भीष्मः-
यानङ्गिराः क्षत्रधर्मानुचथ्यो ब्रह्मवित्तमः
मान्धात्रे यौवनाश्चाय प्रीतिमानभ्यभाषत
स यथाऽनुशशासैनमुचथ्यो ब्रह्मवित्तमः
तत्तेऽहं सम्प्रवक्ष्यामि निखिलेन युधिष्ठिर
उचथ्यः-
धर्माय राजा भवति न कामकरणाय तु
मान्धातरभिजानीहि राजा लोकस्य रक्षिता
राजा चरति चेद्धर्मं देवत्वायैव कल्पते
स चेदधर्मं चरति नरकायैव गच्छति
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति
तं राजा साधु यश्शास्ति स राजा श्रियमश्नुते
राजापराधाल्लक्ष्मीवान्मान्धातः पाप उच्यते
देवाश्च धर्मा गच्छन्ति धर्मो नास्तीति चोच्यते
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते
तदेव मङ्गलं लोकस्सर्वस्समनुवर्तते
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्
एवमाहुर्दिवारात्रं यदा पापो न वार्यते
इदं मम इदं नेति साधूनां तात धर्मतः
नैव व्यवस्था भवति यदा पापो न वार्यते
वध्यानामिव सत्वानां मनो भवति विह्वलम्
मनुष्याणां महाराज यदा पापो न वार्यते
नैव भार्या न पशवो न क्षेत्रं न निवेशनम्
प्रदृश्येत मनुष्याणां यदा पापो न वार्यते
देवाः पूजां न विन्दन्ति न स्वधां पितरस्तदा
नापि पूज्यन्त्यतिथयो यदा पापो न वार्यते
न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते
उभौ लोकावभिप्रेक्ष्य राजानमसृजंस्तथा
मुनयोऽथ महद्भूतमयं धर्मो भविष्यति
धर्मो यस्मिन्विराजेत तं राजानं प्रचक्षते
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः
वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम्
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत्
धर्मे वर्धति वर्धन्ति सर्वभूतानि भारत
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मान्विवर्धयेत्
धनानि स्रौति धर्मस्तु धारणाद्वेति निश्चयः
मानवानां मनुष्येन्द्र स सीमान्तकरस्स्मृतः
प्रभवार्थं हि भूतानां धर्मस्सृष्टस्स्वयम्भुवा
तस्मात्प्रवर्तयेद्धर्मं प्रजानुग्रहकारणात्
तस्माद्धि राजशार्दूल धर्मश्श्रेष्ठ इति स्मृतः
स राजा यः प्रजाश्शास्ति स सुहृद्भरतर्षभ
कामक्रोधावनादृत्य धर्ममेवानुपालयेत्
धर्मश्श्रेयस्करतमो राज्ञां भरतसत्तम
धर्मस्य ब्राह्मणो योनिस्तस्मात्तं पूजयेत्सदा
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी
तेषां ह्यकामकरणाद्राज्ञस्सञ्जायते भयम्
मित्राणि च नृपश्रेष्ठ तथाऽमित्रीभवन्त्यपि
ब्राह्मणान्हि सदाऽसूयन्बाल्याद्वैरोचनो बलिः
अथास्माच्छ्रीरपाक्रामदन्यस्मिन्वै प्रतापिनी
ततस्तस्मादपाक्रम्य साऽगच्छत्पाकशासनम्
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे
एतत्फलमसूयाया अवमानस्य चाभि भो
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी
दर्पो नाम श्रियः पुत्रोऽधर्माज्जात इति श्रुतिः
तेन देवासुरा राजन्नीतास्सुबहवो वशम्
राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव
राजा भवति तं जित्वा दासस्तेन पराजितः
स यथा दर्पसहितमधर्मं न निषेवते
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि
मत्तात्प्रमत्तादुन्मत्तात्पौगण्डाच्च विशेषतः
निन्दिताच्चासदाचाराद्दुर्हृदां चापि सेवनात्
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः
पर्वताद्विषमाद्वृक्षाद्धस्तिनोऽश्वात्सरीसृपात्
एतेभ्योऽनित्ययुक्तस्स्यान्नक्तकार्यां च वर्जयेत्
अत्याशां चातिमानं च दम्भं क्रोधं च वर्जयेत्
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च
परभार्यासु कन्यासु मैथुनं नाचरेन्नृप
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात्
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते
क्षत्रियस्य प्रमत्तस्य दोषस्सञ्जायते महान्
अधर्मास्सम्प्रवर्धन्ते प्रजासङ्करकारकाः
अशीते विद्यते शीतं शीते शीतं न विद्यते
अवृष्टिरनावृष्टिर्व्याधिश्चाविशेते प्रजाः
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथा गते
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनु विनश्यति
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे
कुमार्यः प्रविलीयन्ते तमाहुर्नृपदूषकम्
ममैतदिति नैतच्च मनुष्येष्ववतिष्ठति
त्यक्तधर्मो यदा राजा प्रमादमनुतिष्ठति
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः
सम्पद्यदेषा भवति संविभक्तसुखप्रजाः
यो न जानाति निर्हर्तुं वस्त्राणां रजको मलम्
रत्नानि वा शोधयितुं यथा नास्ति तथैव सः
एवमेतद्द्विजेन्द्राणां क्षत्रियाणां विशामपि
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थिताः
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिस्तु राजनि
ब्रह्मचर्यं तपो मन्त्रास्सर्वं चापि द्विजातिषु
तेषां यः क्षत्रियो वेद पात्राणामिव शोधकः
शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ
राजवृत्तानि सर्वाणि राजैव युगमुच्यते
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च
सर्वमेतत्प्रमुह्येत यदा राजा प्रमाद्यति
अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः
सर्व एव प्रमुह्यन्ते यदा राजा प्रमाद्यति
राजैव कर्ता भूतानां राजैव च विनाशकः
धर्मात्मा यस्स कर्ता स्यादधर्मात्मा विनाशकः
राज्ञो भार्याश्च पुत्राश्च बान्धवास्सुहृदस्तथा
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव
दुर्बलानां बलं सृष्ट धात्रा मान्धातरुच्यते
सुबलं तं महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम्
यश्च भूतं सम्भजते भूता ये च तदन्वयाः
अधर्मास्ते हि नृपतौ सर्वे सीदन्ति पार्थिव
दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः
दुर्बलांस्तात मन्येथा नित्यमेव विमानितान्
मा त्वां दुर्बलचक्षूंषि प्रदहेयुस्सबान्धवम्
न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति
आमूलान्निर्दहत्येव मा स्म दुर्बलमासदः
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम्
बलस्याबलदग्धस्य न किञ्चिदवशिष्यते
विमानितो हतः क्लिष्टस्त्रातारं चेन्न विन्दति
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्
मा स्म तात बलस्थस्त्वं भुञ्जीथा दुर्बलं जनम्
मा त्वां दुर्बलचक्षूंषि दहन्त्वग्निरिवाशयम्
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनाम्
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु
न हि पापं कृतं कर्म सद्यः फलति गौरिव
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति
महाद्दैवकृतस्तत्र दण्डः पतति दारुणः
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव
अभीक्ष्णं भिक्षुरूपेण राजानं घ्नन्ति तादृशाः
राज्ञो यदा जनपदे बहवो राजपूरुषाः
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत्
यदा युक्त्या नयेदर्थान्कामादर्थवशेन वा
कृपणं याचमानानां तद्राज्ञो वैशसं महत्
महान्वृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति
यदा वृक्षश्छिद्यते दह्यते च तदाश्रया अनिकेता भवन्ति
यदाऽस्य राष्ट्रे धर्ममग्रे चरन्ति संस्कारं वा राजपुत्रं ब्रुवाणाः
तैश्चाधर्मश्चरितो धर्ममोहात्तूर्णं जह्यात्सुकृतं दुष्कृतं च
यत्र पापा ज्ञायमानाश्चरन्ति सभां कलिर्विन्दति तत्र राज्ञः
यत्र राजा शास्ति नरानशक्त्या न तद्राज्यं वर्धते भूमिपस्य
यश्चामात्यान्मानयित्वा यथा हि मन्त्रे च युद्धे च नृपोऽनुयुञ्ज्यात्
विवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम्
समीक्ष्य पूजयेन्राजा धर्मम्माप्राप्नोत्यनुत्तमम्
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते
यत्र सर्वं परित्राति वाचा कायेन कर्मणा
पुत्रन्यासे न मृष्येच्च स राज्ञो धर्म उच्यते
संविभज्य यथा भुङ्क्ते नृपतिर्यदि पार्थिव
दुर्बलानां बलं चैव स राज्ञो धर्म उच्यते
यदा शरणिकं राजा पुत्रवत्परिरक्षति
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते
कृपणानाथवृद्धानां यदार्तिमपकर्षति
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते
सत्यं पालयते गुत्या नित्यं भूमिं प्रयच्छति
पूजयत्यतिथीन्नित्यं स राज्ञो धर्म उच्यते
निग्रहानुग्रहौ तात यत्र स्यातां प्रतिष्ठितौ
अस्मिल्ँलोके परे चैव राजा प्राप्नोति तत्फलम्
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः
संयच्छन्यमवत्प्राणानसंयच्छंस्तु पावकः
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमत्य च
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः
तथा राज्ञाऽनुकर्तव्यं यन्तव्या विधिवत्प्रजाः
सहस्राक्षेण राजा हि सर्वथैवोपमीयते
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम्
भूतानां तत्त्वजिज्ञासा साध्वसाधु च सर्वदा
सङ्ग्रहस्सर्वभूतानां दानं च मधुरा च वाक्
पौरजानपदाश्चैव गोप्तव्याश्च प्रजा यथा
न जात्वदक्षो नृपतिः प्रजाश्शक्नोति रक्षितुम्
भारो हि सुमहांस्तात राज्यं नाम सुदुर्वहम्
तद्दण्डविन्नृपः प्राज्ञस्सर्वं शक्नोति रक्षितुम्
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनाऽपि वा
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः
सर्वं बुद्ध्या परीक्षेथास्तापसाश्रमिणामपि
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्
स्वदेशे परदेशे वा न ते धर्मो विनङ्क्ष्यति
धर्मे चार्थे च कामे च धर्म एवोत्तरो भवेत्
अस्मिंल्लोके परे चैव धर्मात्मा सुखमेधते
त्यजन्ति दारान्प्राणांश्च मनुष्याः परिपूजिताः
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक्
एतेभ्यश्चैव मान्धातस्सततं मा प्रमाद्यथाः
अप्रमादश्च शौचं च तात भीतिकरं महत्
अप्रमत्तो भवेद्राजा धिद्रदर्शी परात्मनोः
नास्य च्छिद्रं परः पश्येच्छिद्रे तु परमन्वियात्
एतद्वॄत्तं वासवस्य यमस्य वरुणस्य च
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम्
आतिष्ठ दिव्यं पन्थानमह्नाय पुरुषर्षभ
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत
देवर्षिपितृगन्धर्वाः कीर्तयन्तिमितौजसः
भीष्मः-
स एवमुक्तो मान्धाता तेनोचथ्येन भारत
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम्
भवानेवं तथा सर्वं मान्धातेव महीपतिः
धर्मं कृत्वा महीं रक्षन्स्वर्गं स्थानमवाप्स्यसि