युधिष्ठिरः-
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम्
पुरुषेणासहायेन किमु राज्यं पितामह
किंशीलः किंसमाचारो राज्ञो यस्सचिवो भवेत्
कीदृशे विश्वसेद्राजा कीदृशे न च विश्वसेत्
भीष्मः-
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत्
यो यस्यार्थो न रोचेत न तं तस्य प्रकाशयेत्
मित्राणां प्रकृतिर्नास्ति त्वमित्राणां च भारत
उपकाराद्भवेन्मित्रमपकाराद्भवेदरिः
यस्यैव हि मनुष्यस्य नरो मरणमृच्छति
तस्य पर्यागते काले पुनर्जीवितुमिच्छति
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथाऽपरौ
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत
असाधुस्साधुतामेति साधुर्भवति दारुणः
अरिस्तु मित्रं भवति मित्रं चापि प्रदुष्यति
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत्
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत्
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः
अविश्वासश्च सर्वत्र मृत्युर्नापि विशिष्यते
अकालमृत्युर्विश्वासोऽविश्वसन्हि विपद्यते
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित्
एषा नीतिगतिस्तात लक्ष्मीश्चैषा सनातनी
यं मन्येत ममाभावादेनमर्थागमस्स्पृशेत्
तस्मान्नित्यं शङ्कितव्यं तममित्रं विदुर्बुधाः
क्षेत्राद्यस्योदकं पार्थ क्षेत्रमन्यस्य गच्छति
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति
यमेवंलक्षणं विद्युस्तममित्रं विदुर्बुधाः
यस्ससृद्ध्या न तप्येत क्षये दीनतरो भवेत्
एतदुत्तममित्रस्य निमित्तमभिचक्षते
यन्मन्येत ममाभावादस्याभावो भवेदिति
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा
तं शक्त्या वर्धमानं च सर्वतः परिबृंहयेत्
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम्
ये यस्य क्षयमिच्छन्ति ते तस्य रिपवस्स्मृताः
व्यसनान्नित्यभीतो वै समृद्ध्या न च तृप्यति
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः
कुलीनश्शीलसम्पन्नस्स ते स्यात्प्रत्यनन्तरः
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान्
यो मानितोऽमानितो वा न सन्तुष्येत्कथञ्चन
ऋत्विग्वा यदि वाऽऽचार्यस्सखा वाऽत्यन्तसत्कृतः
गृहे वसेदमात्यस्ते स स्यात्परमपूजितः
संविद्याः परमं मित्रं प्रकृतिं चार्थधर्मयोः
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम्
एकार्थहेतुभूतानां भेदो भवति सर्वदा
कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः
समर्थोऽन्यांश्च न द्वेष्टि समर्थान्कुरुते च यः
यो न कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत्
दक्षः पर्याप्तवचनस्स ते स्यात्प्रत्यनन्तरः
कुलीनश्शीलसम्पन्नस्तितिक्षुरनसूयकः
स्थिरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः
एते ह्यमात्याः कर्तव्यास्सर्वकर्मस्ववस्थिताः
पूजितास्संविभक्ताश्च सुसहायास्स्वनुष्ठिताः
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्त्युत
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथस्सदा
अनुतिष्ठन्ति चैवार्थनातिष्ठन्तः परस्परम्
ज्ञातिभ्यो बिभियाश्चैव मृत्योरिव यतस्तदा
युवराजश्च राजर्धिं ज्ञातिर्न सहते सदा
ऋजोर्मृदोर्वदान्यस्य ह्रीमतस्सत्यवादिनः
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति
अज्ञातयोऽप्यसुखदा ज्ञातयोऽपि सुखावहाः
अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत
निकृतस्य परैरन्यैर्ज्ञातिरेव परायणम्
नान्यैर्निकारं सहते ज्ञातिर्ज्ञातेः कदाचन
आत्मानमेव जानाति निकृतं बान्धवं परैः
तेषु सन्ति गुणाश्चैव नैर्गुण्यं चैव लक्ष्यते
नाज्ञातिरनुगृह्णाति नाज्ञातिर्वृद्धिमश्नुते
उभयं ज्ञातिवर्गेषु दृश्यते साध्वसाधु च
सम्मानयेत्पूजयेच्च वाचा नित्यं च कर्मणा
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत्
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा
न हि दोषो गुणो वेह निस्स्पृहस्स्वेषु दृश्यते
अस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः
अमित्राः सम्प्रसीदन्ति ततो मित्रं भवन्त्यपि
य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले
मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति