इन्द्रः-
एवंवीर्यस्सर्वधर्मोपपन्नः क्षात्रश्श्रेष्ठस्सर्वधर्मेषु धर्मः
पाल्यो युष्माभिर्लोकपालैरुदारैर्विपर्यये स्यादभवः प्रजानाम्
भूसंस्कारं धर्मसंस्कारयोग्यं दीक्षाचर्यां पालनं च प्रजानाम्
विद्याद्राज्ञस्सर्वभूतानुकम्पा देहत्यागं चाहवे धर्ममग्र्यम्
त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वज्येष्ठं यच्छरीरं त्यजन्ति
नित्यं व्यक्तं राजधर्मेषु सर्वं प्रत्यक्षं ते भूमिपालास्तथैते
बहुश्रुत्या गुरुशुश्रूषया वा परस्य वा संहननाद्वदन्ति
नित्यं धर्मं क्षत्रियो ब्रह्मचारी चरेदेको ह्याश्रमं धर्मकामः
सामान्यार्थे व्यवहारे प्रवृत्ते प्रियाप्रिये वर्जयंश्चैव यत्नात्
चातुर्वर्ण्यस्थापनात्पालनाच्च तैस्तैर्योगैर्नियमैरौषधैश्च
सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम्
स्वं स्वं धर्मं येन चरन्ति वर्णास्तांस्तान्वर्णान्येयथा स्थापयन्ति
नेर्मर्यादे नित्यमर्थे विनष्टे न सा चिन्ता पशुभूते मनुष्ये
यथा नीतिर्गमयत्यर्थयोगाच्छ्रेयस्तस्मादाश्रमः क्षत्रियाणाम्
त्रैविद्यानां या गतिर्ब्राह्मणानां ये चैवोक्तास्स्वाश्रमा ब्राह्मणानाम्
एतत्सर्वं क्षत्रियस्याहुरग्र्यमन्यत्कुर्वञ्छूद्रवत्तत्र वर्ज्यः
चातुराश्रम्यधर्माश्च वेदवादाश्च पार्थिव
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथञ्चन
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते
कर्मणा त्यज्यते धर्मो यथैव श्वा तथैव सः
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति
कर्म स्वमप्रयुञ्जानमविश्वास्यं हि तं विदुः
एते वर्णास्सर्वधर्मैश्च हीना उत्क्रष्टव्याः क्षत्रियैरेव धर्मे
तस्माच्छ्रेष्ठा राजधर्मा न चान्ये वीर्यश्रेष्ठा राजधर्मा मता मे
मान्धाता-
यवनाः किराता गान्धाराश्चीनाश्शबरबर्बराः
शकास्तुषाराः गुह्याश्च पल्लवाश्चान्ध्रमद्रकाः
उष्ट्राः पुलिन्दा आरट्टाः काचा म्लेच्छाश्च सर्वशः
ब्रह्मक्षत्रप्रसूताश्च वैश्याश्शूद्राश्च मानवाः
कथं धर्मं चरिष्यन्ति सर्वे विषयवासिनः
मद्विधैश्च कथं स्थाप्यास्सर्वे ते दस्युजीविनः
एतदिच्छाम्यहं श्रोतुं मघवंस्तद्ब्रवीहि मे
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर
इन्द्रः-
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम्
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः
देशधर्मक्रियाश्चापि तेषां धर्मो विधीयते
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च
दानानि च यथाकालं दातव्यानि द्विजातिषु
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्
भरणं पुत्रदाराणां शौचमद्रोह एव च
दक्षिणा सर्वयज्ञानां दातव्या धर्ममिच्छता
पाकयज्ञा महार्थाश्च दातव्यास्सर्वदस्युभिः
एतान्येवम्प्रकाराणि विहितानि पुराऽनघ
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव
मान्धाता-
दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः
लिङ्गान्तरे वर्तमाना आश्रमेषु तथैव च
इन्द्रः-
विनष्टायां दण्डनीत्यां राजधर्मे विनाकृते
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा
आश्रमाणां विकल्पाश्च वृत्तेऽस्मिन्वै कृते युगे
अशृण्वानाः पुराणानां धर्माणां शतशो नराः
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः
यदा निवर्त्यते पापो दण्डनीत्या महामते
तदा धर्मो न चलते सम्भूतश्शाश्वतः पुरा
सर्वलोकगुरुं चैव राजानं योऽवमन्यते
न तस्य दत्तं न कृतं न श्रुतं फलति क्वचित्
मानवानामधिपतिं देवरूपं महाद्युतिम्
देवाश्च बहुमन्यन्ते धर्मकामं नरेश्वरम्
प्रजापतिर्हि भगवान्यस्सर्वमसृजज्जगत्
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यस्स्मरते गतिम्
स च मान्यश्च पूज्यश्च स च क्षत्रे प्रतिष्ठितः
भीष्मः-
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः
जगाम भवनं विष्णुरक्षरं शाश्वतं परम्
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ
कः क्षत्रमतिवर्तेत चेतयानो बहुश्रुतः
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ