युधिष्ठिरः-
केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः
सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाश्नुते
भीष्मः-
इयं गुणानां षट्त्रिंशी षट्त्रिंशद्द्विगुणान्विता
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात्
चरेद्धर्मं नरः कोपं मुञ्चेत्स्नेहं न चास्तिकः
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः
प्रियं ब्रूयान्न कृपणश्शूरस्स्यान्न विकत्थनः
दाता नापात्रवर्षी स्यात्प्रगल्भस्स्यादनिष्ठुरः
सन्दधीत न चानार्यैर्विगृह्णीयाच्च शत्रुभिः
नानाप्तैश्चारयेच्चारं कुर्यात्कार्य न लीलया
प्रहरेन्न त्वविज्ञाय ज्ञात्वा शत्रून्न शेषयेत्
सान्त्वयेन्न च शत्रूंश्च गृह्णीयान्नैव चाक्षिपेत्
सेवेत प्रणयं हित्वा दक्षस्स्यान्न त्वकालवित्
क्रोधं कुर्याच्च नाकस्मान्मृदुस्स्यान्नापराधिषु
अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः
आदद्याच्च न साधुभ्यो नासत्पुरुषमाश्रयेत्
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत्
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु
अनीर्ष्यो गुप्तदारस्स्यान्नोग्रस्स्यान्न घृणी नृपः
स्त्रीश्चा सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम्
अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया
अर्चेद्देवानदम्भेन श्रियमिच्छेदकुत्सिताम्
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि
अतोऽन्यथा नरपतिर्भयं गच्छत्यनुत्तमम्
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते
वैशम्पायनः-
इदं वचश्शान्तनवस्य शुश्रुवान्युधिष्ठिरः पार्थिवमुख्यसंवृतः
तदा ववन्दे च पितामहं नृपो यथोक्तमेवं च चकार बुद्धिमान्