युधिष्ठिरः-
केषां प्रभवते राजा वित्तस्य भरतर्षभ
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह
भीष्मः-
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत
विकर्मस्थो हि नोपेक्ष्या भवेद्राज्ञा कथञ्चन
इति राज्ञः पुरावृत्तमभिजल्पन्ति साधवः
यस्य स्म विषये राज्ञस्स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा
तस्माद्राजर्षयस्सर्वे ब्राह्मणानन्वपालयन्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं केकयराजेन ह्रियमाणेन रक्षसा
केकयानामधिपतिं रक्षो जग्राह दारुणम्
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्
राजा-
नास्ति स्तेनो जनपदे न कदर्यो न मद्यपः
नानाहिताग्निर्नायज्वा मामकान्तरमाबिभः
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः
द्विजातिर्विषये मह्यं मामकान्तरमाविभः
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम
नाधीते चाव्रती कश्चिन्मामकान्तरमाबिभः
अध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति च
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः
पूजितास्संविभक्ताश्च ऋषयस्सत्यवादिनः
ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाबिभः
न याचन्ते प्रयच्छन्ति सत्यधर्मपरायणाः
नाध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति न
ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः
क्षत्रिया मे स्वकर्मस्था मामकान्तरमाबिभः
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया
अप्रमत्ताः क्रियावन्तस्सुवृत्तास्सत्यवादिनः
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः
मम वैश्यास्बस्वकर्मस्था मामकान्तरमाबिभः
त्रीन्वर्णानुपतिष्ठन्ते यथावदनसूयकाः
मम शूद्रास्स्वकर्मस्था मामकान्तरमाबिभः
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
संविभक्ताऽस्मि सर्वेषां मामकान्तरमाबिभः
कुलानुरूपधर्माणां प्रस्थितानां यथाविधि
अव्युच्छेत्ताऽस्मि सर्वेषां मामकान्तरमाबिभः
तपस्विनो मे विषये पूजिताः परिपालिताः
संविभक्ताश्च सत्कृत्य मामकान्तरमाबिभः
नासंविभज्य भोक्ताऽस्मि न विशामि परस्त्रियम्
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाबिभः
नाब्रह्मचारी भिक्षाशी भिक्षुर्वाऽब्रह्मचर्यवान्
नानृत्विजा हुतं मेऽस्ति मामकान्तरमाबिभः
कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत्
नाहं व्युत्क्रामितस्सत्यान्मामकान्तरमाबिभः’
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः
राष्ट्रे स्वपति जागर्मि मामकान्तरमाबिभः
शुक्लकर्माऽस्मि सर्वत्र न दुर्गतिभयं मम
धर्मचारी गृहस्थश्च मामकान्तरमाबिभः
वेदाध्ययनसम्पन्नस्तपस्वी सत्यधर्मवित्
स्वामी सर्वस्य राज्यस्य मम पुरोहितः
दानेन दिव्यानभिवाञ्छामि लोकान्सत्येनाथ ब्राह्मणानां च गुप्त्या
शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः
न मे राष्ट्रे विधवा ब्रह्मबन्धुर्न ब्राह्मणः कृपणो नोत चोरः
न पापकारी न च पापवक्ता न मे भयं विद्यते राक्षसेभ्यः
न मे शस्त्रैरनिर्भिन्नमङ्गं व्द्यङ्गुलमन्तरम्
धर्मार्थं युध्यमानस्य मामकान्तरमाबिभः
गोब्राह्मणे च राष्ट्रे च नित्यं स्वस्त्ययनं नराः
आशंसन्ते हि राष्ट्रे मे मामकान्तरमाबिभः
राक्षसः-
नारीणां व्यभिचाराच्च अन्यायाच्च महीक्षिताम्
विप्राणां कर्मदोषाच्च प्रजानां जायते भयम्
अवृष्टिर्मारको रोगस्सततं क्षुद्भयानि च
विग्रहश्च सदा तस्मिन्देशे भवति दारुणः
यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथञ्चन
भयमुत्पद्यते तत्र यत्र विप्रास्सुसंयताः
गन्धर्वाप्सरसस्सिद्धाः पन्नगाश्च सरीसृपाः
मानवान्न जिघांसन्ति यत्र नार्यः पतिव्रताः
ब्राह्मणाः क्षत्रिया वैश्या यत्र शूद्राश्च धार्मिकाः
नानावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः
धार्मिको यत्र भूपालो न तत्रास्ति पराभवः
उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे
तस्मात्प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम्
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय
न रक्षोभ्यो भयं तेषां कुत एव तु पातकम्
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम्
सुरक्षितास्तथा विप्रास्ते वै स्वर्गजितो नृपाः
भीष्मः-
तस्माद्द्विजातीन्रक्षेत ते रक्षन्तीह रक्षिताः
आशीरेषां भवेद्राजन्राज्ञां सम्यक्प्रवर्तताम्
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः
नियम्यास्संविभज्याश्च प्रजानुग्रहकारणात्
एवं यो वर्तते राजा पौरजानपदेष्विह
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्