युधिष्ठिरः-
पार्थिवेन विशेषेण किं कार्यमवशिष्यते
कथं रक्ष्यो जनपदः कथं वध्याश्च शत्रवः
कथं चारान्प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत
भीष्मः-
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा
आत्मा जेयस्सदा राज्ञा ततो जेयाश्च शत्रवः
अजितात्मा नरपतिर्विजयेत कथं रिपून्
एतावानात्मविजयः पञ्चवर्गविनिग्रहः
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयाद्रिपुन्
न्यसेच्च गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन
नगरोपवने चैव पुरोद्याने तथैव च
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च
मध्ये च नरशार्दूल तथा राजनिवेशने
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्
पुरुषान्परीक्षितान्राज्ञः क्षुत्पिपासाश्रमक्षमान्
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः
पुरे जनपदे चैव तथा सामन्तराजसु
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ
आपणेषु विहारेषु समवायेषु वीथिषु
आरामेषु तथोद्याने पण्डितानां समागमे
वेशेषु चत्वरे चैव सभास्वावसथेषु च
एवं विहन्याच्चारेण परद्वारं विचक्षणः
चारे च विहते सर्वं हतं भवति भारत
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना
अमात्यैस्सह सम्मन्त्र्य सन्धि कुर्याद्बलीयसा
विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः
दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते
प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रस्य तत्त्ववित्
पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम्
वैश्यशूद्रौ तथा भूयश्शास्त्रज्ञौ हितकारिणौ
अज्ञायमानो हीनस्तु सन्धिं कुर्यात्परेण वै
लिप्सेद्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः
गुणवन्तो महोत्साहा धर्मज्ञास्साधवश्च ये
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन्
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः
अशक्यरूपश्चोद्धर्तुमुपेक्षेत्तादृशं नृपः
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम्
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलस्सुखी
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा
अन्तःपुरे च रााष्ट्रे च अध्यक्षेषु च सर्वशः
न च वश्यो भवेदस्य नृपो यश्च न वीर्यवान्
हीनश्च बलवीर्याभ्यां कर्शयेत्तं परं रिपुम्
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः
अमात्यवल्लभानां च विवादांस्तस्य कारयेत्
वर्जनीयं सदा युद्धं राज्यकामेन धीमता
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः
सान्त्वेनानुप्रदानेन भेदेन च नराधिप
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा
तन्नाददीत सहसा पौराणां रक्षणाय वै
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः
भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने
सूतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्
आकरे लवणे शुल्के तरे नागवने तथा
न्यसेदमात्यान्नृपतिस्स्वाप्तान्वा पुरुषान्हितान्
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्
नृपस्य सततं धर्मस्सम्यग्दण्डः प्रशस्यते
वेदवेदाङ्गवित्प्राज्ञस्सुतपस्वी नृपो भवेत्
दानशीलश्च सततं यज्ञशीलश्च भारत
एते गुणास्समस्तास्स्युर्नृपस्य सततं स्थिताः
व्यवहारस्य लोपेन कुतस्स्वर्गः कुतो जयः
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा
त्रिधा तु कृत्वा मित्राणि विधानमुपकल्पयेत्’
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः
सस्याभिहारं कुर्वीत स्वयमेव नराधिपः
असम्भवे प्रवेशस्य दाहयेदग्निना भृशम्
क्षेत्रस्थेषु च सर्वेषु शत्रोरुपजपेन्नरान्
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वै
नदीमार्गेषु च तथा सङ्क्रमानवसादयेत्
जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत्
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम्
प्रतिघातं परस्याजौ युद्धकालेऽप्युपस्थिते
दुर्गाणां त्वभितो राजा मूलच्छेदं प्रयोजयेत्
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत्
प्रवृद्धानां द्रुमाणां च शाखां प्रच्छेदयेत्तथा
चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम्
देवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम्
पिशाचपन्नगानां च गन्धर्वाप्सरसामपि
रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत्
श्रूयते हि निकुम्भेन सौदासस्य बलं हतम्
महेश्वरगणेशेन वाराणस्यां नराधिप
प्रक्रुण्डं कारयेत्सम्यगाकाशमवनिं तदा
आपूरयेच्च परिखास्स्थाणुनक्रझषाकुलाः
कुलिकद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य च
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत्
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा
आरापयेच्छतघ्नीश्च स्वाधीनाश्चैव कारयेत्
काष्ठानि निर्हरेच्चैव तथा कूपांश्च खानयेत्
संशोधयेत्तथा कूपान्कृतान्पूर्वपयोर्थिभिः
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत्
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्पुरा
नक्तमेव च भक्तानि पाचयेत नराधिपः
न दिवाऽग्निर्ज्वलेयेद्गेहे वर्जयित्वाऽऽग्निहोत्रिकम्
यथासम्भवशैलानि चेष्टकानि च कारयेत्
मृण्मयानि च कुर्वीत ज्ञात्वा देशं बलाबलम्
कर्मारारिष्टशालासु ज्वलेदग्निस्सुरक्षितः
गृहाणि च प्रवेश्याथ विचेयस्स्याद्धुताशनः
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत्
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै
भिक्षुकांश्च यतींश्चैव क्लीबोन्मत्तान्कुशीलवान्
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि ते शठाः
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः
विशालान्राजमार्गांश्च कारयेत नराधिपः
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत्
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः
अश्वागारान्गजागारान्बलाधिकरणानि च
परिघाश्चैव कौरव्य प्रतोलीसङ्कटानि च
न जातु कश्चित्पश्येत गुह्यमेतद्युधिष्ठिर
अर्थसन्निचयं कुर्याद्राजा परबलार्दितः
तैलं मधु घृतं सस्यमौषधानि च सर्वशः
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम्
यवसेन्धनदिग्धानां कारयेत च सञ्चयान्
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासचर्मणाम्
सञ्चयानेवमादीनां कारयेत नराधिपः
औषधानि च सर्वाणि मूलानि च फलानि च
चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः
नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः
यतश्शङ्का भवेच्चापि भृत्यतो वाऽथ मन्त्रितः
पौरेभ्यो नृपतेर्वाऽथ स्वाधीनान्कारयेत तान्
कृते कर्माणि राजा तान्पूजयेद्धनसञ्चयैः
माननेन यथार्हेण सान्त्वेन विविधेन च
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन
गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शनम्
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि
तथा जनपदाश्चैव पुरं च कुरुनन्दन
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम्
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर
सन्धायासनमित्येव यात्रासन्धानमेव च
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाश्शृणु
क्षयस्स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा
धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः
मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः
शक्तित्रयं समाख्यातं त्रिवर्गस्य ततः परम्
कार्यं च कारणं चैव कर्ता च परिकीर्तितः
एतत्परतरं विद्यान्त्रिवर्गादपि भारत
सर्वेषां च क्षये राजन्यस्त्रिवर्गस्सनातनः
सत्त्वं रजस्तमश्चैव त्रिवर्गः कारणं स्मृतम्
तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते
कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते
तेन मोक्षपरश्चैव देवदेवः पितामहः
तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह नराधिप
जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता
धर्मोऽर्थश्चैव कामश्च सेवितव्यास्स्वकालतः
सेवा धर्मस्य कर्तव्या सततं भूरिवत्परैः
पुरुषैर्नरशार्दूल तन्मूलास्सर्वथा क्रियाः
धर्मेण च महीपालश्चिरं रक्षति मेदिनीम्
यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः
अर्थकामविहीनोऽपि चिरं पालयते महीम्
अस्मिन्नर्थेऽपि द्वौ श्लोकौ गीतावङ्गिरसा स्वयम्
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि
कृत्वा कार्याणि धर्मेण सम्यक्सम्पाल्य मेदिनीम्
पालयित्वा तथा पौरान्परत्र सुखमेधते
किं तस्य तपसा राज्ञः किञ्च तस्याध्वरैः कृतैः
सुपालिताः प्रजा यस्य सर्वधर्मकृदेव सः
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर
दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते
भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम्
विषं माया च दैवं च पौरुषं चार्थसिद्धये
प्रागुदक्प्रवणं दुर्गं समासाद्य महीपते
त्रिवर्गं यत्र सम्पूर्णमुपादाय तमुद्वहेत्
षट्पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः
त्रिवर्गैर्दशभिर्युक्तस्सुरैरपि न जीर्यते
न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च
दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः
न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्मुखी
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च
मूर्खामात्याग्नितप्तानि शुष्यन्ते जलबिन्दुवत्
विद्वांसः प्रथिता ये च ये चाप्तास्सर्वकर्मसु
बुद्धेषु दृष्टकर्माणि तेषां च शृणुयान्नृपः
दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः
दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत्
युधिष्ठिरः-
दण्डनीतिश्च राजा च समस्तौ तावुभावपि
तत्र किं कुर्वतस्सिद्धिस्तन्मे ब्रूहि पितामह
भीष्मः-
माहात्म्यं दण्डनीत्यास्तु साध्यं शब्दैस्सहेतुकैः
शृणु मे शंसतो राजन्यथावदिह भारत
दण्डनीतिस्स्वधर्मेषु चातुर्वर्ण्यं नियच्छति
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसङ्करे
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये
सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम्
कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो माभूद्राजा कालस्य कारणम्
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्
सर्वेषामेव वर्णानां नाधर्मे रमते मनः
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः
वैदिकानि च कर्माणि भवन्त्याधिगुणान्युत
ऋतवश्च सुखास्सर्वे भवन्त्यथ निरामयाः
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः
विधवा न भवन्त्यत्र नृशंसो नात्र जायते
अकृष्टपच्या पृथिवी भवन्त्योपधयस्तथा
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च
अधर्मो विद्यते नात्र धर्म एव तु केवलः
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते
अधर्मस्य चतुर्थांशस्त्रीनंशाननुवर्तते
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते
ततस्तु द्वापरं नाम स कालस्सम्प्रवर्तते
अशुभस्य यदा त्वर्धं द्वावंशावनुवर्तते
कृष्टपच्यैव पृथिवी भवत्यर्धफला तथा
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूपतिः
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः
कलावधर्मो भूयिष्ठो धर्मो भवति न क्वचित्
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया
योगक्षेमस्य नाशश्च वर्तते वर्णसङ्करः
वैदिकानि च कर्माणि भवन्ति विगुणान्युत
ऋतवो न सुखास्सर्वे भवन्त्यामयिनस्तथा
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत
व्याधयश्च भवन्त्यत्र म्रियन्ते चाशतायुषः
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति
रसास्सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः
प्रजास्संरक्षितस्सम्यग्दण्डनीत्या समाहिताः
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
युगस्य च चतुर्थस्य राजा भवति कारणम्
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते
ततो वसति दुष्कर्मा नरके शाश्वतीस्समाः
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः
दण्डनीतिं पुरस्कृत्य क्षत्रियेण विजानता
लिप्सितव्यमलब्धं च लब्धं रक्ष्यं च भारत
एष एव परो धर्मो यद्राजा दण्डनीतिमान्
तस्माद्धर्मेण कौरव्य प्रजाः पालय नीतिमान्
एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयः