युधिष्ठिरः-
कथंस्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः
प्रैति धर्मं विशेषेण कीर्तिं चाप्नोति शाश्वतीम्
भीष्मः-
व्यवहारेण शुद्धेन प्रजापालनतत्परः
प्राप्य धर्मं च कीर्तिं च लोकानाप्नोत्यसौ शुचिः
युधिष्ठिरः-
कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः
भीष्मः-
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन्
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैश्शुभैः
किं नु सङ्क्षेपतश्शीलं प्रयत्नेनेह दुर्लभम्
वक्ष्यामि तु यथाऽमात्यान्यादृशांश्च करिष्यसि
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन्
क्षत्रियान्दश चाष्टौ च बलिनश्शस्त्रपाणयः
वैश्यान्वित्तेन सम्पन्नानेकविंशतिनित्यशः
त्रिंशच्छूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत्
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्
मतिस्मृतिसमायुक्तं विनीतं समदर्शिनम्
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्
विवर्जितानां व्यसनैस्सुघोरैस्सप्तभिर्भृशम्
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्
ततस्सम्प्रेषयेद्राष्ट्रे राष्ट्रिकायोपदर्शयेत्
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजास्सदा
न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम्
कार्ये खलु विपन्ने तु यो धर्मस्तं च पीडयेत्
विद्रवेत च राष्ट्रं ते श्येनात्पक्षिगणा इव
परिवेपेत च सदा नौर्विशीर्णेव सागरे
प्रजाः पालयतोऽसम्यगधर्मेणैव भूपतेः
हार्दं भयं संवदन्ति स्वर्गं चास्य निरुध्यते
अथ यो धर्मतः पाति राजाऽमात्योऽथवाऽऽत्मजः
धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ
स्वर्गं याति महीपालो नियुक्तैस्सचिवैस्सह
कार्येष्वधिकृतास्सम्यगवर्तन्तो नृपानुगाः
आत्मानं पुरतः कृत्वा यान्त्यधस्सहपार्थिवाः
बलात्कृतानां बलिभिः कृपणं बहुजल्पताम्
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्
ततस्साक्षिबलं साधु द्वेधा वादकृतं भवेत्
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः
अपराधानुरूपं च दण्डं पापेषु धारयेत्
वियोजयेद्धनैर्लुब्धान्दरिद्रान्वधबन्धनैः
विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्
राज्ञो वधं चिकीर्षेद्यश्चित्रस्तस्य वधो भवेत्
आदीपकस्य स्तेनस्य वर्णसङ्करिकस्य च
सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः
कामकारेण दण्डं तु यः कुर्यादविचक्षणः
स इहाकीर्तिसंयुक्तो मृतो नरकमश्नुते
न परस्यापराधेन परेषां दण्डमर्पयेत्
आगमानुगमं कृत्वा बध्नीयान्मोचयेत वा
न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि
दूतस्य हन्ता निरयमाविशेत्सचिवैस्सह
यथोक्तवचनं दूतं क्षत्रधर्मरतो नृपः
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः
कुलीनश्शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः
यथोक्तवादी स्मृतिमान्दूतस्स्यात्सप्तभिर्गुणैः
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता
शरीरेण च नीरूक्षो गुणैरेतैस्समन्वितः
धर्मशास्त्रार्थतत्त्वज्ञस्सान्धिविग्रहिको भवेत्
मतिमान्स्मृतिमान्धीमान्रहस्ये परिनिष्ठितः
कुलीनस्सत्वसम्पन्नश्शुक्लोऽमात्यः प्रशस्यते
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्
विश्वासयेत्परांश्चैव विश्वसेच्च न कस्यचित्
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते
एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते