युधिष्ठिरः-
क्व समर्थाः कथंशीला ऋत्विजस्स्युः पितामह
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर
भीष्मः-
श्रुतिकर्मपरा राजन्वृत्तिरस्य विधीयते
छन्दस्सामादि विज्ञाय द्विजानां श्रुतमेव च
वेदैकरतयो नित्यं धीमन्तः प्रियवादिनः
परस्परस्य सुहृदस्समन्तात्समदर्शिनः
आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम्
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमश्शमः
यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते
ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः
अकामद्वेषसंयुक्तस्त्रिभिश्शुक्लैस्समन्वितः
अहिंसको ज्ञानतृप्तस्स ब्रह्मासनमर्हति
एते महर्त्विजस्तात सर्वे मान्या यथातथम्
युधिष्ठिरः-
यदिदं वेदवचनं दक्षिणासु विधीयते
इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते
देयं प्रति धनं शास्त्रमापद्धर्मो न शास्त्रतः
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते
श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति
भीष्मः-
न वेदानां परिभवान्न शाठ्येन न मायया
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी
यज्ञानां दक्षिणा तात मन्त्राणां परिबर्हणम्
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन
शक्तिस्तु पूर्णपात्रेण सम्मिता नावमा भवेत्
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाबलम्
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते
तेन क्रीतेन धर्मेण ततो यज्ञः प्रवर्तते
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत्
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम्
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा
एतत्तपो विदुर्विप्रा न शरीरस्य शोषणम्
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः
निबोध दशहोतॄणां विधानं पार्थ यादृशम्
चित्तिस्स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्
न शाठ्यं न च जिह्मत्वं कालो देशश्च ते दश
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति