युधिष्ठिरः-
ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह
पुरोहितप्रभावश्च लक्षणं च पुरोधसः
इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम्
ब्रह्म क्षत्रं हि सर्वस्य कारणं जगतः परम्
भीष्मः-
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते
योगक्षेमो हि राज्ञश्च समायत्तः पुरोहिते
यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत
दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः
जिज्ञासमानस्स बलमभ्ययादलकाधिपम्
ततो वैश्रवणो राजा राक्षांस्यवसृजत्तदा
ते बलान्यवमृद्गन्तः प्रचरन्त्यथ नैर्ऋताः
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः
गर्हयामास विद्वांसं पुरोहितमरिन्दमः
तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत
ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत्
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्
कुबेरः-
बलवन्तस्त्वया पूर्वे राजानस्सपुरोहिताः
न चैवं समवर्तन्त यथा त्वमिव वर्तसे
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि
किं ब्राह्मणबलेन त्वमतिमात्रेण वर्तसे
भीष्मः-
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्
न्यायपूर्वमसंलब्धमसम्भ्रान्तमिदं वचः
मुचुकुन्दः-
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा
पृथग्बलविधानं च तल्लोकं परिरक्षति
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्
ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम्
तथाऽपि मां प्रवर्तन्तं किं गर्हस्यलकाधिप
भीष्मः-
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम्
कुबेरः-
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत
नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव
प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम्
मुचुकुन्दः-
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये
भीष्मः-
ततो वैश्रवणो राजा विस्मयं परमं ययौ
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते
नित्योदकी ब्राह्मणस्स्यान्नित्यशस्त्रश्च क्षत्रियः
तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम्
यशश्च तेजश्व महीं च कृत्स्नां प्राप्नोषि राजन्विपुलां च कीर्तिम्
प्रधानधर्मं नृपते नियच्छतथा च धर्मस्य चतुर्थमंशम्