भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रतर्दनो मैथिलश्च सङ्ग्रामं यस्य चक्रतुः
यज्ञोपवीती सङ्ग्रामे मैथिलो जनकाधिपः
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्
योधानां दर्शयामास स्वर्गं नरकमेव च
जनकः-
अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत
पूर्णान्गन्धर्वकन्याभिस्सर्वकामदुहोऽक्षयान्
इमे पलायमानानां नरकाः प्रत्युपस्थिताः
अकीर्तिश्शाश्वती चैव पतितव्यमनन्तरम्
तान्दृष्ट्वाऽरीन्विजयत भूत्वा सन्त्यागबुद्धयः
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्
भीष्मः-
इत्युक्तास्ते नृपतिना योधाः परपुरञ्जय
व्यजयन्त रणे शत्रून्हर्षयन्तो जरेश्वरम्
तस्मात्त्यक्तात्मना नित्यं स्थातव्यं रणमूर्धनि
गजानां रथिनो मध्ये रथानामनुसादिनः
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम्
एवं यो व्यूहते राजा स नित्यं जयते रिपून्
तस्मादेतद्विधातव्यं नित्यमेव युधिष्ठिर
स्वर्गे सुकृतमिच्छन्तस्सुयुद्धेनातिमन्यवः
क्षोभयेयुरनीकानि सागरं मकरा इव
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्
तेषां च भूमिं रक्षेयुर्भग्नान्नात्यनुसारयेत्
पुनरावर्तमानानां निराशानां च जीविते
न वेगस्सुसहो राजंस्तस्मान्नात्यनुसारयेत्
न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भयात्
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम्
चराणामचरास्त्रस्ता अदंष्ट्रा दंष्ट्रिणामपि
अपाणयः पाणिमतां नराश्शूरस्य कातराः
समानपृष्ठोदरपाणिपादाः पश्चाच्छरं भीरवोऽनुव्रजन्ति
अतो भयार्ताः प्रणिपत्य भूयः कृत्वाऽञ्जलीनुपतिष्ठन्ति शूरान्
शूरबाहुषु लोकोऽयं सर्वो लम्बति पुत्रवत्
तस्मात्सर्वेषु लोकेषु शूरस्सम्मानमर्हति
न हि शौर्यात्परं किञ्चित्त्रिषु लोकेषु विद्यते
शूरस्सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्