जनमेजयः-
धर्मात्मनि महासत्त्वे सत्यसन्धे जितात्मनि
देवव्रते महाभागे शरतल्पगते प्रभौ
शयाने वीरशयने भीष्मे शन्तनुनन्दने
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपासिते
काः कथास्समवर्तन्त तस्मिन्वीरसमागमे
हतेषु सर्वसैन्येषु शंस तन्मे महामुने
वैशम्पायनः-
शरतल्पगते भीष्मे कौरवाणां पितामहे
आजग्मुर्ऋषयस्सिद्धा नारदप्रमुखा नृप
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा
तेऽभिगम्य महात्मानो भरतानां पितामहम्
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान्
नारदः-
आचष्टे प्राप्तकालं च भीष्मोऽयमनुयुज्यताम्
अस्तमेति च गाङ्गेयो भानुमानिव भारत
अयं प्राणानुत्सिसृक्षुस्तं सर्वमनुपृच्छत
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम्
एष वृद्धः पराँल्लोकान्सम्प्राप्नोति तनुं त्यजन्
तत्क्षिप्रमनुयुञ्जीध्वं संशयान्मनसि स्थितान्
वैशम्पायनः-
एवमुक्ते नारदेन भीष्ममीयुर्नराधिपाः
प्रष्टुं चाशक्नुवन्तस्ते वीक्षाञ्चक्रुः परस्परम्
अथोवाच हृषीकेशं धर्मपुत्रो युधिष्ठिरः
युधिष्ठिरः-
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम्
प्रव्याहर यदुश्रेष्ठ त्वमग्रे मधुसूदन
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः
वैशम्पायनः-
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः
श्रीभगवान्-
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ
न ग्लायते च हृदयं न च ते व्याकुलं मनः
भीष्मः-
दाहो मोहश्श्रमश्चैव क्लमो ग्लानिस्तथा रुजा
तव प्रसादाद्वार्ष्णेय सद्यो व्यपगतानि मे
यच्च भूतं भविष्यच्च भवच्च परमद्युते
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम्
वेदोक्ताश्चैव ये धर्मा वेदान्ताधिगताश्च ये
तान्सर्वान्सम्प्रपश्यामि वरदानात्तवाच्युत
शिष्टैश्च धर्मो यः प्रोक्तस्स च मे हृदि वर्तते
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन
चतुर्ष्वाश्रमधर्मेषु योऽर्थस्स च हृदि स्थितः
राजधर्मांश्च सकलानवगच्छामि केशव
यच्च यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत्
त्वामेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः
वक्तुं श्रेयस्समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम्
किं ते विवक्षितं चात्र तदाशु वद माधव
श्रीभगवान्-
यशसश्श्रेयसश्चैव मूल मां विद्धि कौरव
मत्तस्सर्वे हि निर्वृत्ता भावास्सदसदात्मकाः
शीतांशुश्चन्द्र इत्युक्ते तेन को विस्मयिष्यति
तथैव यशसा पूर्णे मयि को विस्मयिष्यति
प्रयेयं तु मया भूयो यशस्तव महाद्युते
ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता
यावद्धि पृथिवीपाल पृथिवी स्थास्यति ध्रुवा
तावत्तवाक्षया कीर्तिर्लोकाननुचरिष्यति
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते
वेदप्रवाद इव ते स्थास्यते पृथिवीतले
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते
दत्ता यशो विप्रथये कथं भूय इति प्रभो
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि
तावत्तस्याक्षया कीर्तिर्भवतीति विनिश्चितम्
राजानो हतशिष्टास्त्वां राजन्नभित आसते
स्वधर्माननुयुङ्क्षन्तस्तेभ्यः प्रब्रूहि भारत
भवान्हि च वयोवृद्धश्श्रुताचारसमन्वितः
कुशलो राजधर्माणां पूर्वेषामपरे च ये
जन्मप्रभृति ते किञ्चिद्वृजिनं न ददर्श ह
ज्ञातारं सर्वधर्माणां त्वां विदुस्सर्वपार्थिवाः
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परन्तप
ऋषयश्चैव हि देवाश्च त्वया नित्यमुपासिताः
तस्माद्वक्तव्यमेवेदं त्वया पश्याम्यशेषतः
धर्मं शुश्रूषमाणेभ्यः पृष्टेन न सता पुनः
वक्तव्यं विदुषा नित्यं धर्ममाहुर्मनीषिणः
अप्रतिब्रुवतः कष्टो दोषो हि भविता प्रभो
तस्मात्पुत्रैश्च पौत्रेश्च धर्मान्पृष्टान्सनातनान्
विद्वञ्जिज्ञासमानेभ्यः प्रब्रूहि भरतर्षभ