भीष्मः-
नाधर्मेण महीं जेतुं लिप्सेत पृथिवीपतिः
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिपः
अधर्मयुक्तो विजयो न ध्रुवोऽस्वर्ग्य एव च
पातयत्येव राजानं महीं च भरतर्षभ
विशीर्णकवचं चैव तवास्मीति च वादिनम्
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत्
बलेन विजितो यश्च न स वध्येत भूमिपः
संवत्सरं सम्प्रणयेत्तस्माज्जातः पुनर्भवेत्
न च संवत्सरं कन्यास्स्प्रष्टव्यास्सहसा हृता
एवमेव धनं सर्वं यच्चान्यत्सहसा हृतम्
न तु वध्ये धनं तिष्ठेल्लिप्सेयुर्ब्राह्मणादयः
युञ्जीरन्वाऽप्यनडुहः क्षन्तव्यं वा पुनर्भवेत्
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते
नान्यो राजानमभ्यस्येदराजन्यः कथञ्चन
अनीकयोस्संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत्
अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः
अमन्त्रेयस्तदूर्ध्वं स्यादनादेयश्च संसदि
या तु धर्मविलोपेन मर्यादाभेदनेन च
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः
धर्मलब्धाद्धि विजयात् को लाभो ह्यधिको भवेत्
सहसा नभ्यभूतानि क्षिप्रमेव प्रसादयेत्
सान्त्वेन भोगदानेन स राज्ञः परमो नयः
भुज्यमाना योगेन स्वराष्ट्रादभितापिताः
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि
अतुष्टास्सर्वतो राजन्राजध्वंसनकाङ्क्षिणः
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन
जीवितं ह्यप्यतिच्छिन्नस्सन्त्यजेदेकदा नरः
अल्पेनापि च संयुक्तस्तुष्यते नापराधितः
शुद्धजीवितमेवापि तादृशो बहुमन्यते
यस्य स्फीतो जनपदस्सम्पन्नः प्रियराजकः
सन्तुष्टभृत्यसचिवो दृढमूलस्स पार्थिवः
ऋत्विक्पुरोहिताचार्या ये चार्याश्श्रुतिसम्मताः
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते
एतेनैव हि वृत्तेन महीं प्राप नरोत्तमः
अन्येऽपि चैव विजयं विजिगीषन्ति पार्थिवाः
भूमिवर्जं पुरं राजा जित्वा राजन्महाहवे
अपि चान्नौषधीश्शश्वदाजहार प्रतर्दनः
अग्निहोत्राण्यल्पशेषं तेषां भाजनमेव च
आजहार दिवोदासस्ततो विप्रकृतोऽभवत्
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ
अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत
उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर
आसन्राज्ञां पुराणानां सर्वं हि मम रोचते
सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः