युधिष्ठिरः-
पुनश्शिवान्महोदर्कानहिंस्राल्ँलोकसम्मतान्
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान्
भीष्मः-
ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो
वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम
उक्तानि कर्माणि बहूनि राजन्स्वर्ग्याणि राजन्यपरायणानि
शास्त्रस्य सर्वस्य विधौ स्मृतानि क्षात्रे हि सर्वं विहितं परं यत्
क्षात्राणि वैश्यानि च सेवमानश्शौद्राणि कर्माणि च ब्राह्मणस्सन्
अस्मिल्ँलोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति
या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ
विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव
षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि
सर्वधर्मोपपन्नस्य तद्भूतस्य कृतात्मनः
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च
निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञकाः
यो यस्मिन्कुरुते कर्म यादृशं येन च प्रभो
तादृशं तादृशेनैव सगुणं प्रतिपद्यते
वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च
वेत्तुमर्हसि राजेन्द्र स्वाध्यात्मगुणितेन च
कालसञ्चोदितः काले कालपर्यायनिश्चितः
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः
अन्तवन्ति प्रदानानि परं श्रेयस्कराणि च
अकर्मविहितो लोको ह्यक्षरस्सर्वतोमुखः