युधिष्ठिरः-
यया वृत्त्या महीपालो विवर्धयति मानवान्
पुण्याँलोकाञ्जयति च तन्मे ब्रूहि पितामह
भीष्मः-
दानशीलो भवेद्राजा यज्ञशीलश्च भारत
उपवासतपश्शीलः प्रजानां पालने रतः
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत्
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान्
राज्ञा हि पूजितो धर्मस्ततस्सर्वत्र पूज्यते
यद्यदाचरते राजा तत्प्रजानां स्म रोचते
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु
निहन्यात्सर्वतो दस्यून्न राज्ञो दस्युषु क्षमा
यं हि धर्मं चरन्तीह प्रजा राजसुरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भागं च विन्दति
यदधीते यद्यजते यद्ददाति यदर्चति
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयेत्
यद्राष्ट्रोऽकुशलं किञ्चिद्राज्ञोऽरक्षयतः प्रजाः
चतुर्थं तस्य पापस्य राजा भारत विन्दति
अप्याहुस्सर्वमेवेति भूयोऽर्धमिति निश्चयः
कर्मणा पृथिवीपाल नृशंसोऽनृतवागपि
तादृशात्किल्बिपाद्राजा शृणु येन प्रमुच्यते
प्रत्याहर्तुमशक्तस्स्याद्वनं चोरैर्हृतं यदि
स्वात्कोशात्प्रदेयं स्यादशक्तेनोपजीवता
सर्ववर्णैस्सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणैस्तथा
न स्थेयं विषये तेन योऽपकुर्याद्द्विजातिषु
ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम्
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्
न हि कामात्मना राज्ञा सततं शठबुद्धिना
नृशन्नेनातिलुब्धेन शक्याः पालयितुं प्रजाः
युधिष्ठिरः-
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते
तदलं मम राज्येन यत्र धर्मो न विद्यते
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः
भीष्मः-
वेदाहं तव या बुद्धिरानृशंस्येऽगुणैव सा
न च नित्यानृशंसेन शक्यं राज्यमुपासितुम्
सदैव त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम्
क्लीबं धर्मघृणायुक्तं न लोको बहुमन्यते
राजधर्ममवेक्षस्व पितृपैतामहोचितम्
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः
प्रजापालनसम्भूतं प्राप्तो धर्मफलं ह्यसि
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यभ्यभाषत
विचित्रवीर्यो धर्मात्मा चित्रवीर्यो नराधिपः
शन्तनुश्च महीपालस्सर्वक्षत्रस्य पूजितः
तवैतां प्राज्ञतां तात यया चरसि मेधया
शौर्यं बलं च सत्यं च पिता तव सदाऽब्रवीत्
महत्त्वं बलमौदार्यं भवतः कुन्त्ययाचत
नित्यं स्वाहा स्वाहा नित्यमुभे मानुषदैवते
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च
दानमध्ययनं यज्ञं प्रजानां परिपालनम्
धर्म्यमेतदधर्म्यं वा जन्मनैवाभ्यजायथाः
कुले धुरि च युक्तानां वहतां भारमीदृशम्
सीदतामपि कौन्तेय कीर्तिर्न परिहीयते
समन्ततो विनीतो यो वहत्यस्खलितो हि सः
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव वा
नैकान्ते विनिपातेऽपि विहरेदिह कश्चन
धर्मी गृही वा राजा वा ब्रह्मचार्यथवा द्विजः
अल्पं तु सारभूयिष्ठं यत्कर्मोदारमेव तत्
कृतमेवाकृताच्छ्रेयो न पापीयो ह्यकर्मणः
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम्
योगक्षेमस्तदा राज्ञः कुशलायैव कल्पते
दानेनान्याद्बलेनान्यदन्यत्सूनृतया गिरा
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः
यं हि वैद्यकुले जाता अवृत्तिभयपीडिताः
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मे कोऽभ्यधिकस्ततः
युधिष्ठिरः-
किं न्वतः परमं स्वर्ग्यं का ततः प्रीतिरुत्तमा
किं न्वतः परमैश्वर्यं ब्रूहि मे यदि पश्यसि
भीष्मः-
यस्मिन्भयार्दितास्सन्तः क्षेमं विन्दन्त्यपि क्षणम्
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम
भव राजा जय स्वर्गं सतो रक्षाऽसतो जहि
अनु त्वां तात जीवन्तु सुहृदस्साधुभिस्सह
पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम्
वत्सलं संविभक्तारमुपजीवन्तु बान्धवाः