वैशम्पायनः-
ततः प्रविश्य भवनं प्रविश्ये मधुसूदनः
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत
स ध्यानपथमाविश्य सर्वज्ञानानि माधवः
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम्
सूतास्स्तुतिपुराणज्ञा रक्तकण्ठास्सुशिक्षिताः
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम्
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः
शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः
वीणापणववेणूनां स्वनश्चापि मनोरमः
प्रभास इव विस्तीर्णश्शुश्रुवे तस्य वेश्मनि
ततो युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः
उच्चेरुर्मधुरा वाचो गीतवादित्रबृंहिताः
तत उत्थाय दाशार्हस्स्नातः प्राञ्जलिरच्युतः
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान्
ततस्सहस्रं विप्राणां चतुर्वेदविदां तथा
गवां सहस्रेणैकैकं वाचयामास माधवः
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च
आदर्शे विमले कृष्णस्ततस्सात्यकिमब्रवीत्
श्रीभगवान्-
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्
अपि सज्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः
वैशम्पायनः-
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ
उपगम्य च राजानं युधिष्ठिरमभाषत
सात्यकिः-
युक्तो रथवरो राजन्वासुदेवस्य धीमतः
समीपमापगेयस्य प्रयास्यति जनार्दनः
युधिष्ठिरः-
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः
अतः पुरवराश्चापि निवर्तन्तु धनञ्जय
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति
अतो नेच्छामि कौन्तेय पृथग्जनसमागमम्
वैशम्पायनः-
स तद्वाक्यमथाज्ञाय कुन्तीपुत्रो धनञ्जयः
युक्तं रथवरं तस्मा आचचक्षे नरर्षभः
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि
भूतानीव समस्तानि ययुः कृष्णनिवेशनम्
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु
शैनेयसहितो धीमान्रथमेवान्वपद्यत
रथस्थास्संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्
मेघघोषै रथवरैः प्रययुस्ते नरर्षभाः
मेघपुष्पं वलाहं च सैन्यं सुग्रीवमेव च
दारुकश्चोदयामास वासुदेवस्य वाजिनः
ते हया वासुदेवस्य दारुकेण प्रचोदिताः
गां खुराग्रैस्तथा राजल्ँलिखन्तः प्रययुस्तदा
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन्
ततो ययुर्यत्र भीष्मश्शरतल्पगतः प्रभुः
आस्ते महर्षिभिस्सार्धं ब्रह्मा देवगणैर्यथा
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च
ऋषीनभ्यर्चयन्ति स्म करानुद्यम्य दक्षिणान्
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः
शरतल्पे शयानं तमादित्यं पतितं यथा
ददर्श स महाबाहुं भयादागतसाध्वसः