वैशम्पायनः-
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम्
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः
युधिष्ठिरः-
राज्ञा वै परमो धर्म इति धर्मविदो विदुः
महान्तमेतं भारं हि मन्ये तद्ब्रूहि भारत
राजधर्मान्विशेषेण कथयस्व पितामह
सर्वस्य जीवलोकस्य राजधर्मः परायणम्
त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव
मोक्षधर्मश्च विस्पष्टस्सकलोऽत्र समाहितः
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्
अत्र वै सम्प्रमूढे तु धर्मे राजर्षिसेविते
लोक्यसंस्था न भवेत्सर्वं च व्याकुलीभवेत्
उदयन्हि यथा सूर्यो नाशयत्यशुभं तमः
राजधर्मस्तथा लोक्यामाक्षिपत्यशुभां गतिम्
तदग्रे राजधर्मान्हि मदर्थे त्वं पितामह
प्रब्रूहि भरतश्रेष्ठ त्वं हि धर्मभृतां वरः
आगमश्च परस्त्वत्तस्सर्वेषां नः परन्तप
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते
भीष्मः-
नमो धर्माय महते नमः कृष्णाय वेधसे
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर
निरुच्यमानान्नियतो यच्चान्यदपि वाञ्छसि
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनमिच्छता
देवतानां द्विजानां च वर्तितव्यं यथाविधि
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह
आनृण्यं याति धर्मस्य लोकेन च समर्च्यते
उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर
न ह्युत्थानमृते दैवं राज्ञामर्थप्रसाद्धये
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च
पौरुषं हि परं मन्ये दैवं निश्चित्य मुह्यते
विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः
घटेतैवं सदा तात राज्ञामेष परो नयः
न हि सत्यादृते किञ्चिद्राज्ञां वै सिद्धिकारकम्
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति
ऋषीणामपि राजेन्द्र सत्यमेव पराक्रमः
तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम्
गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः
सुदर्शस्स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन
आर्जवेन सदा युक्ता मोदन्ते ऋषयो दिवि
पुनर्नयविचारेण त्रयीसंवरणेन च
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत्
अदण्ड्याश्चैव ते नित्यं विप्रास्स्युर्ददतां वर
भूतमेतत्परं लोके ब्राह्मणा नाम पाण्डव
मनुना चात्र राजेन्द्र गीतौ श्लोकौ महात्मना
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजस्स्वासु योनिषु शाम्यति
अयो हन्ति यदाऽश्मानमग्निरापो निहन्ति च
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः
एवं कृत्वा महाराज नमस्या एव ते द्विजाः
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः
एवं चैव महाराज लोकयात्राविघातकाः
निग्राह्या एव बाहुभ्यां ब्राह्मणास्ते नरेश्वर
श्लोकोश्चोशनसा गीताः पुरा तात महर्षिणा
तान्निबोध महाराज त्वमेकाग्रमना नृप
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नराधिपः
विनश्यमानं धर्मं हि यो रक्षति स धर्मवित्
न तेन धर्महा स स्यान्मन्युस्तन्मन्युमृच्छति
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः
सापराधानपि हि तान्विषयान्ते समुत्सृजेत्
अभिशस्तमपि ह्येषां पीडयेन्न विशां पते
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहे च तथैव च
राजद्विष्टस्य विप्रस्य विषयान्ते विवासनम्
विधीयते न शारीरं भयमेषां कथञ्चन
विहिताश्च नरास्ते स्युर्भक्तिमन्तो द्विजेषु ये
न शोकः परमा तुष्टी राज्ञां भवति सञ्चयात्
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः
सर्वदुर्गेषु मन्यन्ते नरदुर्गं सुदुर्गमम्
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः
न च क्षान्तेन ते नित्यं भाव्यं पुरुषसत्तम
अधर्मो हि मृदू राजा क्षमावानिव कुञ्जरः
बार्हस्पत्ये च शास्त्रे च श्लोकोऽयं निहितः प्रभो
अस्मिन्नर्थे निगदितस्तन्मे निगदतश्शृणु
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः
हस्तियन्ता गजस्येव शिर एवारुरुक्षति
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वाऽपि भवेन्नृपः
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः
प्रत्यक्षेणानुमानेन तथौपम्यागमैरपि
परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण
नचैतानि प्रयुञ्जीथास्सङ्गं तु परिवर्जय
व्यसनी हि नृलोकेऽस्मिन्परिभूतो भवत्युत
उद्वेजयति लोकं च योऽतिद्वेषी महीपतिः
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा
कारणं च महाराज शृणु येनेदमुच्यते
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्
गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम्
वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना
स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत्
न तस्य त्यज्यते धैर्यं कदाचिदपि पाण्डव
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते
परिहासश्च भृत्यैस्ते न नित्यं वदतां वर
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु
अवमन्यन्ति भर्तारं सहर्षमुपजीविनः
स्वे स्थाने नावतिष्ठन्ते लङ्घ्यन्ति च तद्वचः
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते
अयाच्यं चैव याचन्ते भोज्यान्याहारयन्ति च
क्रुध्यन्ति परिदीप्यन्ति भूमिपायाधितिष्ठते
उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्य ते
जर्झरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः
स्त्रीरक्षिभिः प्रसज्जन्ते तुल्यवेषा भवन्ति च
वातनं ष्ठीवनं चैव कुर्वते चास्य सन्निधौ
निर्लज्जं राजशार्दूल व्याहरन्ति च तद्वचः
दन्तिनं वा हयं चापि रथं वा नृपसम्मतम्
अधिरोहन्त्यवज्ञाय सहर्षाः पार्थिवे मृदौ
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम्
इत्येवं सुहृदो नाम ब्रुवते परिषद्गताः
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः
सङ्घर्षशीलाश्च तदा भवन्त्यन्योन्यकारणात्
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्
हेलयन्तश्च कुर्वन्ति सावज्ञास्तस्य शासनम्
अलङ्काराणि भोज्यं च तथा स्नानानुलेपने
हेलयाना नरव्याघ्र स्वस्थास्तस्योपश्रृण्वते
निन्दन्तस्वानधीकारान्सन्त्यजन्ते च भारत
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा
अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर
एते चैवापरे चैव दोषाः प्रादुर्भवन्ति च
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
न प्रशस्यस्तु राजा हि नारीवोद्यमवर्जितः
भगवानुशना चाह श्लोकमत्र विशाम्पते
तदिहैकमना राजन्गदतस्तं निबोध मे
द्वाविमौ ग्रसते भूमिस्सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि
सन्धेयानभिसन्धत्स्व विरोध्यांश्च विरोधय
सप्ताङ्गे यश्च ते राज्ये विपरीतं समाचरेत्
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः
मरुत्तेन हि राज्ञाऽऽसीद्गीतश्श्लोकः पुरातनः
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते
बाहोः पुत्रेण राज्ञा च सगरेण च धीमता
असमञ्जस्सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा
असमञ्जस्सरय्वां स पौराणां बालकान्नृप
न्यमज्जयदतः पित्रो निर्भर्त्स्य स विवासितः
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः
मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितस्सुतः
लोकरञ्जनमेवात्र राज्ञो धर्मस्सनातनः
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्
न हिंस्यात्परवित्तानि देयं काले च दापयेत्
विक्रान्तस्सत्यवाक्क्षान्तो नृपो न चलते पथः
गुप्तमन्त्रो जितक्रोधश्शास्त्रार्थकृतनिश्चयः
धर्मे चार्थे च कामे च मोक्षे च सततं रतः
त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति
वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम्
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता
धर्मसङ्कररक्षा हि राज्ञां धर्मस्सनातनः
न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत्
षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्याऽवलोकयेत्
अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते
त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः
अभृतानां भवेद्भर्ता भृतानां चैव रक्षकः
नृपतिस्सुमुखो नित्यं स्मितपूर्वाभिभाषिता
उपासिता च वृद्धानां जिततन्द्रिरलोलुपः
सतां वृत्ते स्थितमतिस्सतां ह्याचारदर्शनः
न चाददीत वित्तानि सतां हस्तात्कथञ्चन
असद्भ्यस्तु समादाय सद्भ्यस्सम्प्रतिपादयेत्
स्वयं हर्ता च दाता च वश्यात्मा वश्यसाधनः
काले दाता च भोक्ता च शुद्धाचारस्तथैव च
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः
शिष्टाञ्शिष्टाभिसम्बन्धान्मानिनो जनमानिनः
विद्याविदो लोकविदः परलोकान्ववेक्षकान्
धर्मे च निरतान्साधूनचलानचलानिव
सहायान्सततं कुर्याद्राजा भूतिपरिस्कृतान्
तैस्तु तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य सदा भवेत्
एवं कुर्वन्नरेन्द्रो हि न खेदमिह विन्दति
सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत्
स क्षिप्रमनृर्जुर्लुब्धस्स्वजनेनैव बाध्यते
विशुद्धः पृथिवीपालो लोकस्यानुग्रहे रतः
न पतत्यरिभिर्ग्रस्तः पतितश्चाधितिष्ठति
अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः
राजा भवति भूतानां विश्वास्यो हिमवानिव
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः
सुदर्शस्सर्ववर्णानां नयापनयवित्तथा
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः
आरब्धान्येव कार्याणि न पर्यवसितान्यपि
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः
निर्भया विचरिष्यन्ति स राजा राजसत्तमः
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः
नयापनयवेत्तारः स राजा राजसत्तमः
स्वधर्मनिरता यस्य जना विषयवासिनः
असङ्घातरता दान्ताः पाल्यमाना यथाविधि
वश्या नेया विनीताश्च न च सङ्घर्षशीलिनः
विषये दानरुचयो नरा यस्य स पार्थिवः
न यस्य कूटप्रशमो न माया न च मत्सरः
विषये भूमिपालस्य तस्य धर्मस्सनातनः
यस्सत्करोति ज्ञानानि श्रेयान्परहिते रतः
सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः
न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति
श्लोकद्वयं पुरा गीतं भार्गवेण महात्मना
आख्याते राजचरिते राजानं प्रति भारत
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्
तद्राजन्राजसिंहानां नान्यो धर्मस्सनातनः
ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारिणम्
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
ग्रामकामं च गोपालं वनकामं च नापितम्