युधिष्ठिरः-
सभासदस्सहायाश्च सुहृदश्च विशां पते
परिच्छदास्तथाऽमात्याः कीदृशास्स्युः पितामह
भीष्मः-
ह्रीनिषेधास्सदाऽऽदान्तासन्नास्सत्यलज्जासमन्विताः
शक्ताः कथयितुं दान्तास्ते तव स्युस्सभासदः
अमात्याश्चातिशूराश्च ब्रह्मण्याश्च बहुश्रुताः
सन्तुष्टाश्चापि कौन्तेय महोत्साहाश्च कर्मसु
एतान्सहायाल्ँलिप्सेथास्सर्वास्वापत्सु भारत
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहते
प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा
आवर्तयति भूयिष्ठं तदेकोऽप्यनुपालितः
कुलीना देशजाः प्राज्ञा कृपावन्तो बहुश्रुताः
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः
ते त्वां तात सेवेयुर्यावत्ते खङ्गपाणयः
अर्थ्यमानैश्च सत्कारैर्भोगैरुच्चावचैः प्रियान्
यानर्थभाजो मन्येथास्ते ते स्युस्सुखभागिनः
अभिन्नवृत्ता विद्वांसस्सद्वृत्ताश्चरितव्रताः
न त्वां नित्यार्थिनो जह्युरक्षुद्रास्सत्यवादिनः
अनार्या ये न जानन्ति समयं मन्दचेतसः
तेभ्यः परिजुगुप्सेथा ज्ञायेस्समयच्युतान्
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः
यस्त्वेको बहुभिश्श्रेयान्कामं तेन गणं त्यजेत्
श्रेयसो लक्षणं चैतद्विक्रमो यस्य दृश्यते
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति
समर्थान्पूजयेद्यस्तु समृद्धे स्पर्धते न यः
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत्
अमानी सत्यवाक्शक्तो जितात्मा मान्यमानिता
स ते मन्त्रसहायस्स्यात्सर्वावस्थं परीक्षितः
कुलीनः कुलसम्पन्नस्तितिक्षुर्दश आत्मवान्
शूरः कृतज्ञस्सत्यश्चश्श्रेयसः पार्थ लक्षणम्
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः
अमित्रास्सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम्
संयतात्मा कृतज्ञश्च भूतिकामश्च भूमिपः
सम्बन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः
अहार्यैरव्यभीचारैः सर्वशः सुपरीक्षितैः
यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहङ्कृताः
कर्तव्या भूतिकामेन पुरुषेण बुभूषता
एषां वैनयिकी बुद्धिः प्रकृत्या चैव शोभना
तेजो धैर्यं क्षमा शौचमनुरागस्स्थितिः पुरा
परीक्षितगुणान्नित्यं प्रौढभावान्धुरन्धरान्
पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्
कुलीनान्सत्वसम्पन्नानिङ्गितज्ञाननिष्ठुरान्
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः
नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः
हीनतेजोभिसम्पृक्तो नैव जातु व्यवस्यति
अवश्यं जनयत्येव सर्वकर्मसु संशयान्
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम्
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु
यो वाऽप्यस्थिरसङ्कल्पो बुद्धिमानागतागमः
उपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम्
केवलात्पुनरादानात्कर्मणो नोपपद्यते
परामर्शो विशेषाणामश्रुतस्येह दुर्मतेः
मन्त्रिण्यननुरक्ते तु विश्वासो नेह विद्यते
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत्
व्यथयेद्धि स राजानं मन्त्रिभिस्सहितोऽनृजुः
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव द्रुमम्
सङ्क्रुद्ध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति
वाचा क्षिपति संरब्धः पुनः पश्चात्प्रसीदति
न तान्यननुरक्तेन शक्यानीह तितिक्षितुम्
मन्त्रिणां च भवेत्क्रोधो विष्फूर्जितमिवाशनेः
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम्
अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति
योऽमित्रैस्सह सम्बद्धो न परान्बहुमन्यते
स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति
अविद्वानशुचिस्स्तब्धश्शत्रुसेवी विकत्थनः
असुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः
सत्कृतस्संविभक्तोऽपि न मन्त्रं श्रोतुमर्हति
यस्सल्पेनापि दोषेण सकृदाक्षारितो भवेत्
पुनन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति
विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा
सत्कृतस्स्थापितस्सोऽपि न मन्त्रं श्रोतुमर्हति
कृतप्रज्ञश्च मेधावी बुधो जानपदश्शुचिः
सर्वकर्मसु यश्शुद्धस्स मन्त्रं श्रोतुमर्हति
ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः
सुहृदात्मसमो राज्ञस्स मन्त्रं श्रोतुमर्हति
सत्यवाक्शीलसम्पन्नो गन्भीरस्सत्रपो मृदुः
पितृपैतामहो यस्स्यात्स मन्त्रं श्रोतुमर्हति
सन्तुष्टस्सम्मतस्सद्भिश्शौण्डीरो द्वेष्यपापकः
मन्त्रवित्कालविच्छूरस्स मन्त्रं श्रोतुमर्हति
सर्वलोकमिमं शक्तस्सान्त्वेन कुरुते वशम्
मन्त्रस्तस्मै प्रयोक्तव्यो दण्डमाधित्सताऽप्युत
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति
तस्मात्सर्वैर्गुणैरेतैरुपपन्नास्सुपूजिताः
मन्त्रिणः प्रकृतिज्ञास्स्युस्त्र्यवरा महदीप्सवः
स्वासु प्रकृतिषु च्छिद्रं लक्षयेरन्परस्य च
मन्त्रिणो मन्त्रमूलं हि राज्ञो राज्यं विवर्धते
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः
मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जनाः
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते
स्वामिनं त्वनुवर्न्तते वृत्त्यर्थमिह मन्त्रिणः
संविनीय मदक्रोधौ मानमीर्ष्यां च निर्वृताः
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः
तेषां त्रयाणां त्रिविधं विमर्शं बुद्ध्येत बुद्धिं विनिवेश्य तत्र
स्वनिश्चयं तं परनिश्चयं च निदर्शयेदुत्तरमन्त्रकाले
धर्मार्थकामज्ञमुपेत्य पृच्छेद्युक्तो गुरुं ब्राह्मणमुत्तरार्थम्
निष्ठा कृताऽतेन यदा सहस्स्यात्तं तत्र मार्गं प्रणयेदसक्तम्
एवं सदा मन्त्रयितव्यमाहुर्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः
तस्मात्तमेवं प्रणयेस्सदैव मन्त्रं प्रजासङ्ग्रहणे समर्थम्
न वामनाः कुब्जकिरातखञ्जा नान्धा जडास्स्त्रैणनपुंसकाश्च
न चात्र तिर्यक्च पुरो न पश्चान्नोर्ध्वं न चाधः प्रचरेत्कश्चित्
आरुह्य पापस्तु तथैव शून्यं स्थलं प्रकाशं कुशकाशहीनम्
वागङ्गदोषान्परिहृत्य सर्वान्सम्मन्त्रयेत्कार्यमहीनकालम्