युधिष्ठिरः-
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत
किंसन्नाहाः कथंशस्त्रा जनास्स्युस्संयुगे नृपाः
भीष्मः-
यथाचरितमेवात्र शस्त्रं पत्रं विधीयते
आचाराद्धीह पुरुषस्तथा कर्मसु वर्तते
गान्धारास्सिन्धुसौवीरा नखरप्रासयोधिनः
अभीतवत्सुबलिनस्तद्बलं सर्वपारगम्
सर्वशस्त्रेषु कुशलाश्शस्त्रवन्तो ह्युशीनराः
प्राच्या मातङ्गयुद्धेषु कुशलाश्शठयोधिनः
तथा यवनकाम्भोजा मधुरामभितश्च ये
एतेऽश्वयुद्धकुशला दाक्षिणात्याऽसिचर्मिणः
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः
आवन्तिका महाशूराश्चतुरङ्गे च मालवाः
एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे
प्रायो देशास्समुद्दिष्टा लक्षणानि च मे शृणु
सिंहशार्दूलवाङ्नेत्रास्सिंहशार्दूलगामिनः
पारावतकुलिङ्गाक्षास्सर्वे शूराः प्रमाथिनः
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथा परे
प्रमाथिनश्च मन्द्राश्च क्रोधनाः किङ्किणीस्वनाः
मेघस्वनाः क्रूरमुखाः केचिच्च कलनिस्वनाः
जिह्मनासाश्च मेघाश्च दूरगा दूरपातिनः
बिडालकुब्जास्स्तब्धाक्षास्तनुकेशास्तनुत्वचः
शीघ्राश्चपलचित्ताश्च ते भवन्ति दुरासदाः
गौरा निमीलिताः केचिन्मृदुप्रकृतयो जनाः
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः
सुसंहताः प्रतनवो व्यूढोरस्कास्सुसंस्थिताः
प्रवादितेषु नृप्यन्ति हृष्यन्ति कलदहेषु च
गम्भीराक्षा निसृष्टाक्षाः पिङ्गाक्षा भ्रुकुटीमुखाः
नकुलाक्षास्तथा चैते सर्वे शूरास्तनुत्यजः
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽव्यथाः
वक्रबाह्वङ्गुलीसक्थाः कृशा धमनिसन्तताः
प्रविपन्ते हि वेगेन साम्पराये ह्युपस्थिते
वारणा इव सम्मत्तास्ते भवन्ति दुरासदाः
दीप्तस्फुटितकेशान्तास्स्थूलपार्श्वहनूमुखाः
उन्नतांसाः पृथुग्रीवा विकटास्स्थूलपिण्डिकाः
उद्बन्धा इव सुग्रीवा विनता विहगा इव
पिण्डशीर्षाहिवक्त्राश्च पृषदंशमुखास्तथा
उग्रस्वरा मन्युमन्तो युद्धेष्वारावसारिणः
अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शनाः
त्यक्तात्मानस्सर्व एते उदग्रा ह्यनिवर्तिनः
पुरस्कार्यास्सदा सैन्यैर्हन्यन्ते घ्नन्ति चापि ते
अधार्मिका भिन्नवृत्तास्सान्त्वेनैषां पराभवः
एवमेव प्रदूष्यन्ते राज्ञो ह्येते ह्यभीक्ष्णशः