युधिष्ठिरः-
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते
कथं प्रवर्तेत करस्तन्मे ब्रूहि पितामह
भीष्मः-
यथादेशं यथाकालमपि चैवं यथाबलम्
अनुशिष्यात्प्रजा राजा धर्मात्मा तद्धिते रतः
यथा तासां च मन्येत श्रेय आत्मन एव च
तथा सर्वाणि धर्माणि राष्ट्रे राजा प्रवर्तयेत्
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न प्रपातयेत्
वत्सापेक्षी दुहेच्चैव स्तनांश्चापि कुट्टयेत्
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपः
व्याघ्रीव वाऽपि वहेत्पुत्रान्नदंशेन्न च पीडयेत्
यथा बिडालकः कर्णं आखुः पादत्वचं यथा
अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत्
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत्
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत्
मृदुपूर्वं प्रयत्नेन पाशामभ्यवहारयेत्
असत्पाशावकीर्णास्ते भविष्यन्ति हि दुर्मदाः
उचितेनैव भोक्तव्यास्ते भविष्यन्त्ययत्नतः
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषं प्रति
यथामुख्यान्सान्त्वयित्वा भोक्तव्या इतरे जनाः
ततस्तान्भेदयित्वाऽथ परस्परविवर्जितान्
भुञ्जीत सान्त्वयित्वेह यथाकालमयत्नतः
न चास्थाने न चाकाले करानेभ्यो निपातयेत्
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता
अनुपायेन दमयन्प्रकोपयति वा जनम्
पानागारनिवेशाश्च वेशप्रापणिकांस्तथा
कृतवान्कुशीलवांश्चैव ये चान्ये केचिदीदृशाः
नियम्यास्सर्व एवैते ये राष्ट्रस्योपघातकाः
राष्ट्रस्यैते प्रवर्तन्ते बाधन्ते भद्रिकाः प्रजाः
न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चोदितम्
सर्व एव त्रयो लोका न भवेयुरसंशयम्
प्रभुर्नियमने राजा य एतान्न नियच्छति
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः
नियन्तव्यास्तु ते राज्ञा पापा ये स्युस्सदा नराः
कृतपापस्त्वसौ राजा य एतान्न नियच्छति
तथा कृतस्याधर्मस्य चतुर्भागमुपाश्नुते
स्थानान्येतानि संयम्य प्रसङ्गो भूतिनाशनः
कोऽतिप्रसक्तः पुरुषः किमकार्यं विवर्जयेत्
आपद्येव तु याचरन्येषां नास्ति परिग्रहः
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना
मा ते राष्ट्रे याचनका भवेयुर्मा च दस्यवः
उपादातार एवैते नैते भूतस्य भावकाः
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः
ते ते राष्ट्रेषु वर्तन्तां मा भूतानां प्रबाधकाः
दण्डार्हास्ते महाराज धनादानप्रयोजनाः
प्रयोगं कारयेथास्ते यथा दद्युः करांस्तथा
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किञ्चिदीदृशम्
पुरुषैः कारयेद्राजा बहुभिस्सह कर्मभिः
न रश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः
संशयं लभते किञ्चित्तेन राजा विगर्ह्यते
धनिनः पूजयेन्नित्यं धानाच्छादनभोजनैः
वक्तव्याश्चानुगृह्णीध्वं प्रजास्सह मयेत्यथ
अङ्गमेतन्महाराज्ञो धनिनो नाम भारत
ककुदं सर्वभूतानां धनस्थो नात्र संशयः
प्राज्ञश्शूरो धनढ्यश्च स्वामी धार्मिक एव च
तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति
तस्मात्सर्वेषु सर्वेषु प्रीतिमान्भव पार्थिव
सत्यमार्जवमक्रोधमानृशंस्यं च पालय
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे
सत्यार्जवपरो राजा मित्रकोशबलान्वितः