युधिष्ठिरः-
कीदृशो ब्राह्मणो राज्ञां कार्याकार्यविचारणे
क्षमं कर्तुं समर्थो वा तन्मे ब्रूहि पितामह
भीष्मः-
य एव तु सतो रक्षेदसतश्च निवर्तयेत्
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पुरूरवस ऐलस्य संवादं मातरिश्वना
एलः-
कुतस्स्विद्ब्राह्मणो जातो वर्णा वाऽथ कुतस्त्रयः
कस्माच्च भवति श्रेयानेताद्वायो प्रचक्ष्व मे
वायुः-
ब्राह्मणो मुखतस्सृष्टो ब्रह्मणो राजसत्तम
बाहुभ्यां क्षत्रियस्सृष्ट ऊरुभ्यां वैश्य उच्यते
वर्णानां परिचर्यार्यं त्रयाणां भरतर्षभ
वर्णश्चतुर्थः पश्चात्तु शूद्रः पभ्द्यां विनिर्मितः
ब्राह्मणो जायमानो हि पृथिव्यामनुजायते
ईश्वरस्सर्वभूतानां धर्मकोशस्य गुप्तये
सर्वस्वं ब्राह्मणस्येदं यत्किञ्चिदिह दृश्यते
धर्मयुक्तं प्रशस्तं च जगत्यस्मिन्नृपात्मज
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारकम्
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान्
शूद्रो ह्येतान्परिचरेदिति ब्रह्मानुशासनम्
ऐलः-
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्
धर्मतस्सह वित्तेन सम्यग्वायो प्रचक्ष्व मे
वायुः-
विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम्
धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम्
मङ्गलं च प्रशस्तं च यच्चान्यदपि विद्यते
ज्येष्ठेनाभिजनेनेह तं धर्मं कुशला विदुः
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च
गुरुर्हि सर्ववर्णानां ज्येष्ठश्श्रेष्ठश्च वै द्विजः
पत्यभावे यथैव स्त्री देवरं कुरुते पतिम्
आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम्
एष ते प्रथमः कल्प आपद्यन्यो भवेद्यतः
भीष्मः-
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गय
यः किञ्चिज्जयसे भूमिं ब्राह्मणाय निवेदयेत्
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान्
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्
राजा चरति यं धर्मं ब्राह्मणेन विदर्शितम्
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः
यावता सत्कृतप्राज्ञश्चरन्धर्मेऽवतिष्ठति
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः
एवमेव प्रजास्सर्वा राजानमभिसंश्रिताः
ब्राह्मणं च सविद्वांसं राजशास्त्रविपश्चितम्
सम्यग्वृत्तास्स्वधर्मस्था न कुतश्चिद्भयान्विताः
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भागं हि विन्दति
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
यज्ञमेवोपजीवन्ति नास्ति यष्टा ह्यराजके
इतो दत्तेन जीवन्ति देवताः पितरस्तथा
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति
शब्दे स्पर्शे तथा रूपे गन्धे च रमते मनः
तेषु सर्वेषु भोगेषु भीतो न लभते सुखम्
अभयस्यैव यो दाता तस्यैव सुमहत्फलम्
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च
राजा बिभर्ति भूतानि राज्ञा सर्वमिदं धृतम्