युधिष्ठिरः-
कथं जयार्थिनस्सेनां नयन्ति भरतर्षभ
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह
भीष्मः-
सन्त्येव हि स्थिता धर्म उपपत्त्या तथा परे
साध्वाचारतया केचित्तथैवौपयिका अपि
उपायधर्मान्वक्ष्यामि संसिद्धानर्थसिद्धये
दुर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्
कार्याणां सम्प्रसिद्ध्यर्थं तानुपायान्निबोध मे
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्
अमित्राण्येव राजानं भेदेनोपचरन्त्युत
तान्राजानिकृतीञ्जानन्यथाऽमित्रान्निबाधते
गजानां पार्श्वचर्माणि गोवृषाजगराणि च
शल्यकण्टकलोहानि तनुत्राणि मतानि च
पीतानि चैव शस्त्राणि सन्नाहाः पीतलोहकाः
नानारञ्जनरक्तास्स्युः पताकाः केतवश्च ते
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वथाः
फलकान्यथसिचर्माणि प्रतिकल्प्यान्यनेकशः
सुविनीतानि पत्राणि योधाश्च कृतनिश्रमाः
चैत्रे वा मार्गशीर्षे वा सेनायोगः प्रशस्यते
पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा
नैवातिशीतो नात्युष्णः कालो भवति भारत
तस्मात्तदा योजयेत परेषां व्यसनेषु वा
एते हि योगास्सेनानां प्रशस्ताः परबाधने
जलवांस्तृणवान्मार्गस्समो गम्यः प्रशस्यते
चारैस्सुविदिताभ्याशः कुशलैर्वनगोचरैः
न ह्यरण्यानि शक्यन्ते गन्तुं मृगगणैरिव
तस्मात्सेनासु तानेव योजयन्ति जयार्थिनः
आवासस्तोयवान्मार्गः पर्याकाशः प्रशस्यते
पोषामपसर्पाणां प्रतिघातस्तथा भवेत्
आकाशं हि वनाभ्याशं मन्यन्ते गुणवत्तरम्
बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम्
हतशत्रुप्रतीघातमापदर्थं परायणम्
सप्तर्षीन्पृष्ठतः कृत्वा युध्येयुरचला इव
अनेन विधिना शत्रूञ्जिगीषेतापि दुर्जयान्
यतो वायुर्यतस्सूर्यो यतस्सोमस्ततो जयः
पूर्वं पूर्वं ज्याय एषां सन्निपाते युधिष्ठिर
अकर्दमामनुदकाममर्यादामलोष्टकाम्
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः
समा निरुदकाकाशा रथभूमिः प्रशस्यते
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्
बहुदुर्गा महावृक्षा वेणुवेत्रतिरस्कृता
पदातीनां क्षमा भूमिः पर्वतोपवनानि च
पदातिबहुला सेना दृढा भवति भारत
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते
पदातिनागबहुला प्रावृट्काले प्रशस्यते
गुणानेतान्प्रसङ्ख्याय देशकालौ प्रयोजयेत्
एवं सञ्चिन्त्य यो याति तिथिनक्षत्रपूजितः
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्
प्रसुप्तांस्तृषिताञ्छ्रान्तान्प्रकीर्णान्नाभिघातयेत्
मोक्षे प्रयाणे चलने पानभोजनकालयोः
अतिक्षिप्तान्व्यतिक्षिप्तान्निहतान्प्रतनूकृतान्
अविस्रब्धान्कृतारम्भानुपन्यासात्प्रतापितान्
बहिश्चरानुपन्यासान्कृतवेश्मानुसारिणः
परिचर्यापरोद्धारो ये च केचन वल्गिनः
अनीकं ये विभिदन्ति भिन्नं संस्थापयन्ति च
समानाशनपानास्ते कार्या द्विगुणवेतनाः
जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम्
समानदेहरक्षार्थे कार्या द्विगुणवेतनाः
त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत्
दशाधिपतयः कार्याश्शताधिपतयस्तथा
ततस्सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्
यथामुख्यान्सन्निपात्य वक्तव्यं संशयामहे
यथा जयार्थं सङ्ग्रामे न जह्याम परस्परम्
इहैव ते निवर्तन्तां ये च केचन भीरवः
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति
आत्मानं च स्वपक्षं च पालयन्हन्ति संयुगे
द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने
अमनोज्ञाऽसुखा वाचः पुरुषस्य पलायतः
प्रविध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च
हित्वा पलायमानस्य सहायान्प्राणसंंशये
अमित्रैरवरुद्धस्य द्विषतामस्तु नस्तथा
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
जयिनस्सुहृदस्तात मङ्गलैर्वन्दनेन च
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः
तदसह्यतमं दुःखं मन्यन्ते मरणादपि
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च
या भीरूणां पराख्यातिश्शूरस्तामधिगच्छति
ते वयं स्वर्गमिच्छन्तस्सङ्ग्रामे त्यक्तजीविताः
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम्
एवं संशप्तशपथास्समभित्यक्तजीविताः
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः
अग्रतः पुरुषानीकमसिचर्मवतां भवेत्
पृष्ठतश्शकटानीकं कलत्रं मध्यतस्तथा
परेषां प्रतिघातार्थं पदातीनां च गूहनम्
अपि चास्मिन्पुरे गृध्रा भवेयुर्ये पुरोगमाः
ये पुरस्तादभिमतास्सत्ववन्तो मनस्विनः
ते पूर्वमभिवर्तेयुस्तानन्वगितरे जनाः
अपि चोद्धर्षणं कार्याद्भीरूणामिह यत्नतः
स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्
सूचीमुखमनीकं स्यादल्पानां बहुभिस्सह
सम्प्रयुक्ते निकृष्टे वा सत्यं वा यदि वाऽनृतम्
प्रगृह्य बाहून्क्रोशेयुर्हन्त भग्नाः परे इति
आसन्नं नो मित्रबलं प्रहरध्वमभीतवत्
शब्दयन्तो निधावेयुः कुर्वन्तो भैरवं रवाम्
क्ष्वेडान्किलकिलाशब्दान्क्रकचा न्गोविषाणिकान्
भेरीमृदङ्गपणवान्नादयेयुश्च जर्झरान्