युधिष्ठिरः-
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव तु सङ्ग्रहम्
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ
भीष्मः-
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव तु सङ्ग्रहम्
हन्त ते सम्प्रवक्ष्यामि तत्त्वमेकमनाश्शृणु
ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा
विंशत्त्रिशच्छतेशं च सहस्रस्य च कारयेत्
ग्रामेयान्ग्रामदोषांश्च ग्रामिकः परिपालयेत्
तानाचक्षीत दशिने दशिको विंशिने पुनः
विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने
ग्रामाणां शतपालाय सर्वमेतन्निवेदयेत्
यानि ग्रामिकभोज्यानि ग्रामिकस्तान्युपाश्नियाते
दशिकेन विभक्तव्यो दशिना विंशतिस्तथा
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः
तदा तद्भरतश्रेष्ठ सुस्फीतं जनसङ्कुलम्
तत्र ह्यनेकपायत्तं राज्ञो भवति भारत
शाखानगरमर्हस्तु सहस्रपतिरुत्तमम्
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसञ्ज्ञितः
तेषां यद्ग्रामकृत्यं स्याद्राष्ट्रकृत्यं च यद्भवेत्
धर्मज्ञस्सचिवः कश्चित्तदवेक्षेदतन्द्रितः
नगरे नगरे वा स्यादेकस्सर्वार्थचिन्तकः
उच्चैस्स्थाने घोररूपो नक्षत्राणामिव ग्रहः
स च तान्सम्परिक्रामेत्सर्वानेव सदा सदा
तेषां वृत्तिं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः
जिघांसवः पापकामाः परस्वादायिनश्शठाः
तत्तद्रक्षास्वधिकृतास्तेभ्यो रक्षेदिमाः प्रजाः
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्
योगक्षेमं च सम्प्रेक्ष्य वणिजां कारयेत्करान्
उत्पत्तिं दानवृत्तिं च फलं सम्प्रेक्ष्य चासकृत्
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्
उच्चावचाः करन्यायाः पूर्वराज्ञां युधिष्ठिर
यथा यथा न हीयेयुस्तथा कुर्यान्महीपतिः
फलं कर्म च सम्प्रेक्ष्य तथा सर्वं प्रकल्पयेत्
फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तते
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ
समवेक्ष्य तथा राज्ञा प्रणेयास्सततं कराः
नोच्छिद्यादात्मनो मूलं परेषां वाऽतितृष्णया
ईहाद्वाराणि संरुध्य राजा संवृतदर्शनः
प्रद्विषन्त्यपरिख्यातं राजानमतिवादिनम्
प्रद्विष्टस्य कुतश्श्रेयोऽसंवृतो लभते श्रियम्
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना
भृतो वत्सो जातबलः पीडां सहति भारत
न कर्म कुरुते वत्सो दुग्धेऽत्यर्थं युधिष्ठिर
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत्
यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृप
सञ्जातमुपजीवनो लभते सुमहत्फलम्
आपदर्थं च निचयान्राजानिह चिन्वते
राष्ट्रं ते कोशभूतं स्यात्कोशो वेश्मग्रहस्तथा
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा
यथाशक्त्यनुकम्पेत सर्वानन्तचरानपि
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमस्सुखम्
एवं न सम्प्रकुप्यन्ते जनास्सुखितदुःखिताः
प्रागेव तु धनादानमनुभाष्य पुनः पुनः
सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत्
इयमापत्समुत्पन्ना परचक्रभयं महत्
अपि नान्ताय कल्पन्ते वेणोरिव फलागमाः
अरयो मां समुत्थाय बहुभिर्दस्युभिस्सह
भृशमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्
अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये
परित्राणाय भवतां प्रार्थयिष्ये धनानि च
प्रति प्रदास्ये भवतां सर्वं चाहं भयक्षये
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः
कलत्रमादिं कृत्वा च सर्वस्वं विनशेदिति
शरीरपुत्रदारार्थमर्थसञ्चय इष्यते
नन्दामि वः प्रभावेण पुत्राणामिव चोदये
यथाशक्त्युपगृह्णामि राष्ट्रस्यापीडनाय च
आपत्स्वेव निवोढव्यं भवद्भिस्सङ्गतैरिह
न वः प्रियतरं कार्यं धनं कस्याञ्चिदापदि
इति वाचा मधुरया श्लक्ष्णया सोपचारया
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित्
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम्
योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारयेत्करान्
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत्
सान्त्वे नापेक्षणं दानमवेक्षा चाप्यभीक्ष्णशः
गोमिनां पार्थ कर्तव्यस्संविभागः प्रियाणि च
अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वशः
प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः
दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून्
सर्वत्र क्षेमचरणं सुलभं नाम गोमिभिः
न ह्यतस्सदृशं किञ्चिद्धनमस्ति युधिष्ठिर