युधिष्ठिरः-
चातुराश्रम्यमुक्तं ते चातुर्वण्यं तथैव च
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह
भीष्मः-
राष्ट्रस्य यत्कृत्यतमं राज्ञ एवाभिषेचनम्
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते
परस्परं च खादन्ते सर्वथा धिगराजकम्
इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छ
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम्
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः
अथ चेदधिवर्तेत राज्यार्थी बलवत्तरः
अराजकाणि राष्ट्राणि हतवीराणि वा पुनः
प्रत्युद्गम्याभिपूज्यस्स्यादेतदत्र सुमन्त्रितम्
न हि राज्यात्पापतरमस्ति किञ्चिदराजकात्
स चेत्समनुपश्येत समग्रं कुशलं भवेत्
बलवान्वै प्रकुपितः कुर्यान्निश्शेषतामिह
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुघा
अथ वा सुदुहा या गौस्तां नैव वितुदन्त्यपि
यदतप्तं प्रणमते न तत्सन्तापयन्त्युत
यत्स्वयं नमते दारु न तत्सन्नामयन्त्यपि
एतयोपमया धीरस्सन्नमेत बलीयसे
इन्द्राय स प्रणमते नमते यो बलीयसे
तस्माद्राजैव कर्तव्यस्सततं भूतिमिच्छता
न धनार्थो न दारार्थस्तेषां येषामराजकम्
ह्रियते हि चरन्पापं परवित्तमराजके
यदस्य तद्धरन्त्यन्ये तदा राजानमिच्छति
पापा ह्यपि सदा क्षेमं न लभन्ते कथञ्चन
एकस्य तु द्वौ हरतो द्वयोश्च बहवोऽपरे
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः
एतस्मात्कारणाद्देवाः प्रजापालं प्रचक्रिरे
राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः
जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः
अराजकाः प्रजाः पूर्वं विनेशुरिति नश्श्रुतम्
परस्परं भक्षयन्तो मत्स्या मत्स्यानिवाबलान्
तास्समेत्य मिथिश्चक्रुस्समयानिति नश्श्रुतम्
यः क्रूरो दण्डपरुषो यश्च स्यात्पारदारिकः
यश्च नस्समयं भिन्द्यात्त्याज्या नस्तादृशा इति
विश्वासनार्थं च सर्वेषां वर्णानामविशेषतः
तास्तथा समयं कृत्वा समयेनावतस्थिरे
सहितास्तास्समाजग्मुरसुखार्ताः पितामहम्
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश
सम्भूय यं पूजयेम यश्च नः परिपालयेत्
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः
मनुः-
बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम्
विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा
भीष्मः-
तमब्रुवन्प्रजा मा भैर्विधास्यामो धनं तव
पशूनामपि पञ्चांशं हिरण्यानां तथैव च
धान्यस्य दशमं भागं दद्म ते कोशवर्धनम्
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान्
सुखे धास्यसि नस्सर्वान्कुबेर इव नैर्ऋतान्
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति
तेन धर्मेण महता सुखलब्धेन भावितः
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः
विजयं याहि निर्याहि प्रतपन्रश्मिवानिव
मानं विधम शत्रूणां धर्मं जनय नस्सदा
स निर्ययौ महातेजा बलेन महता वृतः
महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः
अथ तत्रसिरे सर्वे स्वे स्वे धर्मे च दधुर्मनः
वर्णिनश्चाश्रमाश्चैव म्लेच्छास्सर्वे च दस्यवः
ततो महीं परिययौ पर्जन्य इव वृष्टिमान्
शमयन्सर्वपापान्स्वकर्मसु च योजयन्
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात्
नमस्येयुश्च त भक्त्या शिष्या इव गुरुं सदा
देवा इव सहस्राक्षं नरा राजानमन्तिकात्
सत्कृतं स्वजनेनेह परोऽपि बहुमन्यते
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत
राज्ञः परैः परिभवस्सर्वेषामसुखावहः
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च
भोजनानि च पानानि राज्ञे दद्युर्गृहाण्युत
आसनान्यथ शय्याश्च सर्वोपकरणानि च
गुप्तात्मा स्याद्दुराधर्षस्स्मितपूर्वाभिभाषिता
आभाषितश्च मधुरं प्रत्याभाषेत मानवान्
कृतज्ञो दृढभक्तिस्स्यात्संविभागी जितेन्द्रियः
ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च