वैशम्पायनः-
ततः कल्यं समुत्थाय कृतपूर्वाह्णिकक्रियाः
ययुस्ते नगराकारैः रथैः पाण्डवयादवाः
प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघम्
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्
व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः
निषेदुरभितो भीष्मं परिवार्य समन्ततः
ततो राजा महातेजा धर्मपुत्रो युधिष्ठिरः
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्य यथाविधि
युधिष्ठिरः-
य एष राजन्राजेति शब्दश्चरति भारत
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह
तुल्यपाणिभुजग्रीवस्तुल्यबुद्धीन्द्रियात्मकः
तुल्यदुःखसुखात्मा च तुल्यपृष्ठशिरोधरः
तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च
निश्श्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान्
समानजन्ममरणस्समस्सर्वैर्गुणैर्नृणाम्
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति
कथमेको महीं कृत्स्नां शूरवीरार्यसङ्कुलाम्
रक्षत्यपि च लोकऽस्य प्रसादमभिवाञ्छति
एकस्य तु प्रसादेन कृत्स्नो लोकः प्रसीदति
व्याकुले चाकुलस्सर्वो भवतीति विनिश्चयः
एतदिच्छाम्यहं श्रोतुं त्वत्तो हि भरतर्षभ
सर्वं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर
नैतत्कारणमत्यल्पं भविष्यति विशां पते
यदेकस्मिञ्जगत्सर्वं देववद्याति सन्नतिम्
भीष्मः-
नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्
नैव राज्यं न राजाऽऽसीन्न च दण्डो न दाण्डिकः
धर्मेणैव प्रजास्सर्वा रक्षन्ति स्म परस्परम्
पाल्यमानास्तथाऽन्योन्यं नरा धर्मेण भारत
दैन्यं परस्परं पाजग्मुस्ततस्तान्मोह आविशत्
ते मोहवशमापन्ना मनवा मनुजर्षभ
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्
नष्टायां प्रतिपत्तौ च मोहवश्यास्तदा नराः
लोभस्य वशमापन्नास्सर्वे भरतसत्तम
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः
कामो नामापरस्तत्र समपद्यत वै प्रभो
तांस्तु कामाभिसन्तप्तान्रागो नामाभिसंस्पृशत्
रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर
अगम्यागमनं चैव वाच्यावाच्यं तथैव च
भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन्
विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत्
नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन्
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः
प्रपद्य भगवन्तं ते देवं लोकपितामहम्
ऊचुः प्राञ्जलयस्सर्वे दुःखवेगसमाहताः
देवाः-
भगवन्नरलोकस्थं ग्रस्तं ब्रह्म सनातनम्
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत्
ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्चर
ततस्तु समतां याता मर्त्यैस्त्रिभुवनेश्वराः
अधोभिवर्षास्तु वयं भौमास्तूर्ध्वप्रवर्षिणः
क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम्
भीष्मः-
अत्र निश्श्रेयसं यन्नस्तद्ध्यायस्व पितामह
त्वत्प्रसादात्समुत्थोसौ प्रभावो नो भवत्वयम्
ब्रह्माः-
तानुवाच सुरान्सर्वान्स्वयम्भूर्भगवांस्ततः
श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरोत्तमाः
भीष्मः-
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः
त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तस्सत्वं रजस्तमः
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः
आत्मादेशश्च कालश्चाप्युपायाः कृत्यमेव च
सहायाः कारणं चैव षड्वर्गो नीतिजस्स्मृतः
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः
अमात्यलिप्सा प्रणिधी राजपुत्रस्य लक्षणम्
चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः
साम चैव प्रदानं च भेदो दण्डश्च पाण्डव
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता
मन्त्रश्च वर्णितः कृत्स्नो मन्त्रभेदास्तथैव
विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम्
सन्धिश्च त्रिविधाभिख्यो हीनो मध्यस्तथा समः
भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः
यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः
विजयो धर्मयुक्तश्च तथाऽर्थविजयश्च ह
आसुरश्चैव विजयः कार्त्स्न्येन परिवर्णितः
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम्
प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः
प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव
विष्टिर्नावश्चराश्चैव देशिका इति चाष्टमः
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु
जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधस्स्मृतः
क्रीडापूर्वे रणे द्यूते विस्रम्भण समन्वितम्
उक्तं कैतव्यमित्येतदुपायो नवमो बुधैः
उपेक्षा सर्वकार्येषु कर्मणां करणेषु च
अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया
इन्द्रजालादिका माया वाजीवनकुशीलवैः
सुनिमित्तैदुर्निमित्तैरुत्पातैश्च समन्वितम्
डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते
शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका
अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः
कृत्स्नो मार्गगुणाश्चैव तथा भूमिगुणाश्च ह
आत्मरक्षणमाश्वासस्स्पर्शानां चान्ववेक्षणम्
कल्पना विविधाश्चापि नृनागरथवाजिनाम्
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम्
शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ
बलव्यसनयुक्तं च तथैव बलहर्षणम्
पीडा चापदकालश्च भयकालश्च पाण्डव
तथा ख्यातविधानं च योगस्सञ्चार एव च
चोरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम्
अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च
दूषणेन च नागानामातङ्कजननेन च
आराधनेन भक्तस्य पत्युश्चोपग्रहेण च
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमीक्षणम्
दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम्
अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम्
अवमर्दः प्रतीघातस्तथैव च बलीयसाम्
व्यवहारस्सुसूक्ष्मश्च तथा कण्टकशोधनम्
श्रमो व्यायामयोगश्च योगद्रव्यस्य सञ्चयः
अभृतानां च भरणं भृतानां चान्ववेक्षणम्
अन्तकाले प्रदानं च व्यसनेष्वप्रसङ्गिता
तथा राजगुणाश्चैव सेनापतिगुणाश्च ह
करणस्य च कर्तुश्च गुणदोषास्तथैव च
दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुवर्तिनाम्
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम्
अलभ्यलिप्सा लब्धस्य तथैव च विवर्धनम्
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा
विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुकम्
चतुर्थं व्यसनाघाते तथैवात्रानुवर्णितम्
क्रोधजानि ततोग्राणि कामजानि तथैव च
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह
मृगयाऽक्षास्तथा पानं स्त्रियश्च भरतर्षभ
कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च
आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च
यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः
अवमर्दः प्रतीघातः केतनानां च भञ्जनम्
चैत्यद्रुमावमर्दश्च रोधः कर्मान्तनाशनम्
अपस्करोऽथ वमनं तथोपास्या च वर्णिता
पणवानकशङ्खानां भेरीणां च युधिष्ठिर
उपार्जनं च द्रव्याणां परमर्म च तानि षट्
लब्धस्य च प्रशमनं सतां चैवाभिपूजनम्
विद्वद्भिरेकीभावश्च जपहोमविधिज्ञता
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया
आहारयोजनं चैव नित्यमास्तिक्यमेव च
एतेन च यथा स्थेयं सत्यत्वं मधुरा गिरः
उत्तमानां समाजानां क्रियाः केतनजास्तथा
प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ
वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम्
अदण्ड्यता च विप्राणां युक्त्या दण्डनिपातनम्
अनुजीवीस्वजातिभ्यो गुणेभ्यश्च समुद्भवः
रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम्
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका
त्रिस्सप्ततिमतिश्चैव प्रोक्ता या च स्वयम्भुवा
देशजातिकुलानां च धर्मास्समनुवर्णिताः
धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः
उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिण
मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः
दूषणं स्रोतसां चैव वर्णितं च स्थिराम्भसाम्
धैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः
तत्सर्वं राजशार्दूल नीतिशास्त्रेऽभिवर्णितम्
एतत्कृत्वा सुभं शास्त्रं ततस्स भगवान्प्रभुः
देवानुवाच संहृष्टस्सर्वाञ्छक्रपुरोगमान्
उपकाराय लोकस्य त्रिवर्गस्थापनाय च
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाषिता
दण्डेन सहिता ह्येषा लोकरक्षणकारिका
निग्रहानुग्रहरता लोकाननुचरिष्यति
दण्डेन नीयते चेदं दण्डं नयति चप्युतः
दण्डनीतिरिति प्रोक्ता त्रीँल्ँलोकानवपत्स्यते
षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः
ततस्तां भगवान्नीतिं पूर्वं जग्राह शङ्करः
बहुरूपो विशालाक्षश्शिवस्स्थाणुरुमापतिः
अनादिनिधनो देवश्चैतन्यादिसमन्वितः
ज्ञानानि च वशे यस्य तारकादीन्यशेषतः
अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम्
तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः
अरुदत्सस्वनं घोरं जगतः प्रभुरव्ययः
जायमानः पिता पुत्रे पुत्रः पितरि चैव हि
बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम्
यस्मिन्हिरण्मयो हंसश्शकुनिस्समपद्यत
कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः
स देवस्सर्वभूतानां महादेवस्सनातनः
असङ्ख्यातसहस्राणां रुद्राणां स्थानमव्ययम्
युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः
सञ्चिक्षेप ततश्शास्त्रं महार्थं ब्रह्मणा कृतम्
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः
मघवानपि तच्छास्त्रं देवात्प्राप्य महेश्वरात्
प्रजारञ्जनमन्विच्छन्सञ्चिक्षेप पुरन्दरः
सहस्त्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम्
अध्यायानां सहस्त्रैस्तु त्रिभिरेव बृहस्पतिः
सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं यदुच्यते
अध्यायानां सहस्रेण काव्यस्सङ्क्षेपमब्रवीत्
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः
एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः
सङ्क्षिप्तमायुर्विज्ञाय लोकानां ह्रासि पाण्डव
अथ देवास्समागम्य विष्णुमूचुः प्रजापतिम्
एको योऽर्हति मर्त्येभ्यश्श्रैष्ठं तं वै समादिश
ततस्सञ्चिन्त्य भगवान्देवो नारायणः प्रभुः
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम्
विरजास्तु महाभागः प्रभुत्वं भुवि नैच्छत
न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव
कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि मर्त्याधिकोऽभवत्
कर्दमस्तस्य पुत्रोऽभूत्सोऽप्यतप्यन्महत्तपः
प्रजापतेः कर्दमस्य अनङ्गो नाम वीर्यवान्
प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः
अनङ्गपुत्रोऽतिबलो नीतिमानभिगम्य वै
अभिपेदे महाराज्यमथेन्द्रियवशोऽभवत्
प्राप्य नारीं महाभागां रूपिणीं काममोहितः
सौभाग्येन च सम्पन्नां गुणैश्चानुत्तमां सतीम्
मृत्योस्तु दुहिता राजन्सुनीथा नाम नामतः
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत्
तं प्रजासु विधर्माणं रागद्वेषवशानुगम्
मन्त्रपूतैः कुशैर्जघ्नुर्ऋषयो ब्रह्मवादिनः
ममन्थुर्दक्षिणं चोरुमृषयस्तस्य भारत
मन्त्रवत्तस्य सञ्जज्ञे ह्रस्वकः पुरुषोऽशुचिः
दग्धस्थूणाप्रतीकाशो राक्षसः कृष्णमूर्धजः
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः
तस्मान्निषादास्सम्भूताः क्रूराश्शैलवनाश्रयाः
ये चान्ये विन्ध्यनिलया म्लेच्छाश्शतसहस्रशः
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः
ततः पुरुष उत्पन्नो रुपेणेन्द्र इवापरः
कवची बद्धनिस्त्रिंशः सशरः सशरासनः
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः
तं दण्डनीतिस्सकला श्रिता राजन्नरोत्तमम्
ततस्स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह
वैन्यः-
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत
भीष्मः-
यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम्
तदहं वः करिष्यामि नात्र कार्या विचारणा
तमूचुस्तत्र देवाश्च ते चैव परमर्षयः
ऋषयः-
नियतो यत्र धर्मो वै तमशङ्कः समाचर
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु
कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः
यश्च धर्मात्प्रविचलितो लोके कश्चन मानवः
निग्राह्यस्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता
प्रतिज्ञामधिरोहस्व मनसा कर्मणा गिरा
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत्
यश्चात्र धर्म इत्युक्तो दण्डनीतिव्यपाश्रयः
तमशङ्कः करिष्यामि स्ववशो न कदाचन
भीष्मः-
अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभि भो
लोकं च सङ्करात्कृत्स्नं त्राताऽस्मीति परन्तप
वैन्यस्तु तानुवाचेदं देवानृषिपुरोगमान्
वैन्यः-
भीष्मः-
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः
एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः
मन्त्रिणो वालखिल्यस्तु सारस्वत्यो गणो ह्यभूत्
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत्
आत्मनाऽष्टम इत्येव श्रुतिरेषां परा नृप
उत्पन्नौ वन्दिनौ चास्य तौ पूर्वौ सूतमागधौ
समतां वसुधायाश्च स सम्यगुदपादयत्
वैषम्यं परमं भूमेरिति नः परमा श्रुतिः
स विष्णुना च देवेन शक्रेण विबुधैश्च ह
ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः
तं साक्षात्पृथिवी भेजे रत्नान्यादाय वाऽपि च
सागरस्सरितां भर्ता हिमवांश्चाचलोत्तमः
शक्रश्च धनमक्षय्यं प्रादात्तस्मै युधिष्ठिर
रुक्मं चापि महामेरुस्स्वयं कनकपर्वतः
यक्षराक्षसभर्ता च भगवान्नरवाहनः
धर्मे चार्थे च कामे च समर्थं प्रददौ धनम्
हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा
प्रादुर्बभूवुर्वैन्यस्य चिन्तयानस्य पाण्डव
न जरा न च दुर्भिक्षं नाधयो व्याधयः कुतः
सरीसृपेभ्यस्स्तेनेभ्यो न चान्येभ्यः कदाचन
भयमासीत्ततस्तस्य पृथिवी सस्यमालिनी
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च
यक्षराक्षसनागानामीप्सितं यस्य यस्य यत्
तेन धर्मोत्तरश्चायं कृतो लोको महात्मना
रञ्जिताश्च प्रजास्सर्वास्तेन राजेति कथ्यते
ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते
प्रथिता धर्मतश्चेयं पृथिवी साधुभिस्स्मृता
स्थापनं चाकरोद्विष्णुस्स्वयमेव सनातनः
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति भारत
ततस्स भगवान्विष्णुराविवेश च पार्थिवम्
देववन्नरदेवानां नमतीदं जगत्ततः
दण्डनीत्या च सततं रक्षितारं नरेश्वरम्
न स्म धर्षयते कश्चिन्नित्यशश्चारुदर्शनम्
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते
आत्मना करणैश्चैव समस्येह महीक्षितः
को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते नृणात्
विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा
श्रीस्सम्भूता ततस्तस्मिन्देवी धर्मस्य पाण्डव
श्रियस्सकाशादर्थश्च जातो धर्मस्य पाण्डव
अथ धर्मस्तथैवात्र श्रीश्च राज्ये प्रतिष्ठिता
सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम्
पार्थिवो जायते तात दण्डनीतिविशारदः
माहात्म्येन च संयुक्तो वैष्णवेन नरो भुवि
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति
स्थापनादथ चेद्देवैर्न कश्चिदतिवर्तते
तिष्ठदेकस्य तु वशे तं चैवानुविधीयते
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते
तुल्यस्यैकस्य येनायं लोको वचसि तिष्ठति
योऽस्य वै मुखमद्राक्षीत्सोऽस्य सर्वो वशानुगः
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति
महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा
नयश्चारश्च विपुलो येन सर्वमिदं ततम्
आगमश्च पुराणानां महर्षीणां च सम्भवः
तीर्थवंशश्च वंशश्च क्षत्रियाणां युधिष्ठिर
सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च
चातुर्वर्ण्यं तथैवात्र चातुर्विद्यं च कीर्तिम्
इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः
तपो ज्ञानमहिंसा च सत्यं दानममत्सरः
वृद्धोपसेवा दाक्ष्यं च शौचमुत्थानमेव च
सर्वभूतानुकम्पा च सर्वमेवात्र वर्णितम्
भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम्
तस्मिन्पैतामहे शास्त्रे पाण्डवेय न संशयः
ततो जगति राजेन्द्र सततं शब्दितं बुधैः
देवाश्च नरदेवाश्च तुल्या इति विशाम्पते
एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम्