्गल्यशब्दाञ्शकुना वदन्ति हंसाः क्रौञ्चाश्शतपत्रास्सहर्षाः
हृष्टा योधास्सत्त्ववन्तो भवन्ति जयस्यैतद्भाविनो रूपमाहुः
गम्भीरशब्दाश्च महास्वानाश्च शङ्खाश्च भर्येश्च नदन्ति यत्र
युयुत्सवश्चाप्रतिमा भवन्ति जयस्यैतद्भाविनो रूपमाहुः
शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च
येषां योधाश्शौर्यमनुष्ठिताश्च जयस्यैतद्भाविनो रुपमाहुः
शब्दास्स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः
धैर्यं चाविशते योधान्विजयस्य मुखं च तत्
शब्दो वामः प्रस्थितस्य दक्षिणश्च विविक्षतः
पश्चात्संसाधयत्येनं पुरस्तात्प्रतिषेधति
संहत्य महतीं सेनां चतुरङ्गां युधिष्ठिर
साम्नैवावर्तयन्पूर्वं प्रयतेथास्ततो युधि
जघन्य एष विजयो यद्युद्धे सामभाषणम्
यादृच्छया युधि जयो दैवेनेति विचारणा
आपगेव महावेगा त्रस्ता मृगगणा इव
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम्
उदारसारा महती रुरुसङ्घोपमा चमूः
परस्परज्ञास्संहृष्टास्त्यक्तप्राणास्सुनिश्चिताः
अपि पञ्चशतं शूरा मृद्नन्ति परवाहिनीम्
अपि वा पञ्च षट्सप्त संहिताः कृतनिश्चयाः
कुलीनाः पूजितास्सम्यग्विजयन्तीह शात्रवान्
सन्निपातो न गन्तव्यश्शक्ये सति कथञ्चन
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते
संसर्पेण हि सेनाया भीरूनाविशते भयम्
यज्ञादिव प्रज्वलितादियं स्वित्क्षपयिष्यति
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ
तेषां सन्दन्ति गात्राणि योधानां विषयस्य च
विषयो व्यथते राजन्सर्वस्सस्थाणुजङ्गमः
शस्त्रप्रतापतप्तानां मज्जास्सीदन्ति देहिनाम्
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः
सम्पीड्यमाना हि परैर्योगमायान्ति सर्वशः
आन्तराणां च भेदार्थं चरानभ्यवचारयेत्
यश्च तस्मात्परो राजा तेन सिद्धिः प्रशस्यते
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा
यथा सार्धममित्रेण मित्रेण प्ररिबाधनम्
क्षमा वै साधुमायानां न हि साधू सदा क्षमा
क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम्
विजित्य क्षममाणस्य यशो राज्ञो विवर्धते
महापराधे ह्यप्यस्मिन्विश्वसन्त्यपि शत्रवः
कर्षयित्वा तु मन्यन्ते क्षमा साध्वीति शाम्बराः
असन्तप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः
नैतत्प्रशंसन्त्याचार्या न चैतत्साधु दर्शनम्
अक्लेशेनाविनाशेन नियन्तव्यास्स्वपुत्रवत्
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत्
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव
न मे प्रिया ये स्म हतास्सम्प्रहृष्टाः परेऽपि च
न च कत्थिनमेवाग्र्यमुच्यमानं पुनः पुनः
अहो जीवितमाकाङ्क्षेन्नेदृशो वधमर्हति
सुदुर्लभास्सुपुरुषास्सङ्ग्रामेष्वपलायिनः
कृतं ममाप्रियं तेन येनायं निहतो मृधे
इति वाचा वदन्हन्तॄन्पूजयेत रहोगतान्
हन्तॄणां च हतानां च पूजां कुर्याद्यथार्थतः
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसङ्ग्रहम्
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत्
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत
विश्वस्तश्शक्यते भोक्तुं यथाकालं समुत्थितः
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति